सदस्यः:Pranabdas99

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतम् भाषाम्
देवनागर्यांसंस्कृतम्
उच्चारणम् [ˈsɐ̃skr̩tɐm]
विस्तारः भारतम् जम्बुद्वीपः
भाषाकुटुम्बः
लिपिः देवनागिरी[१]
ब्राह्मी
आधिकारिकस्थितिः
व्यावहारिकभाषा

भारतम्

हिमाचलप्रदेशराज्यम्उत्तराखण्डराज्यम्
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 sa
ISO 639-2 san
ISO 639-3 san

संस्कृतम् जगतः एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषासु वर्तते। संस्कृतम् भारतस्य जगत: वा भाषासु एकतमा‌ प्राचीनतमा। भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, संस्कृतावाक्, दैवीवाक्, इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।

भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः। संस्कृतात् एव अधिकाः भारतीयभाषाः उद्भूताः। तावदेव भारत-युरोपीय-भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति।

व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति।

पाणिनीयाष्‍टाध्‍यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानम् इवास्ति।

संस्कृतवाङ्मयं विश्ववाङ्मये अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक्। न केवलं धर्म-अर्थ-काम-मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-वैज्ञानिक-पारलौकिकविषयैः अपि सुसम्पन्ना इयं देववाणी।

  1. Banerji, Suresh (1971). A companion to Sanskrit literature: spanning a period of over three thousand years, containing brief accounts of authors, works, characters, technical terms, geographical names, myths, legends, and twelve appendices. p. 672. ISBN 9788120800632. [नष्टसम्पर्कः]
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Pranabdas99&oldid=483673" इत्यस्माद् प्रतिप्राप्तम्