सदस्यः:Pranathi A Udupa/प्रयोगपृष्ठम्2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
एरासिस्ट्राटस्
विज्ञानि एरासिस्ट्राटस्
जन्म एरासिस्ट्राटस्
क्रि. पू. ३०४
चियोस्
मृत्युः क्रि. पू. २५०
एशिय मैनर्
देशीयता ग्रीकहः
वृत्तिः विज्ञानी
सक्रियतायाः वर्षाणि क्रि. पू. ३०४ तः क्रि. पू. २५०
कृते प्रसिद्धः अङ्गानां रचनाविषयं,कार्यविषयं च
Notable work बोरेल्ली

(कालः – क्रि. पू. ३०४ तः क्रि. पू. २५०)

अयम् एरासिस्ट्राटस् (Erasistratus) ,अङ्गानां रचनाविषयं कार्यविषयं च विवृतवान् विज्ञानी । एषः ग्रीक् देशस्य 'एजियन्’ नामकेषु द्वीपेषु अन्यतमे 'चियोस्’ इति द्वीपे जन्म प्राप्नोत् । कालान्तरे अलेक्साण्ड्रियं गत्वा संशोधनकार्यम् अनुवर्तितवान् । अयम् एरासिस्ट्राटस् मस्तिष्कस्य विषये गभीरं संशोधनं कृतवान् । अयं मस्तिष्कं लघुभागः, महाभागः च इति द्विधा विभक्तवान् । महाभागं "सेरिब्रम्” इति, लघुभागं च "सेरिब्ल्लम्” इति च अवदत् । अयम् एरासिस्ट्राटस् मस्तिष्कस्य उपरि दृश्यमानायाः वक्रतायाः तथा च बुद्धिमत्तायाः च सम्बन्धः अस्ति इत्यपि संशोधितवान् । शुद्धरक्तनाड्याः, मलिनरक्तनाड्याः च नाडीभिः (Nurves) सह सम्बन्धः अस्ति । शरीरस्य सर्वम् अपि अङ्गम् शुद्धरक्तनाड्याः, मलिनरक्तनाड्याः तथा च अन्याभ्यः नाडीभ्यः अपेक्षितं जीवद्रव्यं प्रानोति इत्यपि संशोधितवान् । तदानीन्तने काले महान्तः अपि वैद्याः नाडीषु नाडीमूलद्रव्यं (Nurves Spirit), शुद्धरक्तनाडीषु प्राणिमूलद्रव्यं (Animal Spirit), अशुद्धरक्तनाडीषु रक्तं च प्रवहति इति चिन्तयन्ति स्म ।

"शुद्धरक्तनाडीषु रक्तं प्रवहति” इत्येतं हीरोफिलसस्य अभिप्रायम् अयम् एरासिस्ट्राटस् निराकरोत् । तस्य अभिप्रायात् भिन्नम् एव अंशं प्रतिपादितवान् च । श्वासकोषतः हृदयं प्रति वायोः गमनसमये सः वायुः प्राणिद्रव्यरूपेण परिवर्तते । तत् द्रव्यं शुद्धरक्तनाडीषु प्रवहति इति संशोधितवान् । अस्य एरासिस्ट्राटसस्य संशोधनानि वास्तविकानि आसन् । किन्तु तदानीन्तनः ईजिप्तसमाजः एतं विचारम् अङ्गीकर्तुं सिद्धः नासीत् । हीरोपिलिसस्य, अस्य एरासिस्ट्राटसस्य च अङ्गरचनायाः विषये आरब्धं संशोधनम् अपि सः समाजः नाङ्ग्यकरोत् । तस्य परिणामतः एतदेव संशोधनं १५ शतकस्य अनन्तरं पुनः आरब्धम् । एरासिस्ट्राटसेन आरब्धं रक्तपरिचलनस्य विवरणं शतकद्वयस्य अनन्तरं विलियं हार्वे समापयत् । अस्य एरासिस्ट्राटसस्य गुरुः थियोफ्रास्टस् । तस्य थियोफ्रास्टसस्य गुरुः अरिस्टाटल् । अस्य एरासिस्ट्राटसस्य मतानुसारं शरीरस्य सर्वम् अपि कार्यं यान्त्रिकरूपेण एव प्रचलति । जठरं प्रविष्टस्य आहारस्य पचनम् अपि यान्त्रिकम् एव इति । एतम् एव अभिप्रायं २००० वर्षाणाम् अनन्तरं बोरेल्ली इत्याख्यः पुनः प्राकटयत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxअन्यदेशीयवैज्ञानिकाः]] can't use in sandboxविदेशीयव्यक्तिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]