सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/15

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

दमनकस्य प्रस्थानोत्तरं भयेन व्याकुलचित्तः पिङ्गलकः विमर्शयति यत्, अहो! एतस्मिन् दमनके विश्वासं कृत्वा, स्वमनोगतं तस्य सम्मुखम् उपस्थाप्य च मया अनुचितं कृत्यं कृतम् अस्ति। कदाचित् मम शत्रुभ्यः अपि धनं प्राप्य एषः तेषां पक्षात् कार्यं कुर्वन् स्यात्। यतो हि अहं तं वंशपरम्परया प्राप्तात् मन्त्रिपदात् पदच्युतं कृतवान्। अतः एषः मां प्रति द्वेषं सेवितः मम अहिताय प्रयत्नरतः स्यात्।

उक्तञ्च – यदि राजा स्वस्य सम्मानितानाम्, उच्चपदाधिकारिणाम् अपि तिरस्कारम्, अपमानं च करोति, तान् पदच्युतान् करोति च, तर्हि ते तिरस्कृताः अधिकारिणः कुलीनः सन्तः अपि तस्य राज्ञः सर्वनाशाय सततं प्रयत्यमानाः भवन्ति। अतः एतस्य दमनकस्य उद्देशः कः अस्ति इति अवगन्तुं कस्मिंश्चिद् अपरे स्थाने तस्य प्रतीक्षां करोमि।

कदाचित् एवं न भवेत् यत्, तेन भयङ्करजीवेन सह आगत्य एषः ममोपरि आक्रमणस्य योजनां कृतवान् स्यात्। अतः मया एतस्य दमनकस्य एतावान् विश्वासः न कर्तव्यः।

(शत्रूणां कदापि विश्वासः न करणीयः इति वदति।)[१]

यतो हि उक्तं च – यदि बलवतां शत्रूणां विश्वासं निर्बलः न करोति, तर्हि सः तेन न वध्यते। प्रत्युत बलवान् पुरुषः अपि यदि निर्बलस्य शत्रोः विश्वासं करोति, तर्हि सोऽपि निर्बलेन वध्यते।[२] यदि मनुष्यः सुखानि, समृद्धिं, दीर्घायुष्यं, शान्तिं च इच्छति, तर्हि सः बृहस्पतेः अपि विश्वासं न कुर्यात्। "न कस्यापि विश्वासः करणीयः" इत्येव महत्तमा बुद्धिमत्ता अस्ति। पर्याप्तैः शपथैः सन्धितस्य (शपथोत्तरं सन्धौ जाते सति) शत्रोः कदापि विश्वासः न करणीयः। स्वर्गस्य प्रैप्सायां (प्राप्तुम् ईप्सायां) रतं वृत्रासुरम् इन्द्रः शपथेन आश्वस्तं कृतवान्, ततश्च अवरसे सति वज्रेण तम् अवधत। विश्वासं विना शत्रवः, देवाः चापि मारयितुं न शक्नुवन्ति। विश्वासे कृते सत्येव दितेः गर्भं प्रविश्य इन्द्रः गर्भं विदारतवान्।

दितेः गर्भविदारणकथा

दितेः गर्भविदारणस्य कथा श्रीमद्भागवतमहापुराणस्य षष्ठमस्य स्कन्दस्य अष्टादशेऽध्याये उल्लिखिता वर्तते।[३] दैत्यानां मातुः दित्याः गर्भे इन्द्राद् अपि बलवान् पुत्रः भविष्यति इति इन्द्रः ज्ञातवान्। अतः सः दितेः सेवायाः अवलम्बनं कृत्वा तस्याः गृहे निवासम् अकरोत्। बहुभ्यः दिनेभ्यः अनन्तरं यदा इन्द्रः दितिम् असावधानाम्, अशुद्धां (पर्यङ्कस्य विरपरीते भागे शिरं प्रस्थापितवतीं) च अपश्यत्, तदा सः तस्याः गर्भं प्रविष्टवान्। गर्भं प्रविष्टः इन्द्रः दितेः गर्भस्य सप्त खण्डानि अकरोत्। यदा दितिः स्वगर्भस्य विदारणं ज्ञातवती, तदा सा इन्द्रम् उक्तवती यत्, मम तपोभङ्गत्वादेव एवम् अभवत्। अत्र तव कोऽपि दोषः नास्ति। एते सप्त खण्डाः सर्वदा आकाशे विचरणं करिष्यन्ति। ते सप्तखण्डाः मरुतः भविष्यन्ति। तेषु सप्तसु खण्डेषु प्रत्येकं खण्डे सप्त मरुतः भविष्यन्ति, ये आकाशस्य सप्तसु स्थानेषु विचरणं करिष्यन्ति। एवं ते एकोनपञ्चाशत् मरुतः समुद्भूताः। तान् इन्द्रः स्वस्य देवसेनायाः सैनिकेषु न्ययोजयत्।

एवं विचिन्त्य सः पिङ्गलकः अपरं सुरक्षितं स्थानं गत्वा दमनकस्य प्रतीक्षां करोति। सः दमनकोऽपि यदा सञ्जीवकस्य समीपं गतवान्, तदा तं वृषभं दृष्ट्वा हर्षितमनः सः चिन्तयति यत्, अहो! एषः तु स्ववसरः सम्प्राप्तः। एतस्य प्रसङ्गस्य आधारेण एतयोः सञ्जीवकपिङ्गलकयोः सन्धिं, विग्रहं च (पूर्वम् एतयोः मैत्रं कारयित्वा ततः उभयोः विग्रहं च) कृत्वा अहं पिङ्गलकं वशे कर्तुं शक्नोमि।

(विवशतायाः कारणेन परवशता कथं भवति इति बोधयति) [४]

उक्तञ्चास्ति – मन्त्रिणां कुलीनता, सहृदयता, विद्वत्ता, चतुरता इत्यादिभ्यः गुणेभ्यः प्रभावितः राजा कदापि तेषां कथनं नाङ्गीकरोति, परन्तु सः राजा यदा विपत्तिभिः आवृत्तः भवति, तदा सः मन्त्रिणां वचनानुसरणाय बाध्यः भवति। आपद्गतः (आपद्भिः आवृत्तः) राजा सर्वदा मन्त्रिणां वशे भवति। यतो हि तस्मिन् काले राजा तेषां मन्त्रिणां भोग्यः (स्वार्थपूर्तेः साधनं) भवति, अतः मन्त्रिणः सर्वदा राज्ञे विपत्तेः कामनां कुर्वन्तः भवन्ति। यथा रोगरहितः, स्वस्थः मनुष्यः कदापि वैद्यस्य सान्निध्यं न वाञ्च्छति, तथैव विपत्तिरहितस्य राज्ञः कृते कदापि मन्त्रिणां आवश्यकता न भवति। अर्थात् यथा रोगे सम्प्राप्ते वैद्याश्रयः भवति, तथैव विपत्तिसम्प्राप्ते मन्त्रिणाम् आवश्यकता भवति।

एवं मनसि विचिन्तयन् सः दमनकः पिङ्गलकस्य सम्मुखं गच्छति। पिङ्गलकोऽपि आगच्छन्तं तं दृष्ट्वा स्वभावान् (सन्देहं) आच्छाद्य पूर्ववत् स्वस्थाने अतिष्ठत्। ततः पिङ्गलकस्य समीपं प्राप्तः दमनकः तं प्रणम्य उपविष्टः। पिङ्गलकः अवदत् - "किं दृष्टः भवता सः भयानकः जीवः?" इति। "आम्। भवतः प्रतापेण, कृपया च सः जीवः मया दृष्टः" इति दमनकः प्रत्युदतरत्। ततः "किं भवान् सत्यं भाषते?" इति पिङ्गलकः साश्चर्यं प्रश्नं करोति। तच्छ्रुत्वा दमनकः अवदत् – किं महाराजस्य सम्मुखं कदापि कोऽपि मिथ्या भाषणं कर्तुं शक्नोति?

(राजप्रशंसा इति आरभते) [५]

उक्तञ्च – यः मनुष्यः राज्ञः, देवानां च सम्मुखं किञ्चिदपि मिथ्या वदति, सः यावान् अपि महान् स्यात्, सः शीघ्रं हि नष्टो भवति। तथा च – मनुना राजा देवतानां समष्टिरूपः उक्तः, अतः राजा देवतुल्यः स्वीकरणीयः। तथा च राजानं प्रति कदापि वैरबुद्धिः, दुर्बुद्धिः च न सम्पादनीया। यद्यपि राजा देवतुल्यः भवति, तथापि तयोः देवराज्ञोः मध्ये एकः भेदः अस्ति यत्, शुभाशुभस्य फलं देवाः जन्मान्तरे कालान्तरे वा यच्छन्ति, परन्तु राजा तु योग्यायोग्ययोः कर्मणोः फलम् अनुक्षणम् एव यच्छति।

पिङ्गलकः अवदत् यत्, अस्तु। भवान् तं भयङ्करं जीवम् अवश्यं दृष्टवान् स्यात्। त्वम् एतावता जीवतः असि, किञ्च महान्तः (अतिबलवन्तः) क्षुद्रेभ्यः (अतिदुर्बलेभ्यः) क्रोधिताः न भवन्ति, अतः त्वं तेन न निपातितः (हतः)।

(उन्नतचेतः योग्यस्थाने पराक्रमं पर्दशयति।) [६]

यतः – महतः वृक्षान् समूलम् उन्मूलयितुं समर्थः प्रभञ्जनः (प्रचण्डः वायुः) नतमस्तकानि (निर्बलानि), मृदूनि (निःसत्त्वं) तृणानि उट्पाटयितुं न शक्नोति। यतो हि मनस्विनाम्, उन्नतचेतसां जनानां एषः स्वभावः भवति यत्, ते दीनेषु, हीनेषु निःसत्त्वेषु च स्वपराक्रमं न परीक्षन्ते। अपि च – स्वस्य गण्डस्थलात् (कपोलभागे, शिरोभागे वा) प्रहवति मदजले डयमानानां भ्रमराणां पादैः आहताः गजाः अपि तेषां भ्रमराणाम् उपेक्षाम् एव कुर्वन्ति। यतो हि बलवन्तः समशक्तौ एव क्रोधं कुर्वन्ति।

भवतु एवं महाराज! सः महात्मा, वयञ्च कृपणाः। परन्तु यदि भवान् इच्छति, तर्हि अहं तं भयङ्करं जीवं भवतः दासत्वेन योजयितुं समर्थ्यः अस्मि इति दमनकः प्रङ्गलकं प्रत्युदतरत्। दमनकस्य वचनं श्रुत्वा उत्सुकः पिङ्गलकः अपृच्छत् यत्, किं भवान् एवं कर्तुं शक्नोति? इति।

दमनकः अवदत्, बुद्ध्या किम् असाध्यम् अस्ति? उक्तञ्च – न शस्त्रैः, हस्तिभिः, अश्वैः, पदातिभिः च तादृशं कार्यं भवति, यादृशं कार्यं बुद्ध्या सिद्ध्यति।

पिङ्गलकः अवदत् यत्, यदि एवम् अस्ति (एतत् असाध्यं कार्यं त्वं स्वबुद्ध्या सिद्धयितुम् इच्छसि), तर्हि त्वम् अमात्यपदे अध्यारोपितः असि। अद्य प्रभृति प्रसाद-निग्रहकार्यं (पारितोषिकवितरणं, दण्डदानं च) तव एव कार्यं भविष्यति इति मे निश्चयः (निर्णयः)। एवं स्वाधिकारं प्राप्तः सः दमनकः शीघ्रं हि तस्य सञ्जीवकस्य समीपं गतवान्। सः तं सभर्त्सनम् अवदत् यत्, अत्र एहि, अत्र एहि दुष्ट वृषभ! अस्माकं स्वामी पिङ्गलकः त्वाम् आकारयति (आह्वयति)। एतस्मिन् वने एवं निर्भयः सन् पौनःपुन्येन वृथा एव त्वं गर्जसि इति। "हे भद्र! कः सः पीङ्गलकः, यः माम् आह्वयति?" इति दमनकस्य भर्त्सनां श्रुत्वा सञ्जीवकः अपृच्छत्। सविस्मयं प्रत्युत्तरं यच्छन् पिङ्गलकः अवदत् यत्, "अरे! किं त्वं महाराजं पिङ्गलकं न जनासि? भवतु, किञ्चित् क्षणम् अत्रैव प्रतिपालय (तिष्ठ)। फलं (ताडनं) प्राप्य एव त्वं ज्ञास्यसि" इति। दमनकस्य वचनं शृत्वा आत्मानं गतायुष्यमिव (मृत्योः समीपं) मन्यमानः सञ्जीवकः परं विषादम् अगच्छत्। तथा च अवदत् यत्, भद्र! भवान् साधुसमाचारः (सज्जनः), वचनपटुः च दृश्यते। अतः यदि भवान् मां तत्र नयति, तर्हि महाराजात् पिङ्गलात् मह्यम् अभयस्य प्रसादं (अनुग्रहं) दापयित्वा एव तत्र नयतु इति।

दमनकः प्रत्युदतरत् यत्, सत्यम् अभिहितं (उक्तम्) भवता। नीतिः अपि अस्ति यत्, राज्ञः विश्वासः न करणयीः इति। यतः पृथ्व्याः, समुद्रस्य, पर्वतस्य च अन्तः प्राप्तुं शक्नुमः, परन्तु राज्ञः हृद्गतो भावः कदापि, केनापि च ज्ञातुं न शक्यते।[७] अतः त्वम् अत्रैव तिष्ठ। तावता अहं महाराजस्य पिङ्गलकस्य समीपं गत्वा तव अभयस्य आश्वासनं स्वीकरोमि। ततः त्वां तस्य सम्मुखं नेष्यामि इत्युक्त्वा सञ्जीवकं तत्रैव त्यक्त्वा सः पिङ्गलकस्य समीपम् अगच्छत्। तत्र सः अवदत्, हे स्वामिन्! सः कोऽपि साधारणः जीवः नास्ति, अपि तु साक्षात् भगवतः शिवस्य वाहनं वृषभः अस्ति। यदा अहं तत्र गत्वा अपृच्छं, तदा सः एवम् अवदत् यत्, ममोपरि प्रसन्नः साक्षात् भगवान् महेश्वरः कालिन्दीतीरे हरितानि शष्पाग्राणि (कोमग्रासस्य अग्रभागः) भक्षयितुं माम् आदिष्टवान्। किं बहुना भाषणेन – सः एतद्वनं मम विहारार्थं, क्रीडार्थं च दत्तवान् अस्ति इति।

दमनकस्य वचनानि श्रुत्वा भयभीतः पिङ्गलकः अवदत् यत्, सत्यं ज्ञातम्मया अधुना। देवानाम् आशीर्वादं विना न कोऽपि सामान्यः शष्पभोजी वृषभः व्यालाकीर्णे (मांसभक्षिभिः जीवैः व्याप्ते) अतिगहने वनेऽस्मिन् निर्भयः गर्जन् अटितुं शक्नोति! भवतु, पश्चात् भवान् किम् उक्तवान्? इति। दमनकः उक्तवान् – हे स्वामिन्! मया अभिहितं यत्, हे वृषभ! एतत् वनं तु भगवत्याः चण्डिकायाः वाहनस्य अस्माकं स्वामिनः पिङ्गलकस्य राज्यम् अस्ति। अतः भवान् तु अस्माकं प्रदेशस्य प्रियः अतिथिः अस्ति। भवान् मया सह महाराजस्य पिङ्गलकस्य समीपम् आगच्छतु। भ्रातृभावेन तेन सह स्थित्वा भोजनादिकं कृत्वा विहरन् आनन्देन एतस्मिन् वने स्वसमयं यापयतु इति। ततः तेनापि सर्वं प्रतिपन्नं (स्वीकृतं), सहर्षम् उक्तञ्च – त्वया तव स्वामिनः सकाशात् अभयदक्षिणा दापयितव्या इति। एषा तत्रस्था स्थितिः । अग्रे निर्णयः भवतः उपरि।

एतच्छ्रुत्वा पिङ्गलकः अवदत् यत्, साधु सुमते! साधु मन्त्रिश्रोत्रिय! (मन्त्रिषु श्रेष्ठ!) मम हृदयेन सह मन्त्रणां कृत्वा एव त्वया एतत् अभिहितम् (उक्तम्) अस्ति। अतः अहं तस्मै अभयदानं यच्छामि। परन्तु तस्मादपि मदर्थे अभयदक्षिणां याचयित्वा द्रुततरं तम् अत्र आनीयताम् इति।

(मन्त्रिप्रशंसा)

केनापि उचितम् एव उक्तम् अस्ति यत् - यथा मन्दिरं (भवनं, प्रासादं, गृहं) अन्तःसारैः, अकुटिलैः, अच्छिद्रैः, सुपरीक्षितैः च स्तम्भैः धार्यते, तथैव अन्तःसारेण, अकुटिलेन, अच्छिद्रेण, सुपरीक्षितेन मन्त्रिणा एव राज्यं धार्यते। तथा च – भिन्नसन्धाने अर्थात् विरुद्धायाः स्थितेः, नष्टस्य कार्यस्य, विरोधिनः च पुनः समीकरणे एव मन्त्रिणः बुद्धेः परीक्षा भवति। तथा च सन्निपातस्य रोगस्य उचिते निदाने एव वैद्यस्य परीक्षा भवति। अन्यथा साधारणकार्येषु तु कः अत्र पण्डितः नास्ति? इति।

तं प्रणम्य सञ्जीवकसकाशं प्रस्थितः दमनकोऽपि सहर्षम् अचिन्तयत्, अहो! स्वामी मयि प्रसादोन्मुखः, मे विशीभूतः च जातः, अतः मदपेक्षा कोऽपि धन्यः नास्ति (मन्त्रिगणेषु कोऽपि मम समकक्षः नास्ति) इति। उक्तञ्च अस्ति – शिशिरऋतौ अग्निः, प्रियजनस्य दर्शनं, राज्ञः सम्मानप्राप्तिः, क्षीरभोजनं च अमृततुल्यं भवति।[८] एवं सञ्जीवकस्य समीपं प्राप्तः सः सप्रश्रयम् (सस्नेहम्) एवम् अवदत् – "भो मित्र! अहं स्वामिनः पिङ्गलात् तव कृते अभयदानं स्वीकृतवान्। अतः त्वं निर्भयः सन् तत्र आगच्छ। परन्तु त्वं राज्ञः कृपां, प्रसादं च प्राप्यापि आवयोः मध्ये शपथादिना, प्रतिज्ञापूर्वकं च या मैत्री सञ्जाता, सा त्वया सर्वदा पालनीया। गर्वम् आसाद्य स्वप्रभूतायाः (स्वतन्त्रतायाः) मदे मत्तेन न विचरणीयम्। अहमपि अमात्यपदवीम् आश्रित्य राजधुरं (राजकार्यं) तव सङ्केतन (परामर्शेन) उद्धरिष्यामि (सञ्चालयिष्यामि)" इति। एवम् आवाम् उभौ राजलक्ष्याः उपभोगं कर्तुं शक्नुवः। उक्तञ्च – आखेटस्य प्रक्रियायाः अनुसरणेन एव धनं, सम्पत्तिः च मनुष्याणां वशे भवति। आखेटकाले कश्चन एकः पशून् एकत्र प्रेरयति, अपरश्च तान् मारयति। तथैव एकः मनुष्यः राज्ञः उत धनिनः दानाय प्रेरयति, अपश्च तद्दानं प्राप्य उपभोगं करोति। तथा च – यः मनुष्यः राज्ञः सम्मानम्, उच्चपदं च प्राप्य अधिकारस्य अभिमाने मदोन्मत्तः सन् राज्ञः उत्तम-मध्यम-अधमसेवकानां शंसाम् अकृत्वा तान् उपेक्षति, तस्य अधिकारः, प्रतिष्ठा इत्यादयः तथैव नष्टाः भवन्ति, यथा दन्तिल-नामकः वणिक् स्वाधिकारात् च्युतः अभवत् इति। दमनकस्य एतद्वचनं श्रुत्वा सञ्जीवकः दन्तिल-नामकस्य वणिजः कथायाः सन्दर्भं पृच्छति। तं प्रत्युदतरन् दमनकः दन्तिलगोरम्भकथाम् आरभते।

दन्तिलगोरम्भकथा[सम्पादयतु]

मुख्यलेखः : दन्तिलगोरम्भकथा

कुत्रचित् वर्धमान-नामके नगरे दन्तिल-नामाख्यः नगरश्रेष्ठी निवसति स्म। सः प्रजानां, राज्ञः च प्रियः आसीत्। एकदा तस्य पुत्र्याः विवाहप्रसङ्गे तेन नगरवासिनः, राजसेवकाः च आहूताः। सः तेषां भोजनवस्त्रादिभिः सत्कारं कृतवान्। ततः सः सान्तःपुरं राजानं स्वगृहम् आनीय तस्य उचितं पूजार्चनम् अकरोत्। परन्तु राज्ञः भृत्यदले कश्चन गोरम्भ-नामकः कर्मकरः आसीत्। सः राज्ञः गृहसम्मार्जनस्य कार्यं करोति। सः ब्राह्मणोचिते स्थाने गत्वा अतिष्ठत्। तम् अनुचिते स्थाने दृष्ट्वा दन्तिलः स्वस्य द्वारपालैः तस्मै गोरम्भाय अर्धचन्द्रं (अपमाननं कृत्वा) दत्त्वा निष्कासितवान्। ततः प्रभृति तस्मात् श्रेष्ठिनः स्वस्य वैरोद्धाराय व्याकुलः सः गोरम्भः दिनानि यापयन् आसीत्। एकदा योगनिद्रावस्थायां सुप्तं राजानं दृष्ट्वा सः गोरम्भः अवदत्- अहो! दन्तिलस्य धृष्टता एतावती अवर्धत यत्, सः राजमहिषीम् आलिङ्गत् इति।

गोरम्भस्य वचनं श्रुत्वा राजा ससम्भ्रमम् उत्थितः। ततः सः गोरम्भम् अपृच्छत्, भो भो गोरम्भ! किं त्वं सत्यं वदसि? किं दन्तिलेन देवी आलिङ्गिता? इति। गोरम्भः प्रत्युदतरत् यत्, महाराज! अहम् आरात्रं द्यूतक्रीडायां रतः आसम्। अतः आरात्रम् अहं न सुप्तवान्। अत्र सम्मार्जनकाले बलिष्ठा निद्रादेवी मयि आरूढा। तस्यां निद्रावस्थायाम् अहं किम् उक्तवान्, तत् अहं न जाने इति। राजा अपि सेर्षं दिन्तिलेन एवं कृतमेव स्यात् इति चिन्तयति। ततः दन्तिलात् पराङ्गमुखः (रुष्टः) सः राजा दन्तिलस्य राजप्रासादे प्रवेशं निवारयति। अकस्मादेव राज्ञः अप्रसन्नतां दृष्ट्वा दन्तिलोऽपि दुःखितः भवति।

बहुभ्यः दिनेभ्यः दुःखानुभवन् दन्तिलः एकदा राज्ञा सह प्रवेशनिवारणविषये चर्चां कर्तुम् इष्टवान्। अतः सः राजप्रासादं प्रवेष्टुम् उद्यतः। परन्तु द्वारापालैः तस्य प्रवेशः निवारितः। यदा द्वारपालाः दन्तिलस्य प्रासादप्रवेशं निवारयन्तः आसन्, तस्मिन्नेव काले गोरम्भः तत्र सम्प्राप्नोति। सः दिन्तिलं दृष्टवा किञ्चित् विहस्य वदति यत्, भो भो द्वारपालाः! राज्ञः पक्षात् यः निग्रहः, अनुग्रहस्य दायित्वं वहति, तादृशस्य राजकृपापात्रस्य भवन्तः प्रवेशं निवारयन्ति चेत्, यथा तस्मिन् दिने अहम् अर्धचन्द्रं प्राप्तवान्, तथा यूयम् अपि प्राप्स्यथ इति। गोरम्भस्य उपालम्भं श्रुत्वा दन्तिलः ज्ञातवान् यत्, एतस्य प्रकरणस्य समायोजकः एषः गोरम्भः एव अस्ति इति। अतः सायङ्काले सः गोरम्भं स्वगृहम् आहूय तस्मै वस्त्रयुगलं दत्तवान्। ततः दन्तिलः तम् उक्तवान् यत्, भो भद्र! तस्मिन् दिने भवान् अनुचितस्थाने दृष्टः मया। अतः भवान् मम गृहात् निष्कासितः। तस्य पृष्ठे भवन्तं प्रति मे द्वेषभावः नासीदेव। तस्मिन् दिने भवतः यः अपमानः अभवत्, तस्य कृते कृपया मां क्षम्यताम् इति।

गोरम्भोऽपि वस्त्रयुगलं प्राप्य स्वर्गराज्यस्य प्राप्तिवत् प्रसन्नः अभवत्। प्रसन्नः सः अवदत् यत्, तस्मिन् दिने मम यत् अपमाननम् अभवत्, तस्य कृते अहं भवते क्षमादानं यच्छामि। एतस्य सत्कारस्य कृते अहं मम बुद्धिबलेन भवन्तं पुनः राज्ञः कृपापात्रं करिष्यामि इति। अपरे दिने गोरम्भः शयानस्य राज्ञः पर्यङ्कस्य पार्श्वे स्थित्वा वदति यत्, अहो अस्माकं राज्ञः कीदृशः अविवेकः? सः पुरीषुत्सर्गं कुर्वन् चिर्भटीं खादति इति। गोरम्भस्य जल्पनं श्रुत्वा राजा साश्चर्यम् उत्थितः। सः उक्तवान् यत्, रे रे गोरम्भ! किम् अनुचितं जल्पसि? त्वां गृहकर्मकरं मत्वा न व्यापादयामि (मारयामि)। किं त्वया कदाचिदपि अहम् एवंविधं (तथा) कुर्वन् दृष्टः? इति। सः गोरम्भः पुनः तदेव वचनम् अवदत् यत्, भो महाराज! अहं तु आरात्रं द्यूतक्रीडायां रतः आसम्। प्रातः अत्र सम्मार्जनकार्याय सम्प्राप्तः। अतः बलिष्ठा निद्रा ममोपरि आरूढा। तस्यां योगन्द्रावस्थायाम् अहं किंस्वेत् (तुच्छं) अवदम् इति अहं न जाने। ततः राजा अचिन्तयत्, अहम् एतस्मिन् जन्मनि किं जन्मान्तरेऽपि कदापि मलोत्सर्गकाले चिर्भटीं न भुक्तवान् स्याम्। यथा एषः मम विषये मिथ्या आरोपान् अकरोत्, तथैव तस्य दन्तिलस्य विषयेऽपि अनेन मिथ्या एव जल्पितं स्यात्। तादृक् सज्जनः एवंविधं कार्यं कर्तुं न शक्नोति इति। ततः राजा दन्तिलं ससम्मानं राजप्रासादम् आनीय तस्मै स्ववस्त्राणि, आभूषणानि च दत्त्वा पुनः महापौरस्य अधिकारान् प्रयच्छति।

अतः अहं वदामि यत्, यः अधिकारं प्राप्य निम्नोच्चस्तरीयाणां सम्माननं न करोति, तस्य दन्तिलवत् स्थितिः भवति इति। अर्थात् यदि राजद्वारे त्वं प्रतिज्ञानुगुणं न वर्तिष्यसे, तर्हि दन्तिलस्य या स्थितिः अभवत्, सा स्थितिः भविष्यति। दमनकस्य मुखात् दन्तिलगोरम्भकथां श्रुत्वा सञ्जीवकः अपि अवदत् यत्, हे भद्र! उचितं भवता अभिहितम्। भवान् यथा कथयति, तथैव करिष्यामि इति। ततः दमनकः तं सञ्जीवकम् आदाय पिङ्गलकस्य राजद्वारे उपस्थितः भवति। "देव! अहम् एनं सञ्जीवकम् आनीतवान्" अधुना देवः प्रमाणमिति सः पिङ्गलकं वदति। सञ्जीवकोऽपि राजानं प्रणम्य सविनयम् अग्रे स्थितवान्।

पिङ्गलकः तस्य स्थूलकायस्य दीर्घस्य ककुद्मतः सञ्जीवकस्य सम्मुखं नखकुलिशालङ्कृतं दक्षिणहस्तम् उपरि कृतवान्। ततश्च सः अवदत् यत्, भवान् कुशली खलु? कथं त्वम् एतस्मिन् विजने (निर्जने) वने समागतः असि? इति। सञ्जीवकोऽपि सार्थवाहस्य वर्धमानस्य वियोगस्य सम्मूर्णं वृत्तान्तं श्रावयति। तच्छ्रुत्वा पिङ्गलकः सादरं तं वदति यत्, वयस्य! (मित्र!) भयं मास्तु। मम भुजरूपिणः पिञ्जरस्य सुरक्षायां त्वम् आनन्देन यथेच्छं विचर। अहं तव रक्षां करिष्ये। त्वं सर्वदा मम समीपे एव भव। यतो हि एतद्वनं हिंस्रजन्तुभिः व्याप्तम् अस्ति। अत्र महतां जीवानाम् अपि जीवनं कष्टकरम् अस्ति, तर्हि भवादृशस्य शष्पभोजिनां कृते तु जीवनं कठिनतमम् एव इति। ततः यमुनातटं प्रति यस्य प्रयोजनस्य कृते पिङ्गलकः सकलमृगपरिवृतः आगतः आसीत्, तस्य उदकपानस्य प्रयोजनं सिद्धयितुं सः यमुनाकच्छम् अवतरितवान्। ततः स्वेच्छया पुनः तदेव वनं प्रतिगतः।

ततः राजा पिङ्गलकः राजभारं करकटदमनकाभ्यां दत्त्वा सञ्जीवकेन सह सुभाषितगोष्ठेः आनन्दं स्वीकुर्वाणः अनेकानि दिनानि अयापयत्। अथवा साधु एव उक्तम् अस्ति यत्, यदृच्छया एकवारम् अपि प्राप्ताः सज्जनस्य सङ्गतिः अत्यन्तं दृढा भवति। तस्याः कृते वारं वारं मेलितुम् आवश्यकता अथवा सम्बन्धस्य पुरातनता न आवश्यकी।[९] विभिन्नानां शास्त्राणाम् अवगाहनात् (अभ्यासात्) प्राप्तायाः स्वबुद्धेः प्रागल्भ्येन (प्रभावेण) सञ्जीवकः अपि स्तोकेषु (अल्पेषु) दिनेषु मूढमतिं पिङ्गलकं धीमन्तं करोति। यथा अरण्यधर्मात् वियोज्य (पशुस्वाभवं दूरीकृत्य) ग्राम्यधर्मेषु नियोजितः (सज्जनस्वभावः उत्पादितः), तथा सञ्जीवकेन पिङ्गलकः धीमान् कृतः। किं बहुना – प्रतिदनं केवलं पिङ्गलकसञ्जीवकौ एकान्ते मन्त्रयतः तिष्ठतः। अशेषः मृगजनः (प्राणी) दूरे एव तिष्ठति स्म। तयोः समीपे गन्तुं करकट-दमनकयोः अपि प्रवेशनिषेधः आसीत्।

(राजभृत्ययोः सम्बन्धं वर्णयति) [१०]

अपरत्र सिंहस्य आखेटाभावत् सर्वेऽपि आश्रिताः पशवः, शृगालौ च क्षुधया बाधिताः। अतः ते राजानं त्यक्त्वा अन्यत्र स्थानं गच्छन्ति। उक्तञ्च – फलहीनः राजा यद्यपि कुलीनः, उन्नतविचारवान्, प्रभावशाली च स्यात्, तथापि भृत्यवर्गः तं तथैव त्यक्त्वा गच्छन्ति, यथा फलहीनं वृक्षं त्यक्त्वा पक्षिणः अन्यत्र गच्छन्ति। तथा च – सम्मानिताः, कुलीनाः, भक्तिपरायणाः भृत्याः अपि वृत्तेः विलम्बे उत अप्राप्तौ सति राजानं त्यक्त्वा गच्छन्ति। अन्यच्च – यः राजा भृत्यान् यथासमयं वृत्तिं ददाति, वृत्तिदाने कदापि विलम्बनं न करोति च, तेन भर्त्सिताः सेवकाः अपि तं त्यक्त्वा न गच्छन्ति।

  1. पञ्चतन्त्रं, मित्रभेदः, श्लो. १२२-१२६
  2. न वध्यन्ते ह्यविश्वस्ता बलिभिर्दुर्बला अपि।
    विश्वस्तास्त्वेव वध्यन्ते बलवन्तोऽपि दुर्बलैः॥पञ्च_१.१२३॥
  3. https://sa.wikisource.org/wiki/श्रीमद्भागवतपुराणम्/स्कन्धः_६/अध्यायः_१८
  4. पञ्चतन्त्रं, मित्रभेदः, श्लो. १२७-१२९
  5. पञ्चतन्त्रं, मित्रभेदः, श्लो. १३१-१३२
  6. पञ्चतन्त्रं, मित्रभेदः, श्लो. १३३-१३४
  7. पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि।
    न कथञ्चिन्महीपस्य चित्ताऽन्तः केनचित्क्वचित्॥पञ्च_१.१३६॥
  8. अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम्।
    अमृतं राजसम्मानममृतं क्षीरभोजनम्॥पञ्च_१.१३९॥
  9. यदृच्छयाऽप्युपनतं सकृत्सज्जनसङ्गतम्।
    भवत्यजरमत्यन्तं नाऽभ्यासक्रममीक्षते ॥१.१६२॥
  10. पञ्चतन्त्रं, मित्रभेदः, श्लो. १६३ - १६५