दन्तिलगोरम्भकथा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

लुअ दोषः : expandTemplate: template "Short description" does not exist.

दन्तिलगोरम्भकथा
दुन्दुभौ आरूढः शृगालः
कथोपस्थापकः दमनकाख्यः शृगालः
कं कथयति? सञ्जीवकाख्यं वृषभम्
तन्त्रम् मित्रभेदः
पात्राणि
  • दन्तिलः - महापौरः
  • गोेमायुः - राज्ञः गृहसम्मार्जकः
  • राजा
  • द्वारपालाः

दिन्तिलगोरम्भकथा पञ्चतन्त्रस्य मित्रभेदतन्त्रस्य तृतीया कथा वर्तते। पञ्चतन्त्रस्य कथानुसारं दमनकाख्यः शृगालः सञ्जीवकाख्यं वृषभम् एतां कथां कथयति। दिन्तिलनामकस्य वणिजः सम्मानः एकस्य निम्नराजकर्मकरस्य आपमानेन गच्छति, ततश्च तस्य कर्मकरस्य प्रसन्ने सति सः पुनः स्वप्रतिष्ठां लभते इति मुख्यांशः वर्तते।

प्रसङ्गः[सम्पादयतु]

पिङ्गलकाख्यः सिंहः यदा दमनकं सञ्जीवकस्य समीपं प्रेषयति, तदा दमनकः सञ्जीवकं कथयति यत्, अहं स्वामिनः तव कृते अभयं प्राप्तवान् अस्मि। अतः त्वं निर्भयः सन् तत्र मया सह आगच्छ इति। परन्तु समनन्तरमेव दमनकः सञ्जीवकं बोधयति यत्, राजप्रासादम् आगत्य त्वया मया सह समयधर्मेण (प्रतिज्ञानुसारं) वर्तितव्यम्। राज्ञः प्रसादं प्राप्य मदान्धः सन् यथेष्टं करिष्यसि, तर्हि दिन्तिलनामकस्य वणिजः यथा सम्पत्तिः, पदं च नष्टम् अभवत्, तथा तवाऽपि भविष्यति इति। ततः सञ्जीवकः दमनकं दन्तिल-नामकस्य वणिजः कथां पृच्छति। एवं दमनकः दन्तिलगोम्भकथाम् आरभते।

कथा[सम्पादयतु]

पृथ्व्यां कुत्रचिदस्ति वर्धमानं नाम नगरम्। तत्र दिन्तिलः नाम नगरश्रेष्ठी निवसति स्म। सः नानाभाण्डपतिः (विविधवस्तूनां व्यापारी) , सकलपुरनायकः (नगरप्रमुखः, महापौरः – Mayor) नगरस्य, राज्ञः च कार्यं कुर्वन् उभयपक्षं तुष्टं (प्रसन्नं) करोति स्म। किं बहुना – न केनापि कोऽपि तादृक् चतुरः राजप्रियः, लोकप्रियः च अपरः जनः दृष्टः, श्रुतः वा। अथवा केनापि उचितमेव उक्तम् अस्ति – केवलं राज्ञः हितरक्षकात् प्रजाः असन्तुष्टाः भवन्ति, प्रत्युत केवलं प्रजानां हितरक्षकं राजा त्यजति। यतो हि राजप्रजयोः हितं परस्परं विरुद्धम् एव भवति। अतः उभयोः पक्षयोः हितं कृत्वा तौ तोषकः कार्यकर्ता संसारे विरलः एव।[१]

एवं राजप्रजयोः हिताय कार्यं कुर्वन् सः श्रेष्ठी जीवनं यापयति स्म। कदाचित् तस्याः कन्यायाः विवाहप्रसङ्गः सम्प्राप्तः। तस्मिन् विवाहे सः सर्वान् नगरजनान्, राज्ञः समीपवर्तिनः अधिकारिणः च सादरम् आमन्त्र्य वस्त्रभोजनादिभिः तेषां सत्कारम् अकरोत्। ततः विवाहानन्तरं तेन साऽन्तःपुरः (अन्तःपुरस्य राज्ञिभिः सह) राजा गृहम् आनीय तस्य पूजार्चनेन सत्कारः कृतः। कश्चन गोरम्भः नाम राज्ञः गृहसम्मार्जकः सेवकः आसीत्। सोऽपि श्रेष्ठिनः किमपि प्रापपयिषायां तत्र गतः आसीत्। परन्तु दोषत्वात् सः तस्मिन् स्थाने गत्वा एव अतिष्ठत्, यस्मिन् प्रतिष्ठिताः अन्ये अतिथयः आगन्तारः। अतः सः श्रेष्ठी राज्ञः तं कर्मकरम् अर्धचन्द्रं दत्त्वा (गलहस्तं दत्त्वा - throttling) सापमानं ततः निःसारितवान्।

सः गोरम्भः स्वस्य अपमानेन दुःखितः आसीत्। ततः प्रभृति स्वापमानं स्मृत्वा सः निःश्वसन् (अपमानस्य विचारेण तस्य श्वासः वेगवान् भवति स्म।) यथा कथञ्चित् रात्रं यापयति स्म, परन्तु आरात्रं सः न स्वपति स्म। "यः श्रेष्ठी राज्ञः, प्रजायाः च अतीव प्रियः अस्ति, तादृशस्य श्रेष्ठिनः नाशं कृत्वा स्वापमानस्य प्रतिकारं कथं करवाणि?" इति गोरम्भः अहर्निशं चिन्तयति स्म। अथवा मम एतया चिन्तया केवलं मे शरीरस्य शोषणं भवति, तेन कोऽपि लाभः नास्ति। अतः मम चिन्ता अपि वृथा एव अस्ति। यतो हि अहं तु सामान्यः मनुष्यः अस्मि, अहं तस्य श्रेष्ठिनः किम् अहितं कर्तुं प्रभवानि? साधु एव उक्तम् अस्ति – यदि मनुष्यः कस्यापि अपकर्तुम् अशक्तः अस्ति, तर्हि सः निर्लज्जः वृथा क्रोधम् अपि किमर्थं करोति? भाष्ट्रके (कूककरे – cooker) ऊर्ध्वं प्लुतोऽपि चणकः भाष्ट्रकं भङ्क्तुं शक्तः भवति किम्? [२]

एवं वैरोद्धारस्य भावनया, स्वस्य असमर्थतायाः च व्याकुलः सः गोरम्भः अवसरस्य प्रतीक्षायां यथा कथञ्चित् समयं यापयति स्म। एकदा प्रत्यूषे (प्रभातकाले) राजा स्वस्य कक्षे शयानः आसीत्। तदा अवसरं प्राप्य गोरम्भः राज्ञः शय्यायाः समीपे सम्मार्जनीं नीत्वा अतिष्ठत्। ततः योगनिद्राऽवस्थायाः (अर्धजागरूकाऽवस्थायाः) स्वाङ्गं कृत्वा कक्षं सम्मार्जयन् सः अवदत् - अहो! दन्तिलस्य दृप्तत्वम् (धृष्टता) एतावत् अवर्धत यत्, सः राजमहिषीम् (राज्ञीम्) आलिङ्गत् इति। गोरम्भस्य वचनं श्रुत्वा उत्थितः राजा ससम्भ्रमम् (शङ्कया सह) अपृच्छत् यत्, भो भो गोरम्भ! अधुना त्वया जल्पितं सत्यम् अस्ति किं? किं दन्तिलेन देवी आलिङ्गिता? इति। गोरम्भः प्रत्युदतरत् यत्, महाराज! अहम् आरात्रं द्यूतक्रीडायां व्यस्तः आसम्, तेनाहं रात्रौ अजागरम्। अतः सम्मार्जनकाले बलिष्ठा निद्रा ममोपरि आरूढा आसीत्। तस्यां निद्रावस्थायाम् अहं किम् उक्तवान्, तदहं न जाने इति।

ततः राजा सेर्षं मनसि अचिन्तयत् – यथा एषः गोरम्भः प्रासादे इतस्ततः स्वातन्त्र्येण भ्रमति, तथैव दन्तिलोऽपि प्रासादे भ्रमति। कदाचित् राजमहिषीम् आलिङ्गन् दन्तिलः दृष्टः अनेन गोरम्भेण। अतः योगन्द्रावस्थायाम् एतस्य मुखात् एतद् वाक्यं निर्गतम्। उक्तञ्च – दिवसे मनुष्यः यस्य वस्तोः इच्छां करोति, यत् वस्तु पश्यति, यत् कार्यं करोति च, अभ्यासवशात् स्वप्नेऽपि तस्यैव वस्तोः विषये वदति, तत् वस्तु एव पश्यति, तदेव कार्यं करोति च। अर्थात् यत् कदापि न दृष्टं, तस्य स्वप्नावस्थायाम् उल्लेखः न भवति।[३] तथा च – मनुष्यस्य हृदि यत्किमपि विद्यमानं शुभं, पापं वा यावदपि गुप्ततमं स्यात्, तत् गुप्ततमं स्वप्नावस्थायां, मदावस्थायां च तस्य मुखात् निःसरति एव।

एवं बहु किमपि वलापं कृत्वा ततः प्रभृति सः राजा दन्दिलात् पराङ्गमुखः (रुष्टः) सञ्जातः। सः तु दन्दिलस्य राजप्रासादे प्रवेशम् एव निवारितवान्। अपरत्र अकस्मात् राज्ञः अप्रसन्नतां दृष्ट्वा दन्तिलोऽपि विमर्शयति।

परन्तु मया राज्ञः, राजसम्बन्धिनां च स्वप्नेऽपि कदापि अनिष्टं न कृतम् अस्ति। तथापि राजा एवं मां प्रति पराङ्गमुखः (रुष्टः) इति कथम्?

बहुभ्यः दिनेभ्यः राज्ञः पराङ्गमुखतायाः विषये चिन्तयन्तः दिन्तिलः दिनानि अयापयत्। कदाचित् सः राज्ञा सह सम्भाषणं कर्तुं राजप्रासादं प्रवेष्टुं चेष्टाम् अकरोत्। परन्तु द्वारपालैः सः विष्कम्भितः (प्रवेशात् निवारितः)। द्वारपालैः विष्कम्भितं दिन्तिलं दृष्ट्वा सम्मार्जनकर्ता गोरम्भोऽपि विहस्य (उपालम्भ्य - taunt) द्वारपालान् अवदत् यत्, भो भो द्वारपालाः! नगराधिपतिः दन्तिलः तु राज्ञः कृपापात्रः अस्ति। राज्ञः पक्षात् स एव निग्रहस्य, अनुग्रहस्य च दायित्वं वहति। तादृशस्य नगराधिपतेः विष्कम्भनं (प्रवेशनिवारणं) कृत्वा तस्मिन् दिने यथाऽहम् अर्धचन्द्रं प्राप्तवान्, तथा यूयम् अपि अर्धचन्द्रं प्राप्स्यथ इति। गोरम्भस्य उपालम्भं श्रुत्वा दिन्तिलस्य मनसि सन्देहः समुद्भूतः यत्, निश्चयेन एतत् सर्वम् अनेन गोरम्भेण एव चेष्टितं (आयोजितं) स्यादिति।

एवं दन्तिलः विवधप्रकारैः विलापं कुर्वन् गतप्रभावः, लज्जितः, शोकाकुलश्च द्वारादेव स्वगृहम् अगच्छत्। सः तं गोरम्भं सायङ्काले स्वस्य गृहम् आनीय, तस्मै धौतवस्त्रम्, उपवस्त्रञ्च दत्तवान्। ततः दन्तिलः तम् उक्तवान् यत्, भो मित्र! विवाहावसरे अहं त्वं द्वेषभावेन स्वगृहात् न निष्कासितवान्। तस्मिन् समये त्वं विदुषाणां ब्राह्मणानां सम्मुखम् अनुचिते स्थाने स्थितवान् आसीत्। यदा मया त्वम् अनुचिते स्थाने स्थितः दृष्टः, तदा तस्मात् स्थानात् तव स्थानान्तरणं कृतम्। तत्र तव अपमाननस्य मम भावना नासीत्। तथापि तव अपमाननम् अभवत्, तस्य कृते मां क्षमस्व इति।

सः गोरम्भोऽपि वस्त्रयुगलं पारितोषिकत्वेन प्राप्य स्वर्गस्य राज्यप्राप्तिवत् प्रसन्नः अभवत्। प्रसन्नः सः दन्दिलम् अवदत् यत्, "भोः श्रेष्ठिन्! तस्य कृत्यस्य कृते अहं भवन्तं क्षमे। भवतः अनेन सम्मानेन प्रसन्नस्य मम बुद्धिप्रभावेण शीघ्रं हि पुनः भवान् राज्ञः कृपापात्रं भविष्यतीति। एवमुक्त्वा सः पारितोषिकं नीत्वा ततः निर्गतः। साधु चेदमुच्यते – तुलादण्डस्य, दुष्टानां च चेष्टा समाना एव भवति। यतो हि तुलादण्डः यथा भारस्य न्यूनाधिके सति ऊपरि, अधः च गच्छति, तथैव खलाः अपि किञ्चित् कृते सति प्रसन्नाः, रुष्टाः च भवन्ति। अर्थात् खलाः स्वल्पं धनं प्राप्य आनन्दिताः भवन्ति, न्यूनं च प्राप्य रुष्टाः ।[१३]

ततश्च अपरे दिने सः गोरम्भः राजप्रासादं गत्वा योगनिद्रायां सुप्तस्य राज्ञः पर्यङ्कस्य पार्श्वे सम्मार्जनं कुर्वन् एवम् अवदत् यत्, अहो! अस्माकं राज्ञः कीदृशः अविवेकः (अज्ञानं) सः तु मलोत्सर्गं कुर्वन् अपि चिर्भटीं (ककड़ी, खीरा - cucumber) भक्षति इति। गोरम्भस्य वचनं श्रुत्वा राजा सविस्मयम् उत्थाय तम् अवदत् यत्, रे रे गोरम्भ! किम् अनुचितं जल्पसि? त्वां गृहकर्मकरं मत्वा न व्यापादयामि (मारयामि)। किं त्वया कदाचिदपि अहम् एवंविधं (तथा) कुर्वन् दृष्टः? इति। राजानं प्रत्युदतरन् गोरम्भः वदति यत् – भो देव! द्यूतासक्तः अहं रात्रौ जागरणं कृत्वा सम्मार्जनाय सम्प्राप्तः। अतः मम बलात् निद्रा समायाता। तया अधिष्ठितेन (निद्रावस्थायां) अहं किंस्वित् (तुच्छं वचनं) जल्पितवान् इति अहं न वेद्मि (जानामि)। अतः निद्रावशस्य मम दीनस्य उपरि पूर्ववत् क्षमायाः कृपां करोतु इति।

गोरम्भस्य वचनानि श्रुत्वा राजा चिन्तयति यत्, एतस्मिन् जन्मनि किं मया तु जन्मान्तरेऽपि कदापि शौचकाले चिर्भटी न भक्षिता स्यात्। किन्तु यथा मम विषये एषः मद्यपः मिथ्या आरोपान् वदति, तथैव सः दन्तिलस्य विषयेऽपि मिथ्या एव उक्तवान् स्यात् इति मे विश्वासः। अतः एतस्य मूर्खस्य जल्पनं श्रुत्वा अहं तस्य निर्दोषस्य दन्तिलस्य राजप्रासादात् विष्कम्भनं कृत्वा (द्वारपालैः निवारित्वा) तस्य राजसम्मानं निवारितवान् तत् मया युक्तं न कतम्। तादृशः पुरुषः एवंविधं (एवं प्रकारेण) आचरणं कदापि न कर्तुं शक्नोति। तस्य दिन्तिलस्य अनुपस्थितौ सर्वाणि राजकार्याणि, नगरकार्याणि च शिथिलानि चलन्ति च इति।

ततः सः राजा तं दन्तिलं सम्मानपूर्वकम् आहूय स्वस्य अङ्गवस्त्राणि तस्मै दत्त्वा सादरं दन्तिलस्य पुनः नगरपौरत्वेन नियुक्तिम् अकरोत्।

कथासारः[सम्पादयतु]

दन्तिलगोरम्भस्य कथायाः फलत्वेन दमनकः सञ्जीवकं बोधययति यत्, यः अधिकारं प्राप्य सर्वेषाम् आदरं न करोति, तस्य दन्तिलवत् स्थितिः भवति। अतः त्वया समयधर्मेण (प्रतिज्ञानुसारं) मया सह व्यवहारः कर्तव्यः इति।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. नरपतिहितकर्ता द्वेष्यतां याति लोके, जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रैः ।
    इति महति विरोधे वर्तमाने समाने, नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥१.१४२॥
  2. यो ह्यपकर्तुमशक्तः कुप्यति किमसौ नरोऽत्र निर्लज्जः?।
    उत्पतितोऽपि हि चणकः शक्तः किं भ्राष्ट्रकं भङ्क्तुम्?॥१.१४३॥
  3. यद्वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा ।
    तत्स्वप्नेऽपि तदभ्यासाद्ब्रूते वाऽथ करोति वा ॥१.१४४॥
  4. पञ्चतन्त्रं, मित्रभेदः, श्लो. १४६ - १५६
  5. एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः ।
    दूरोदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वामभ्रुवाम् ॥१.१४७॥
  6. नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
    नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥१.१४८॥
  7. यो मोहान्मन्यते मूढो रक्तेयं मम कामिनी ।
    स तस्या वशगो नित्यं भवेत्क्रीडाशकुन्तवत् ॥१.१५०॥
  8. अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।
    मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥१.१५३॥
  9. पञ्चतन्त्रं, मित्रभेदः, श्लो. १५७ -
  10. कोऽर्थान् प्राप्य न गर्वितो विषयिणः, कस्यापदोऽस्तं गताः, स्त्रीभिः कस्य न खण्डितं भुवि मनः, को नाम राज्ञां प्रियः?।
    कः कालस्य न गोचरान्तरगतः, कोऽर्थी गतो गौरवं, को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान्? ॥१.१५७॥
  11. पञ्चतन्त्रं, मित्रभेदः, श्लो. १५९ - १६०
  12. अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते ।
    अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥१.१५९॥
  13. स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
    अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च ॥१.१६१॥

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दन्तिलगोरम्भकथा&oldid=405548" इत्यस्माद् पुनः प्राप्तिः