सदस्यः:शिवप्रसाद राजपतिराम पाठक/प्रयोगपृष्ठम्/1
त्रिपुरा-राज्यं भारतस्य सप्तभगिनिप्रदेशेषु अन्यतमम् अस्ति । त्रिपुरा-राज्यस्य दक्षिण-दिशि बाङ्ग्लदेशः स्थितः अस्ति । त्रिपुरा-राज्यस्य उतर-पूर्व-दिशि असम-राज्यं, मिजोराम-राज्यं च स्थितम् अस्ति । अस्मात् राज्यात् कर्करेखा गच्छति । राज्यमिदं मूलरूपेण त्रिपुरी, तिपेरा, जामाती इत्यादीनां जनजातीनां प्रदेशः अस्ति ।
भौगोलिकम्
[सम्पादयतु]त्रिपुरा-राज्यं पर्वतीयक्षेत्रम अस्ति । अस्य राज्यस्य मध्यभागः, उत्तरभागश्च पर्वतीयक्षेत्रे स्थितम् अस्ति । इदं राज्यं १०,४८६ चतुरस्रकिलोमीटरमितं विस्तृतम् अस्ति । अस्मिन् राज्ये चत्वारः उपत्यकाः सन्ति । कैलाशहर-उपत्यका, कमालपुर-उपत्यका, धर्मनगर-उपत्यका, खोवाई-उपत्यका इत्यादयः अस्य राज्यस्य उपत्यकाः सन्ति । अस्य राज्यस्य उपत्यका प्रायः ७५ तः ७०० मीटरमिता उन्नता भवति । किन्तु काचित् उपत्यका प्रायः १००० मीटरमिता उन्नता भवति । त्रिपुरा-क्षेत्रम् अगरतला-क्षेत्रम् अपि कथ्यते । इदं क्षेत्रं त्रिपुरा-राज्यस्य दक्षिण-पश्चिमभागे स्थितम् अस्ति । क्षेत्रमिदं ४,१५० किलोमीटरमितं विस्तृतम् अस्ति [१]।
जलवायुः
[सम्पादयतु]त्रिपुरा-राज्यस्य “उष्णकटिबन्धीयः सवाना” जलवायुः अस्ति । अस्मिन् राज्ये ग्रीष्मर्तौ प्रायः २० तः ३६ डिग्रीसेल्सियसमात्रात्मकं तापमानं भवति । अस्मिन् राज्ये जनवरी-मासः सम्पूर्णवर्षस्य शीतलतमः मासः भवति । तस्मिन् काले न्यूनतमतापमानं प्रायः ७ डिग्रीसेल्सियसमात्रात्मकं भवति । अस्मिन् राज्ये तडागाः अपि सन्ति । रूद्रसागर-तडागः, डुम्बर-तडागः च अस्य राज्यस्य प्रमुखः तडागः वर्तते । राज्येऽस्मिन् सर्वकारेण सेञ्चनाय अपि बह्व्यः परियोजनाः परिचाल्यन्ते । मानू-परियोजना, खोवाई-परियोजना, गोमती-परियोजना इत्यादयः प्रमुखाः सेञ्चनपरियोजनाः सन्ति [२]।
नद्यः
[सम्पादयतु]त्रिपुरा-राज्ये बह्व्यः नद्यः प्रवहन्ति । गोमती-नदी, हावडा-नदी, मुहूरी-नदी, मानु-नदी, देव-नदी, खोवाई-नदी, फेनी-नदी, लोङ्गाई-नदी इत्यादयः त्रिपुरा-राज्यस्य प्रमुखाः नद्यः सन्ति । एतासु नदीषु गोमती-नदी दीर्घतमा अस्ति । अगरतला-नगरात् १२०० किलोमीटरमिते दूरे डम्बर-तडागः अस्ति । स्थलमिदं तीर्थस्थलम् अपि अस्ति । स्थलमिदं तीर्थमुखम् इति कथ्यते । हावडा-नदी, मुहूरी-नदी च अपि बाङ्ग्लादेशं प्रति प्रवहति [३]।
ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् त्रिपुरा-राज्यस्य जनसङ्ख्या ३६,७१,०३२ अस्ति । तेषु १८,७१,८६७ पुरुषाः, १७,९९,१६५ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते ३५० जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३५० जनाः । त्रिपुरा-राज्ये पुरुषस्त्रियोः अनुपातः १०००-९६१ अस्ति [४] । प्रदेशेऽस्मिन् सर्वधर्माणां जनाः निवसन्ति । तेषु हिन्दुधर्मस्य ८३.४० प्रतिशतं जनाः, इस्लामधर्मस्य ८.६० प्रतिशतं जनाः, ईसाई-धर्मस्य ४.३५ प्रतिशतं जनाः, सिक्खधर्मस्य ०.०२ प्रतिशतं जनाः, बौद्धधर्मस्य ३.४१ प्रतिशतं जनाः, जैनधर्मस्य ०.०२ प्रतिशतं जनाः, अन्यधर्माणां ०.०२ प्रतिशतं जनाः च निवसन्ति । बङ्गाली-भाषा, त्रिपुरी-भाषा च अस्य राज्यस्य आधिकारिकी भाषा अस्ति । अस्मिन् राज्ये ७० प्रतिशतं जनाः बङ्गालीभाषां वदन्ति । राज्येऽस्मिन् जनैः मणिपुरी-भाषा अपि व्यवह्रीयते ।
महानगराणि
[सम्पादयतु]त्रिपुरा-राज्ये चत्वारि महानगराणि सन्ति । अगरतला-नगरम्, उदयपुर-नगरं च [५]।
अगरतला
[सम्पादयतु]अगरतला-नगरं भारतस्य त्रिपुरा-राज्यस्य पश्चिमत्रिपुरा-मण्डले स्थितम् अस्ति । नगरमिदं त्रिपुरा-राज्यस्य राजधानी अपि अस्ति । क्षेत्रफलदृष्ट्या, जनसङ्ख्यादृष्ट्या च इदं नगरं अस्य राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । इदं नगरं बाङ्ग्लादेशात् २ किलोमीटरमिते दूरे स्थितम् अस्ति । अगरतला-नगरं त्रिपुरा-राज्यस्य पश्चिमभागे स्थितम् अस्ति । अस्मिन् नगरे हरोआ-नदी प्रवहति । पर्यटनदृष्ट्या इदं नगरं श्रेष्ठं वर्तते । अस्मिन् नगरे विभिन्नप्रकारकाः वनस्पतयः, जीवाः च प्राप्यन्ते । पर्यटनदृष्ट्या अपि इदं नगरं समृद्धम् अस्ति । माणिक्यवंशस्य राज्ञैः इदं नगरं स्वस्य राजधानीत्वेन उद्घोषितम् आसीत् । एकोनविंशतिशताब्द्यां कुकी-राज्ञः आक्रमणैः चिन्तितः माणिक्यवंशस्य महाराजकृष्णेन अगरतला-नगरं स्थानान्तरितम् । तावदेव इदं नगरं प्रकाशमानम् अस्ति । वर्तमानकालस्य अगरतला-नगरस्य स्वरूपं ई. स. १९४० तमे वर्षे माणिक्यवंशस्य बीरबिक्रमकिशोर-राज्ञा पूर्वमेव कल्पितम् आसीत् । तेन तस्मिन् समये वज्रचूर्णस्य मार्गाणां, भवनानां निर्माणाय योजनाः निर्मिताः आसीत् । अगरतला-नगरस्य विकासाय तस्य महत्त्वपूर्णं योगदानम् अस्ति । अतः एव इदं नगरं "बीर बिक्रम सिंह माणिक्य बहादूर का शहर" इति नाम्ना ज्ञायते स्म । भारतस्य प्रसिद्धजनैः अपि अस्य नगरस्य भ्रमणं कृतम् आसीत् । "रविन्द्रनाथ टागोर" इत्याख्यस्य अगरतला-नगरस्य राज्ञैः सह सम्बन्धः आसीत् । अगरतला-नगरे बहूनि पर्यटनस्थलानि सन्ति । "उज्जयन्ता-भवनं", "नीर-भवनं", "जगन्नाथ-मन्दिरं", "लक्ष्मीनारायण-मन्दिरं", "रविन्द्र कनान" इत्यादिनि अस्य नगरस्य पर्यटनस्थलानि सन्ति । अगरतला-नगरस्य जलवायुः सामान्यः एव भवति । सितम्बर-मासतः मार्च-मासपर्यन्तं अस्य नगरस्य वातावरणं शान्तं, सुखदं, स्वास्थ्यकरं च भवति । अगरतला-नगरं ४४ क्रमाङ्कस्य, ४४A क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ अगरतला-नगरं त्रिपुरा-राज्यस्य विभिन्ननगरैः सह सञ्योजयतः । त्रिपुरा-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः अगरतला-नगरं गन्तुं शक्यते । अगरतला-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः अगरतला-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । अगरतला-नगरस्य रेलस्थानकं नगरात् ५.५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं नगरं प्राप्तुं गुवाहाटी-नगरात् यानानि परिवर्त्य गन्तुं शक्यते । अतः गमने कष्टं भवति । किन्तु अन्यः अपि विकल्पः अस्ति यत् असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकम् अस्ति । अगरतला-नगरात् इदं रेलस्थानकं २८५ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकं अगरतला-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । अगरतला-नगरे विमानस्थानकम् अपि अस्ति । अगरतला-नगरात् इदं विमानस्थानकं १२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । अगरतला-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण अगरतला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया अगरतला-नगरं प्राप्तुं शक्नुवन्ति ।
उदयपुरम्
[सम्पादयतु]उदयपुर-नगरं भारतस्य त्रिपुरा-राज्यस्य दक्षिणत्रिपुरा-मण्डलस्य मुख्यालयः अस्ति । उदयपुर-नगरे बहूनि मन्दिराणि सन्ति । अतः एतेभ्यः मन्दिरेभ्यः इदं नगरं प्रसिद्धम् अस्ति । उदयपुर-नगरं “तडागानां नगरम्” अपि कथ्यते । यतः अस्मिन् नगरे बहवः तडागाः सन्ति । उदयपुर-नगरस्य सर्वे तडागाः कृत्रिमाः सन्ति । “धानी सागर”, “महादेव दिघी”, ”जगन्नाथ दिघी”, “अमर सागर” इत्यादयः प्रमुखाः तडागाः सन्ति । उदयपुर-नगरं त्रिपुरा-राज्यस्य बृहत्तमेषु नगरेषु द्वितीयः अस्ति । अस्मिन् नगरे गोमती-नदी प्रवहति । अनया नद्या अस्य नगरस्य भूमिः उर्वरा भवति । इदं नगरम् अगरतला-नगरात् ५२ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे नजरुल-ग्रन्थालयः अस्ति । इदं स्थलम् अस्य नगरस्य आकर्षणस्य केन्द्रं विद्यते । पश्चिमबङ्ग-राज्यस्य “काजी नजरुल इस्लाम” इत्याख्यस्य कवेः नाम्ना अस्य ग्रन्थालयस्य नामकरणं कृतम् आसीत् । उदयपुर-नगरे बहवः उत्सवाः आयोज्यन्ते । दीपावली-उत्सवः अस्य राज्यस्य प्रमुखः उत्सवः अस्ति । अक्टूबर-मासतः मई-मासपर्यन्तं कालम् उदयपुर्-नगरस्य भ्रमणार्थम् उत्तमम् अस्ति । तस्मिन् समये भारतस्य विभिन्ननगरेभ्यः बहवः जनाः उदयपुर-नगरं गच्छन्ति । उदयपुर-नगरं ४४ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः उदयपुर-नगरं त्रिपुरा-राज्यस्य विभिन्ननगरैः सह सञ्योजयति । त्रिपुरा-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः उदयपुर-नगरं गन्तुं शक्यते । उदयपुर-नगरे भाटकयानानि अपि प्रचलन्ति । अतः तैः उदयपुर-नगरस्य समीपस्थानि वीक्षणीयस्थलानि अपि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । अगरतला-रेलस्थानकम् उदयपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् उदयपुर-नगरात् ५२ किलोमीटरमिते दूरे स्थितम् अस्ति । किन्तु अन्यः अपि विकल्पः अस्ति यत् असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकम् अस्ति । उदयपुर-नगरात् इदं रेलस्थानकं २९९ किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकं उदयपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखैः क्षेत्रैः सह श्रेष्ठतया सम्बद्धम् अस्ति । अस्मात् रेलस्थानकात् भारतस्य प्रमुखेभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । उदयपुर-नगरे विमानस्थानकं नास्ति । अगरतला-नगरस्य विमानस्थानकम् उदयपुर-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । उदयपुर-नगरात् अगरतला-विमानस्थानकं ५२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं विमानस्थानकं राष्ट्रियविमानस्थानकम् अस्ति । अगरतला-विमानस्थानकात् मुम्बई-नगराय, कोलकाता-नगराय, पुणे-नगराय, गुवाहाटी-नगराय, चेन्नै-नगराय, देहली-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण उदयपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धम् अस्ति । अतः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः सरलतया उदयपुर-नगरं प्राप्तुं शक्नुवन्ति ।
शिक्षणम्
[सम्पादयतु]ई. स. २०११ वर्षस्य जनगणनानुसारं राजस्थान-राज्यस्य साक्षरतामानं ८७.६७ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ९२.१८ प्रतिशतं, स्त्रीणां च ८३.१५ प्रतिशतं च अस्ति । अगरतला-नगरे अस्य राज्यस्य एकः एव त्रिपुरा-विश्वविद्यालयः स्थितः अस्ति [६]।
राजनीतिः
[सम्पादयतु]त्रिपुरा-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्मिन् राज्ये विधानसभायाः ६० स्थानानि सन्ति । राज्ये लोकसभायाः २, राज्यसभायाः च १ स्थानम् सन्ति । ”भारतीय कम्युनिस्ट् पार्टी”, “इण्डियन् नेशनल् कॉङ्ग्रेस्”, “इण्डिजेनस् नेशनलिस्ट् पार्टी ऑफ् त्रिपुरा”, “रिवॉल्यूशनरी सोशलिस्ट् पार्टी” इत्यादयः त्रिपुरा-राज्यस्य राजनैतिकसमूहाः सन्ति [७]।
अर्थव्यवस्था, कृषिः, उद्योगाः च
[सम्पादयतु]अस्य राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । तण्डुलाः, गोधूमः, ईक्षुः, आलुकं, कार्पासः, निर्यासः, चायम् इत्यादीनि अस्य नगरस्य प्रमुखाणि सस्यानि सन्ति । अस्मिन् राज्ये स्थानन्तरितकृषिः क्रियते । अस्य राज्यस्य भौगोलिकक्षेत्रस्य २४ प्रतिशतं क्षेत्रे कृषिः क्रियते । हस्तकला अस्य राज्यस्य प्रमुकः व्यवसायः अस्ति । राज्येऽस्मिन् कौशयकीटकपालनं क्रियते । अस्य राज्यस्य जनाः कौशयकीटपालनस्य उद्योगं कुर्वन्ति । तैलं, प्राकृतिकवायुः च अस्य राज्यस्य महत्त्वपूर्णखानिजौ स्तः । अस्य प्रदेशस्य स्थानीयजनजातेः जनाः वंशगृहं निर्मान्ति । भूम्याः २ मीटरमितम् उन्नतं गृहनिर्माणं कुर्वन्ति । अस्मिन् प्रदेशे चूर्णपाषाणः अपि प्राप्यते [८]।
कला, संस्कृतिश्च
[सम्पादयतु]त्रिपुरा-राज्ये बहवः समुदायाः निवसन्ति । तेषां समुदायानां लोकनृत्यानि अपि भिन्नानि भवन्ति । अतः सांस्कृतिकदृष्ट्या इदं राज्यं समृद्धम् अस्ति । “झूम”, “मैमिता”, “गारिया”, “मसक”, “सुमानी”, “लेबाङ्ग-झूमानी-नृत्यं”, “स्वागत-नृत्यं”, “काङ्गला-नृत्यम्” इत्यादीनि नृत्यानि त्रिपुरा-राज्ये प्रचलितानि सन्ति । राज्येऽस्मिन् वंशैः हस्तशिल्पानि निर्मीयन्ते । “सचिनदेव बर्मन” नामकः प्रसिद्धः सङ्गीतकारः अपि त्रिपुरा-राज्येन सह सम्बद्धः अस्ति । त्रिपुरा राज्ये बहवः उत्सवाः अपि आचर्यन्ते । “गजन-उत्सवः”, “दुर्गा-पूजा”, “रवीन्द्र-जयन्ती”, “नजरुल-जयन्ती” इत्यादयः उत्सवाः अस्य राज्यस्य प्रमुखाः उत्सवाः सन्ति । उदयपुर-नगरे गोमती-नद्याः तटे भुवनेश्वरी-मन्दिरं स्थितम् अस्ति । अस्य मन्दिरस्य निर्माणं माणिक्यवंशस्य गोविन्द-राज्ञा कारितम् आसीत् । उदयपुर-नगरे जगन्नाथ-मन्दिरं, बलभद्र-मन्दिरं, सुभद्रा-मन्दिरम् अपि अस्ति । प्रतिवर्षम् उदयपुर-नगरे रथयात्रायाः आयोजनम् अपि क्रियते । त्रिपुरासुन्दरी-मन्दिरम् अस्य राज्यस्य प्रमुखधार्मिकस्थलम् अस्ति । मन्दिरमिदं देव्या शक्तिपीठेषु अन्यतमम् अस्ति । ई. स. १५०१ तमे वर्षे माणिक्य-वंशस्य धन्य-राज्ञा अस्य मन्दिरस्य निर्माणं कारितम् आसीत् । उनाकोटी अपि अस्य राज्यस्य अन्यतमं तीर्थस्थलम् अस्ति । तत्र अशोकाष्टमीमेला-उत्सवस्य आयोजनं भवति [९]।
- ↑ भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२०
- ↑ भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२०-३२१
- ↑ भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२०
- ↑ भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३१६
- ↑ भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३१६
- ↑ भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२१
- ↑ भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३१८
- ↑ भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२१
- ↑ भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३२१-३२२