सदस्यः:Ajith555z/प्रयोगपृष्ठम्2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऋष्यशृङ्गः
ऋष्यशृङ्गः
जन्म ऋष्यशृङ्गः
कर्णाटकस्य चिक्कमगळूरुमण्डलम् शृङ्गेरी समीपे
देशीयता भारतीयः
कृते प्रसिद्धः दशरथः पुत्रकामेष्ठियागे पुरोहितः
भार्या(ः) शान्त
परिवारः विभाण्ड्क (father)
ऊर्वशी (mother)

शान्ता दशरथस्य पुत्री। रामादीनाम् अग्रजा। दशरथस्य मित्रम् अङ्गाधिपः रोमपादः। रोमपादस्य अपत्यं न आसीत्। अतः मित्रस्य दुःखनिवारणाय दशरथः स्वपुत्रीं शान्तां रोमपादाय दत्तकरूपेण दत्तवान् आसीत्। अग्रे तस्याः विवाहः ऋष्यशृङ्गेन सह अभवत्। ऋष्यशृङ्गः कश्चन महान् तपस्वी । एतस्य जन्मकथा तु एवं वर्तते, यथा- पुरा विभाण्ड्को नाम मुनिः कदाचित् स्नानार्थं कञ्चित् सरोवरमवतीर्णः सन् तत्र ऊर्वशीमप्सरसं दृष्ट्वा स्खलिततेजा अभवत् । तदा तस्य वीर्यं काचिद्धरिणी पप्राश । तस्यां हरिण्याम् अयं सञ्जातः । पिता विभाण्डकस्तु एनं तथा पुपोष यथा कापि स्त्री नैतस्य दृष्टिगोचरा भवेत् । अत एष बाल्यादारभ्य महति तपसि मग्नः महान्तं महिमानं समपादयत् । एकदा अङ्गदेशाधिपतिः रोमपादः स्वदेशे अनावृष्टौ सत्यां एनं स्वराज्यं निनाय, अदृष्टस्त्रीकस्य, अस्खलितरेतस्कस्य विभाण्डकसूनोः ऋष्यशृङ्गस्य महिम्ना अङ्गदेशसीम्नि पादन्यासमात्रेण सुवृष्टिं प्राप च । अग्रे यदा दशरथः पुत्रकामेष्ठियागं कृतवान् तदा ऋष्यशृङ्गस्य एव पौरोहित्यम् आसीत्। इदानीन्तनकर्णाटकस्य चिक्कमगळूरुमण्डलस्य शृङ्गेरीसमीपे तस्य आश्रमः आसीत् । ऋष्यशृङ्गस्य गिरिः= शृङ्गगिरिः, स एव कालक्रमेण शृङ्गेरी इति कथ्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxरामायणस्य पात्राणि]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसर्वे अपूर्णलेखाः]]