सर्षपतैलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सर्षपबीजानि तैलं च
साम्प्रदायिकरीत्या सर्षपतैलस्य निर्माणम्
कूप्यां संरक्षितं सर्षपतैलम्
सर्षपक्षेत्रम्

सर्षपबीजैः निर्मितं तैलम् एव सर्षपतैलम् । अयं सर्षपः आङ्ग्लभाषायां Brassica अथवा Mustard इति उच्यते । तस्य तैलं च Brassica oil अथवा Mustard oil इति उच्यते । एतत् सर्षपतैलम् औषधीयगुणयुक्तम् अपि । एतत् तैलम् आहरत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । सौन्दर्यवर्धकत्वेन अपि उपयुज्यते ।

अस्य सर्षपतैलस्य प्रयोजनानि=[सम्पादयतु]

१. सर्षपतैलेन प्रतिदिनं मर्दनं क्रियते चेत् दुर्बलम् अस्थि अपि सबलं भवति ।
२. सर्षपतैलेन मर्दनं क्रियते चेत् रक्तसञ्चारः सम्यक् भवति ।
३. सर्षपतैलं चर्मणः उत्तमं “टोनर्” अपि ।
४. चषकमितं सर्षपतैलं चमसचतुष्टयमितं अलक्तपत्राणि च योजयित्वा सम्यक् क्वथनीयम् । अनन्तरं तत् तैलं यदा शीतलं भवति तदा तत् शोधयित्वा कूप्यां संस्थापनीयम् । प्रतिदिनं तस्य तैलस्य लेपनेन शिरसि केशाः वर्धन्ते । खल्वाटानाम् उत्तमं तैलम् एतत् ।
५. केशविगलनस्य एकं कारणम् अस्ति तैलस्य अलेपनम् । सप्ताहे त्रिवारं शिरसि तैलं लेपनीयम् इति वदति आयुर्वेदशास्त्रम् । शिरसि लेपनार्थं सर्षपतैलम् अपि उपयुज्यते ।
६. सर्षपतैलम् आहारपदार्थानां निर्माणे अपि उपयुज्यते ।‎
"https://sa.wikipedia.org/w/index.php?title=सर्षपतैलम्&oldid=301990" इत्यस्माद् प्रतिप्राप्तम्