सामग्री पर जाएँ

सदस्यसम्भाषणम्:1910283 Vaibhavi S

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैदेहकरक्षणं त्रुनादानं च ।

[सम्पादयतु]

वैदेहकरक्षणं

[सम्पादयतु]
Merchant in Pompeii by Eduardo Ettore Forti before 1897

संस्थाध्यक्षः पण्यसंस्थायां पुराणभाण्डानां स्वकरणविशुडानामाधानं विकयं चा स्थापयेत् ।।

तुलामानभाण्डानि चावेक्षेत, पौतवापचारात् । परिमाणीद्रोणयोरर्धलहिनातिरिक्तमदोषः ; पलहीनातिरिक्ते द्वादशपणो दण्डः । तेन फ़लोक्तरा दण्डवृद्धिर्च्याख्याता । तुलायाः कर्षहीनातिरिक्तमदोषः ; द्विकर्षहीनातिरिक्ते षट्पणो दण्डः । तेन कर्षोत्तरा दण्डवृद्धिर्च्याख्याता । आदकस्यार्धकर्षहीनातिरिक्तमदोषः ; कर्षहीनातिरिक्ते त्रिपणो दण्डः । तेन कर्षोत्तरा दण्डवृद्धिर्च्याख्याता । तुलामानविशेषाणामतोSन्येषामनुमानम् कुर्यात् । तुलामानाभ्यामतिरिक्ताभ्याम् क्रीत्वा हीनाभ्याम् विकीणानस्य त एव द्विगुणा दण्डः । गण्यपण्येष्वष्टभागं पण्यमूल्येष्वपहरतष्पष्णवतिर्दण्डः । काष्ठलोहमणिमयं रज्जुचर्ममृण्मयं सूत्रवल्करोममयं वा जात्यमित्यजात्यं विक्रयाधानं नयतो मूल्याष्टगुणो दण्डः । सारभाण्डमित्यसारभाण्डं , तज्जातमित्यतज्जातं राघायुक्तमुपाधियुक्तं समुत्परि वर्तिमं वा वित्रयाघानं नयतो हीनमूल्यं चतुष्पञ्चाशत्पणो दण्डः । पणमूल्यं द्विगुणो द्विपणमुल्यं द्विशतः । तेनार्घवृद्धौ दण्डवृद्धिर्च्याख्याता ।

Edith Martineau - The quarry workers, 1887

कारुशिल्पिनां कर्मगुणापकर्षमाजीवं वित्रयं क्रयोपघातं वा संभूय समुत्धापयतां सहस्रं दण्डः । वैदेहकानां वा संभूय पण्यमवरुन्धतामनर्धेण विक्रीणतां त्रीणतां वा सहस्रं दण्डः । तुलामानान्तरमर्घवर्णान्तरम् वा धरकस्य माप कस्य वा पणः, मूल्यादष्टभागं हस्तदोषेणाचरतो द्विशतो दण्डः । तेन द्विशतोत्तरा दण्डवृद्धिर्च्याख्याता । धान्यस्त्रेहक्षारलवण गन्धभैषज्यद्रव्याणां समवर्णोपधाने द्वादशपणो दण्डः । यान्निसृष्टमुपजीवेयुः , तदेषां दिवस सञ्जातं सह्ययाय वणिक् स्थापयेत् । क्रेतृविक्रेत्रोरन्तरपतितं आदायादन्यम् भवति । तेन धान्यपण्यनिचयां श्रानुज्ञाताः कुर्युः ; अन्यथा निचितमेघां पण्याध्यक्षो गृहीयात् । तेन धान्यपण्यविक्रये व्यवहरेतानुग्रहेण प्रजानाम् ।।

अनुज्नातक्रयादुपरि चैषां स्वदेशीयानां पण्यानां पञ्चकं शतमाजीवं स्थापयेत् । परदेशीयानां दशकं । ततः परमर्ध बर्धयतां कंये विक्रये वा भावयतां पणशते पञ्चपणाद्विशतो दण्डः । तेनार्धवृद्दौ दण्डवृद्दिचर्याख्याता । संभूयक्रये चैषां अविक्रीतेनान्यं संभूयक्रयं दधात् । पण्योपबाते चैषाभनुग्रहम् कुर्यात् । पण्यवाहुव्व्यात्पण्याध्यक्षः सर्वपण्यान्येकमुखानि विकीणीत । तेष्वविकीतेषु ना ये विकीणीरन् । तानि दिवसवेतनेन चिकीणरिन् अनुग्रहेण प्रजानाम् । अनुज्नातक्रयादुपरि चैषां स्वदेशीयानां पण्यानां पञ्चकं शतमाजीवं स्थापयेत् । परदेशीयानां दशकं । ततः परमर्ध वर्शयतां कंये विक्रये चा भावयतां पणशते पञ्चपणाद्विशतो दण्डः । तेनार्धब्रुद्वौ दण्डव्रुद्धिचर्याख्याता। देशकालान्तरितानां तु पण्यानां - प्रक्षेपं पण्यनिष्पत्तिं शुष्कं वृद्धिमवक्रयं । व्ययानन्धांश्व सङ्गयाय स्थापयेदर्घमर्घवित ।।

त्रुनादानं

[सम्पादयतु]
I42 1karshapana Maurya Bindusara MACW4165 1ar (8486583162)

सपादपणा धर्म्या मासवृद्धिः पणशतस्य । पञ्चपणा व्यावहारिकि । दशपणा कान्तारकाणां । विंशतिपणा सामुद्राणां ।

ततः परम् कर्तुः कारयितुश्च पूर्वस्साहसदण्डः । श्रोतुणामेकैकम् प्रत्यर्घदण्डः । राजान्ययोगक्षेमवहे तु धनिकधारणिकयोश्चरित्रमपेक्षेत । धान्यवृद्धिस्सस्यनिष्पतावुपार्धावरं मूल्यकृता वर्धेत। प्रक्षेपष्ट द्धिरुदयादर्धे सन्निधानसन्ना वार्षिकी देया। चिरप्रवासस्तंभप्रविष्टो वा मूल्यद्विगुणं दद्यात्। अकृत्वा वृद्धिं साधयतो वा मूल्यं वा वृद्धिमारोप्य श्रावयतो वन्धचतुर्गुणो दण्डः। तुच्छचतुरश्रावणायामभूतचतुर्गुणः। तस्य त्रिभागमादाता दद्यात्। शेषं प्रदाता । दीर्घसत्रव्याधिगुरुकुलोपवृद्धं बालमसारं वा नर्णाम नुवर्वेत । मुच्यमानमृणमप्रतिग्रुह्यतो द्वादशपणो दण्डः । कारणापदेशेन निवृत्तवृद्धिकमन्यत्र तिष्ठेत् । दशवर्षोपेक्षितमृणमप्रतिग्राह्यमन्यत् बालवृड्व्याधितव्य सनिप्रोषितदेशत्यागराज्यविभ्रमेभ्यः। प्रेतस्य पुत्राः कुसीदं दघुः । दायादा वा रिक्थहरास्ससङ्ग्रा हिणः प्रतिभुवो वा । न प्रातिभाव्यमन्यदसारं बालप्रातिभाव्यम् । असङ्गयातदेशकालं तु पुत्रा पोउत्रा दायाद वा रिक्थं इरमाणा दुधः । जीवितविवाहभूमिप्रातिभाव्यमसन्ख्यातदेश कालं तु पुत्राः पौत्रा वा वहेयुः । नानर्णसमचाये तु नैको द्वौ युगपदभिवदेयातां अन्यत्र प्रतिष्टमानात् । तत्रापि ग्रुहितानुपूर्च्या राजाश्रोत्राय द्रव्यं वा पूर्वे प्रतिपादयेत् । दंपत्योः पितापुत्रयोः भ्रातृणां चाविभक्तानां परस्परकृतमृणमसाध्यम् । अग्राह्याः कर्मकालेषु कर्षका राजपुरुषाश्च । स्त्री वा प्रतिश्रावणी पतिकृतं ऋणं अन्यत्र गोपालकार्द्धसीति केभ्यः ।।

पतिस्तु ग्राह्यः। स्त्रीकृतं ऋणमप्रतिविधाय प्रोषित इति संप्रतिपत्तावुत्तमः । असम्प्रतिम्पत्तौ तु साक्षिणः प्रमाणम् । प्रात्ययिकाशुचयोSनुमता वा त्रयोवरार्थ्याः । पञ्चानुमतौ वा द्वौ । ऋणं प्रति न त्वेवैकः । प्रतिषिद्धास्स्यलसहायाबद्ध धनिक धारणिकवैरिन्यङ्गधृतदण्डः । पूर्वे चाव्यवहार्याः राजश्रोत्रियग्रामभृतकुष्टिव्रणिनः पतितचण्डालकुस्तितकर्माणोSन्धर्वाधरमूकाहंवादिनः स्त्रीराजपुरुषाश्वान्यत्र स्ववर्गेभ्यः । पारुष्यस्तेयसङ्गहणेषु तु वैरिस्यालसहायवर्जाः । रहस्यव्यवहारेष्वेका स्त्री पुरुष उपश्रोता उपद्रष्टा वा साक्षी स्यात् राज्तापसवर्जम् ।

कार्यसमापनं

[सम्पादयतु]

भृत्यानामृत्विगाचार्याशिशष्याणां मातापितरौ पुत्राणां चानिग्रहण साक्ष्य कुर्युः तेषामितरे वा। परस्पराभियोगे चैषामुत्तमाः। परोक्ता दशबन्धं दधुरवीराः पञ्चवन्धम्। इति साक्ष्यधिकारः। ब्राम्हणोदकुम्भाग्निसकाशे साक्षिणः परिगृह्यीयात्। तत्र ब्राम्हणं ब्रूयात् – "सत्वं ब्रूहोति" । राजन्यं वैश्यं वा – "मा तवेष्टापूर्वफलं कपालहस्तशशत्रुबलम् मित्राsर्थी गच्छे" रीति । शूद्रजन्म - "मरणान्तरे युद्धः पुश्यफलं तद्राजानं गच्छेत् । राज्ञश्च किल्बिषं युष्मान् अन्यथावादे दण्डश्चनुवन्धः । पश्चादपि ज्ञायेत यथादृष्टश्रुतम् । एकमन्त्रास्सत्यमबरतेति" अनबहरतां सप्तरात्रादूर्व द्वादशपणो दण्डः । त्रिपक्षादूर्ध्वमभियोगं दधुः । साक्षिभेदे यातो बहवः शुचयोsनुमता वा ततो नियच्छेयुः । मध्यं वा ग्रुहियुः । तद्वा द्रव्यं राजा हरेत् । साक्षिणत्वेदमियोगादूनं त्रुयुरतिरिक्तस्याभियोक्ता वन्धं दधात्। अतिरिक्तं चा ब्रूयुस्तदविरिक्तं राज हरेत् । बालिष्यादभिक्तुर्वा दुश्रुतं दुलिंस्वितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययमेव स्यात् । "साक्षिवालिश्येश्बेव प्रुयगनुपयोगे देशकालकार्याणां पुर्वमध्यमोत्तमा दण्डः" इत्यौशनसाः । कूतसाक्षिणो यमर्थमभूतं वा नाशयेयुस्तद्रुशगुणं दण्डं दधु - रीति मानवाः । बालिश्याद् बिसंवादयतांचित्रोधातः - इति वार्हस्पत्याः । "न" इति कौटिल्यः । ध्रुवं हि साक्षिभिश्रोतव्यम् । अशृण्वतां चतुर्विशतिपणो दण्डः ततोSर्धमध्रुवाणाम् । देशकालाविदूरस्थान् साक्षिणः प्रतिपादयेत् । दूरस्थानप्रसारान्वा स्त्रामिवाक्येन साधयेत् ।।