सिद्धान्तकौमुद्याः टीकाकाराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सिद्धान्तकौमुद्याः टीकाकाराः अनेके सन्ति। सिद्धान्तकौमुद्यां दुसवण्येव संन्निवेशितानीत्यस्या, वैशिष्टयम् । शब्दान्तरेण कथने सम्पूर्णस्य पाणिनीयव्याकरणस्य प्रक्रियाविधौ संन्निवेशनमेव सिद्धान्तकौमुद्याः प्रयोजनम् । अस्यां हि क्रमैसन्निबेशविधिश्चाभिनवः प्रक्रिया च पूर्वतो विलक्षणा। ग्रन्थस्यास्यानेकै विद्वद्भिर्व्याख्या कृता । तेषां कतिपयेऽत्र सङ्क्षेपेण वर्ण्यते।

भट्टोजिदीक्षितः[सम्पादयतु]

सिद्धान्तकौमुद्या हि भट्ठोजिदीक्षितेनैव प्रौढमनोरमाऽऽरूया या . प्राञ्जला व्याख्या कृतास्तिः। तत्र स कथयति -

ध्यायं ध्यायं परं ब्रह्म स्मारं स्मारं गुरोगिरः ।

सिद्धान्तकौमुदीव्याख्यां कुर्मः प्रौढमनोरमाम् ।।

व्याख्यायामस्यां स शब्दसिद्धिप्रकारैः सह व्याकरणस्य दार्शनिकमपि पक्ष । विवेचयति । ग्रन्थोऽसौ यङन्तप्रकरणपर्यन्तमेव प्रकाशितों दृश्यते। प्रौढमनोरमाया अपि अनेके टीकाग्रन्थाः सन्ति तेषु तत्पौत्रस्य हरिदीक्षितस्य बृहच्छब्दरत्नं नितान्तमेव प्रामाणिकम् । तस्यैव संक्षिप्तरूपं हि लघुशब्दरत्नं शब्दरत्नमेव वा । शब्दरत्नोपर्यपि अनेकैविद्वद्भिर्टीकाः कृताः सन्ति तासु वैद्यनाथस्य भावप्रकाशिका, भैरवमिश्रस्य रत्नप्रकाशिका वा भैरवी, जगन्नाथ स्य ज्योत्स्ना च प्रसिद्धा । तत्र वैद्यनाथो हि नागेशशिष्यो बालम्भट्टस्य पिता ।

एवमेव शेषवीरेश्वरपुत्रः चक्रंपाणिदत्तो जगन्नाथपण्डितराज़श्न प्रौढमनोरमायः खण्डनकर्तारः । शेषवीरेश्वरपुत्रेण प्रौढ़मनोरमायाः खण्डनायें कश्चिद्ग्रन्थः प्रणीत असीदिति'•••••‘अस्मद्गुरुवीरेश्वरपण्डितानां तनयैः दूषिताः अपि' इति जगन्नाथकथनाज्ज्ञायते । ग्रन्थकर्ते ग्रन्थनामविषये न किमपि ज्ञातमस्ति । चक्रपाणिदत्ताख्येन विदुषा प्रौढमनोरमाखण्डनाय परमेतखण्डननामको .:: ग्रन्थः प्राणायि । अस्य हि कतिपयांश एंव प्रकाश्य प्राप्तः । तस्य खण्डनस्योद्धार शब्दरत्ने हरिदीक्षितेन कृतः । पण्डितराज जगन्नाथश्च प्रौढमनोरमाखण्डनाय कुचेमर्दनाख्यं ग्रन्थं प्रणीत.: वान् । तेन हि शब्दकौस्तुभखण्डनायापि कश्चिद् ग्रन्थः प्रणीत इति श्रूयते ।

ज्ञानेन्द्रसरस्वतिः[सम्पादयतु]

ज्ञानेन्द्रसरस्वतिहि भट्टोजिसमकालिकः । तस्य गुरुवमनेन्द्रसरस्वतिः शिष्यश्च भाष्यतत्वविवेककृन्नीलकण्ठः । तस्य हि स्थितिकालः १५८०-१६८० : वैक्रमादानभित आपतति । तेन सिद्धान्तकौमुद्या तत्वबोधिनी नाम्नी व्याख्या ऋता । स हि प्रतिजानीते -

नत्वा विश्वेश्वर साम्बं कृत्वा च गुरुवन्दनम् ।

सिद्धान्तकौमुदीव्याख्या क्रियते तत्त्वबोधिनी ।। इति ।

तत्वबोधिनी हि प्रौढमनोरमायाः एव सरसङक्षेपः। न हि तत्राभिनव.. किञ्चित्... अनेन ‘भट्ठोजिदीक्षितानुरोधेनैव ज्ञानेन्द्रभिक्षुणा तत्वबोधिनी, प्रणीतेति जनश्रुतिः सत्येव भाति । स्वमनोयोगेन कृते. कार्ये तु. जनः कमपि स्वकीयवैशिष्ट्यें. प्रदर्शयत्येव। श्रूयते हि. भट्टोजिः ज्ञानेन्द्रभिक्षु स्वसङ्ग.हीतसिद्धान्तकौमुद्या व्याख्याग्रन्थप्रणयनयान्वंरुध्यत । स हि. तत्प्रथमं तु प्रत्याख्यत् । यदा से पुनःपुनरनुरुद्धोऽपि न तदङ्गीकृतवान् तदा स भिक्षाभिषेण गृहमाहूय. भट्टोंजिना भृशं प्रताडितस्तदनिच्छयाऽपि स्वीकृतवानिति । भट्टोजिर्ज्ञानेन्द्रसरस्वतिसशविचक्षणेन स्वग्रन्थस्य व्याख्या कारयित्वाऽत्मनो गौरवं विस्तारयितु मिष्ट्वानिति नाश्चर्यम् । सोऽपि वचनप्रतिपालनायैव प्रौढमनोरमामेव संक्षिप्य व्याख्याग्रन्थं प्रणीतवानिति।

तत्वबोधिन्याश्च ज्ञानेन्द्रशिष्येण नीलकण्ठेन. गूढार्थदीपिकारच्या व्याख्या : कृतेति “अस्मद्गुरुचरणकृतंतत्वबोधिनीव्याख्याने गूढार्थदीपिकाख्याने प्रप्रञ्चितुम्” इति तस्यैव परिभाषावृत्तावुल्लेखाज्ज्ञायते ।

नीलकण्ठः[सम्पादयतु]

ज्ञानेन्द्रभिक्षुशिष्यो हि नीलकण्ठवाजपेयी गूढार्थदीपिकातिरिक्तमपि सुखबोधिन्यपराभिधवैयाकरणसिद्धान्तरहस्याख्यां सिद्धान्तकौमुद्या लघुव्याख्यां कृतवानितिं तस्यैव : विस्तरस्तु वैयाकरणसिद्धान्तरहस्याख्यास्मत्कृतसिद्धान्तकौमुदीव्याख्यानेऽनुसन्धेयः इति तस्यैव परिभाषावृत्तौ वचनाज्ज्ञायते । स हि १६००-१६९० वैक्रमाब्दानभितः स्थितिमानित्यनुमीयते ।

'रामानन्दः १६८०-१७२० वैक्रमाब्दानभितः स्थितिमान मधुकरा ख्यस्य महाशैवस्य . पुत्रः रामानन्दाख्यो विपश्चित्काशीवास्तव्योऽपि सिद्धान्तकौमुद्यास्तत्वदीपिकानाम्नीं व्याख्यां कृतवान् या सम्प्रति हलन्तस्त्रीलिङ्गपर्यन्तमेवोपलब्धाऽस्तीति | युधिष्ठिरानुशासनमुः। अस्याः प्रणयनं १७१९० मितवैक्रमचर्षे सम्पन्नमासीत् । अनेन हि लिङ्गानुशासनस्यापि व्याख्या प्रणीतेत्यपि तत्र सुचितमस्ति ।

रामकृष्णभट्टः वेङ्कटाद्रिभट्टस्य पौत्रस्तिरुपलभट्टस्य पुत्रो रामकृष्णभट्टः १७१५ मिनवैक्रमाब्दे सिद्धान्तकौमुद्याः रत्नाकरनाम्नीं व्याख्यां पूरितवानिति तस्यैव हि -

चन्द्रषिभूमीषुमिते हि वत्सरे कौवेरदिग्भाजिरवौ मधौ सिते ।

श्रीरामकृष्णः प्रतिपत्तिथौ बुधे रत्नाकारं पूर्णमचीकरद्वरम्।।

इति वचनाज्ज्ञायते । अत्र हि अङ्कानां दक्षिणतो गतिरिष्टा वामतो गती तु अदृष्टार्थकत्वं तेषाम् । यथा हि वामतो गतौ चन्द्रषिभूमीषुभिः ५१७५ मिता सङ्ख्या भवति या न कामपि वत्सरगणनामनुसरति । तस्य च स्थिति काल: १६९०-१७५० मितवैक्रमाब्दानभितोऽनुमितः ।

नागेशभट्टः[सम्पादयतु]

नागेशभट्टाल्यो हि महावैयाकरण; सिद्धान्तकौमुद्या बृहच्छब्देन्दुशेखराख्यां व्याख्यां प्राणैषीत् । पश्चाच्च तेनैव तदेव संक्षिप्य लघुशब्देन्दुशेखरञ्च प्रणीतम् । शब्देन्दुशेखरो हि महाभाष्यप्रदीपोद्द्योतात्प्रागेव प्रणीत आसीदिति शब्देन्दुबोखरे स्पष्टं निरूपितमस्माभिः' इति तस्यैव महाभाष्यप्रदीपोद्योत[१] वचनाज्ज्ञायते । स हि महाराष्ट्रीय ब्राह्मणः । चत्वार एव पण्डिता दाक्षिणात्याः द्राविडोऽप्ययदीक्षितः, तैलङ्गः जगन्नाथः महाराष्ट्रिय भट्टोजिनागोजी । नागेशस्य पिता शिवभट्टो माता च सती देवी । तस्य । गुरुहँग्दिीक्षितो भट्टोजिपौत्रो भानुजिपुत्रः शिष्यश्च वैद्यनाथः । नागेशस्य न कोऽप्यन्वयः । तस्य हि शब्देन्दुशेखरः पुत्रो मञ्जुषा चैव कन्यका । पञ्चैव महावैयाकरणाः मुनित्रयं भर्तृहरिर्नागेशश्च । अन्ये तत्पाश्र्ववतन एवं ।' नागेशो हि व्याकरणे आपातालनिमग्नपीवरतनुः । पूर्वं हि स जडबुद्धितरे आसीत् । कथ्यते यत्तेन महाभाष्यं गुरुमुखादष्टादशवारं श्रुतमिति । से स्वयमपि ‘पातञ्जले महाभाष्ये कृतभूरिपरिश्रमः' इत्युक्त्वा महाभाष्यस्यार्नेक वारमध्ययनं स्त्रीकरोति । तेन हि चरमं वयः शृङ्गवेरपुरे एव नीतम् । स हिं। अङ्गवेरपुराधीशाद् रामसिंहाद् लब्धकीविक आसीत् । गुणग्राही स तं बहुत्र स्मरति शृङ्गवेरपुराधींशीद्रामतो लब्धवृत्तिकः' इति कथनेन । स तं याचकानां कल्पतरोररिकक्षहुताशनात्' इति विशेषणैः संवर्धयति ।

नागेशोऽपि पण्डितराजवत्काश्याः निष्कासित आसीत् । काशी वै विद्याधिष्ठाननगरी किन्तु सां विद्वांसं नैव सहते । सा हि दीक्षितौघमाध्यमेन पण्डितराजं जगन्नाथं निष्क्रमामास । स्वयं हि वेदव्यासोऽपि काश्या निष्क्रमितस्तत्पूर्वरिभाने ग्रामोन्तरमाश्रित्य स्थितः । जगन्नाथश्च काश्या तिरस्कृतश्च मे वयो मथुरायां व्यनैषीत् । नागेशभट्ट न सहापि तथैव व्यवहृतम् । १७७१ मिते वैक्रमाब्दे जयपुरनरेशेनाश्वमेधः समायोजितः । सर्वेऽपि पण्डिता. आहूता अनाहूताश्च तंत्र जग्मुर्दैव्यार्थिनः । नागेशस्तु धर्मशास्त्रमर्मवित् कलौ अश्वालम्भनिषेधात् यजमानस्य च मुख्यसार्वभौमत्वाभावेनाश्वमेधेऽनधिकारोच्च अनाधिकारिणाऽनधिकृतरूपेण प्रवर्तते यज्ञे गन्तुमनीहमानः स वाराणसीक्षेत्रसंन्यासामिनिवेश पुरस्कृत्य तत्र न गतः । तेन स पण्डितानां द्वेष्यतां गतः सन्ननेकैमिषैः - काश्या बहिनष्काशितः । अनीहमानोऽपि काश्या निर्गतः स शृङ्गवेरपुरे लब्ध बासस्तत्रैव शेष जीवन व्यत्यापयत्। वर्तमानयुगेऽपि पण्डितवरों जगन्नाथगुरागाइमहोदयश्च कतिपयैर्द्रव्यार्थिभिः सम्भूय सपटदृघोषं काश्याः निर्वासितः शेषं जौवनं नेपालेषु अयीयपत्।

व्याकरणपरम्परायां नागेशस्योदयो हि महोदयायांफलत् । न्यायशास्त्रे गङ्गशपाध्याय ईव व्याकरणशास्त्रे स हि नव्यसम्प्रदायस्य प्रवर्तकः सञ्जातः । जैन हि सत्यमेवेदमुच्यते नागेशादारभ्य नव्यव्याकरणं प्रवृत्तमिति ।

नागेशो हि कोश्यामेव जीवनस्य पूर्वभागमयापयत् । यदा स जयसिंहेन १७९९ मिते वैक्रमाब्दे आषाढकृष्णद्वितीयायां समायोजयिष्यमाणेऽश्वमेधसत्र आहूतस्तदा से षष्टिहायनवयस्क आसीत् । अस्य हि सविस्तर वर्णनं कृष्णकविः ईश्वरविलासकाव्ये चतुर्थ सर्गे करोति । तेन तस्य स्थितिकालः १७४०-१८३० मितवैक्रमाब्दानभितोऽनुमीयते । तस्य गृहं हि काश्यां सिद्धेश्वरीमार्गे आसीद्यत्स महाभिनिष्क्रमणसमये कन्यायै अदादिति श्रूयते।

तस्य हि वैयाकरणसिद्धान्तमञ्जूषा व्याकरणशास्त्रे नव्यन्यायपद्धति प्रवेश- । यति । असौ हि व्याकरणशास्त्रीय आत्मतत्वविवेक-। मञ्जूषया हि व्याकरणदर्शनं विशदरूपेण व्याख्यातं येन चिरकालात्प्रक्रियाधूमावृताः पण्डिताग्नयः पुनः प्रज्वलिता दर्शनेन्धनेन । चिरकालादुपेक्षितो भर्तृहरिः पुनर्नवजीवनमवाप ।। बाक्यपदीयस्य विचारणा समारब्धा । पाणिनीयसूत्रेषु अङ्,रितं व्याकरणदर्शन ब्याडेः सङ्ग,हं प्राप्य स्पष्टमेव प्रस्फुटितं सञ्जातम् । कात्यायनादिभित्तोर्वरक तत्पतञ्जलिं प्राप्य पल्लवितम् । तदेव भतृहरि प्राप्य कोरकितं सन्नागेशं लब्ध्वां कुसुमित सञ्जातमिति सत्यमेवोच्यते षड्वैयाकरणाः मुनित्रयं व्याडिर्भतु हरि नागेशा इति । लुप्तप्रायं हि वाक्यपदीयं नागेशेन पुनरुज्जीवितं सन्महतो प्रतिष्ठामदाप्सीत् । सुदूरोत्तराञ्चलेषु काश्मीरेषु हि शैवागमच्छुत्रच्छायायो । द्वैतरूपेण कोरकितं हि व्याकरणदर्शनं 'नांगेशंस्याद्वैतवेदान्तानुमाभिमस्तिष्क प्रकाशेन कुसुमितं सञ्जातम् ।

इत्थमेकतो वैयाकरणसिद्धान्तमञ्जूषया व्याकरणे दार्शनिकप्रबंहिँः पुनः रुज्जीविताऽपरतस्तु शब्देन्दुशेखरेण महाभाष्यालोकः पटान्तरेणावृतः । शब्देन्दु शेखरस्य पुरत उद्द्योतोऽपि प्रदीप नैव प्रकाशयितुं समर्थोऽभूत् ।

शब्देन्दुशेखरमधिकृत्य दशाधिका व्याख्याग्रन्थाः प्रणीताः सन्ति । तेषु हि उदयशङ्करभट्टस्य ज्योत्स्ना, वैद्यनाथस्य चिदस्थिमाला, नित्यानन्दपर्वतीयस्य शेखरदीपकः, विश्वनाथदण्डिभट्टस्याभिनवचन्द्रिका, सदाशिवभट्टस्यं विख्नु तिसङ्ग,हः राघवेन्द्राचार्यस्य विषमपदविवृतिः, गुरुप्रसादशास्त्रिणो वरणनी चे प्रसिद्धः, तत्र नागेशशिष्यो वैद्यनाथः, बालशास्त्रिणां शिष्यो दण्डिभट्टः सिद्धसारस्वतः सदाशिवभट्टः (१८७५वै०), प्रकाण्डपण्डिते उदयशङ्कर (१८५० वै०)। स्नेहिरामशास्त्रिणस्त्रिपुरसुन्दरीव्याख्याऽप्यस्तीति श्रुतं नः । तृस्य च स्थितिकालः १९०४-१९८१ वैक्रमाब्दाः । गुरुप्रसादो हि स्नेहिरामशास्त्रिणः प्रपौत्रः शिवनारायणशास्त्रिणः पुत्रः।

शब्देन्दुशेखरातिरिक्तमपि नागेशस्य निम्नाङ्किता ग्रंथा व्याकरणजगति प्रसिद्धाः -

१. परिभाषेन्दुशेखरः - परिभाषेन्दुशेखरो हि पाणिनीयव्याकरणसम्बन्धपरिभाषाणां प्रासङ्गिकव्याख्या । अत्र हिं १३३ परिभाषाः सङ्कलिताः सन्ति । व्याख्यानतो विशेषप्रतिपत्तिने हि सन्देहाइलक्षणम्' इत्यारय अर्द्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः' इत्यन्ताः । तत्र 'हि भैरवमिश्रस्य भैरवी, लक्ष्मणशर्मणः तत्वप्रकाशिका, जोशीत्युपात्वदामोदरात्मजसदाशिवशास्त्रिणष्टिपणी, वेणीमाधवशास्त्रिणः वृहच्छास्त्रार्थकल्प, राजनारायणशास्त्रिशष्टिप्पण्यश्च तात्यांशास्त्रिणो'भूतिटीका, जयदेवंमिश्रस्य'विजयाटीका यागेश्वरशास्त्रिण हैमवतौटीका' दुर्गाटीका, व्याख्याग्रन्थाः ।

परिभाषामधिकृत्य सीरदेवस्य परिभाषावृत्तिः उल्लेखनीया। तत्रहि १३३ मिताः परिवाषाः सन्ति । यत्र प्रथमा तु व्याख्यानतः एव, चरमा च समासकृत्तद्धितेषु सम्बन्धाभिधानमन्यत्र रूढयभिन्नरूपा व्यभिचरितसम्बन्धेभ्यः' इति । एवञ्च त्रिभुवनात्मजेन अमृतलालशम्र्मणा श्लोकबद्धरूपेण सङ्कलिता *परिभाषेन्दुप्रभा’ अपि स्मरणीया । सा च १९९३ मितवैक्रमवत्सरे पूरितेति तल्लेखतो ज्ञायते । अत्र हि ४३३. क़ारिकाः सन्ति । तत्र हि ग्रन्थकृत एव भाव प्रकाशिका व्याख्या लभ्यते । ग्रन्थेऽस्मिन् नागेशस्मृतपरिभाषा एव श्लोकेष्ववकारिताः । ग्रन्थोऽयं परिभाषाज्ञानाय नितान्तमुपयोगी दृश्यते ।।

२. वैयाकरणसिद्धान्तमञ्जूषाः – व्याकरणस्य दर्शनपक्षमवलम्ब्यगुम्फितयं कृतिः ‘नागेशभट्टविदुषा नत्वा साम्बसदाशिवम् । वैयाकरणसिद्धान्तमञ्जूषेयं वरच्यते । तत्राष्टौ स्फोटा इति सिद्धान्तः' इत्यस्मादारब्धा । ग्रन्थोऽयं स्फोटादिविविधपक्षनिरूपकः ।

३. बुमञ्जूषा - अयमपि तद्विषयक एव ग्रन्थस्तस्यैव सारसंक्षेपरूपः। तत्र वाक्यस्फोंटों मुख्यो'लोके' इत्यस्य प्रारम्भवाक्यं यस्य । अस्य हि सभापतिशेर्मोपाध्यायकृता रत्नप्रभा नाम्नीं व्याख्या लभ्यते ।

४. परमलघुमञ्जूषा - असावपि पूर्वोक्तस्य लघुतररूपः । असौ हि तथ वर्णपदवाक्यभेदेन स्फोटस्त्रिधा' इति वचनादारब्धः। अस्य हि वंशीधरस्य । वंशीसंज्ञिता, अलखदेवस्य तत्वप्रकाशिका, कालिकाप्रसादस्य ज्योत्स्ना याख्याः लभ्यन्ते ।

५. स्फोटवादः - स्फोटवांदश्च वैयाकरणसम्मतमोट, विषयविवेचको ग्रन्थः । अन्ते. चु-तत्रोक्तम्-वैयाकरुणनागेशः स्फोटानऋतिस्। फरिष्कृत्योक्तवांस्तेन प्रीयतां जगदीश्वरः' इति ।

६. महाभाष्यप्रत्याख्यानसङ्गहः - ग्रन्थेऽस्मिन्.पाणिनीयाष्टकस्य योनि खलु सूत्राणिः प्रत्याख्यातानि-तेषामुद्धरणं प्रत्याख्यानञ्च सङ्ग्रहीतम् । यद्यपि अन्थे प्रत्याख्यानान्येव सङ्ग्रहीतानि न तु तत्समाधानानि तथाऽप्येष, प्रकरणशानाय नितान्तमुपयोगी ग्रन्थः । नागेशस्य हि व्याकरणविषयका सप्त ग्रन्थाः धर्मशास्त्रविषयकाः पञ्च ग्रन्थाः लक्ष्यसाहित्यविषयकास्त्रयो ग्रन्थाः दर्शनविषयसम्बद्धाश्चत्वारो . ग्रन्थाः, पुराणसम्बद्धश्चैकः, वाल्मीकीयरामायणस्य तिलकाख्या व्याख्या चेति ग्रन्थाः प्रसिद्धाः ।

शिवरामः[सम्पादयतु]

त्रिलोकचन्द्रस्य पौत्रेण कृष्णरामाख्यस्य पुत्रेण शिवारामाख्येत विपश्चित सिद्धान्तकौमुद्या विद्याविलासनाम्नी टीका प्रणीतेति तस्यैव नक्षत्रमालाय

‘यदत्र परिभाषेन्दुशेखरे दूषणं तदस्मत्कृते विद्याविलासे द्रष्टव्यम्'-.

इति वचनात् ‘विद्याविलासकौमुद्यां शिवरामविनिमत', इति कथनाच्च ज्ञायते । स हि नागेश्वरपश्चाद्वर्तीति तस्य परिभाषेन्दुशेखरोल्लेखाज्ज्ञायते । तेन हिं उणादिकोशोऽपि प्रणीत आसीत् ।।

रङ्गनाथः[सम्पादयतु]

रङ्गनाथाख्येन विपश्चिताऽपि सिद्धान्तकौमुद्याः पूर्णिमानाम्नी व्याख्या कृतेति-

'येन करण्डमाणिक्यग्नामरत्ननिवासिना।

रङ्गनाथाध्वरीन्द्रेण मकरन्दाभिधा कृता ।।

व्याख्या हि पदमञ्जर्याः कौमुद्याः पूर्णिमा तथा ।'

इति क्रदराज़वचनाज्ज्ञायते । रङ्गनाथस्य स्थितिकालः १७४५ वैक्रमाब्दः मभितोऽनुमितः ।

वासुदेवः[सम्पादयतु]

ज्ञासुदेववाजपेयिना-सिद्धान्तकौमुद्याः- बालमनोरमानाम्नी टीका-प्रणीताऽस्ति तस्य हि-पिता-महादेवो -मातान्नपूर्णा अग्रज़वं विश्वेश्वरः । स हि टीका प्रम्झे स्वपक्वतनो व्याख्याकारान् स्मरति -

'व्याख्याता बहुभिः प्रोढरेषा सिद्धान्तकौमुदी।

वासुदेवस्तु तद्वयाख्यां वष्टि बालमनोरमाम् ।' इति ।

ग्रन्थान्ते च स हि श्रीशाहजी शरभजी तुक्कोजी भोसलचोलनरेन्द्रमुल्लिखति के. तेषाच्च राज्यकालः १७४४-१७९३ मितवैक्रमाब्दानभित आपतति बालमनोरमांकारोऽपि १७४०-१८०० मितवैक्रमाब्दमध्यवर्तीति विद्वद्भिरनुमितम्।

वेणीमाधवशुक्लः[सम्पादयतु]

वेणीमाधवशुक्लेन जयदेवात्मजेन दुर्गागर्भ जेन महाप्राज्ञेन सिद्धान्तकौमुद्याः कौमुदीकल्पलतिकाख्यो व्याख्यापरिष्कारग्रंथः प्रणीतोऽस्ति । अस्योपरि च तदात्मजेन राजनारायणविपश्चिता बृहटिप्पणी प्रणीताऽस्ति । वेणीमाधवस्य परिष्कारंदर्पणः शास्त्रार्थकलासहितोऽपि प्रसिद्धो ग्रन्थः ।

जयकृष्णः[सम्पादयतु]

रघुनाथात्मजेन जयकृष्णाख्येन विपश्चिता सिद्धान्तकौमुद्याः सुबोधिनी नाम्नी व्याख्या प्रणीताऽस्ति । तस्याश्च वैदिकप्रक्रियासम्बद्धों भागः प्रकाशितो

गोपालशास्त्री नेनेः[सम्पादयतु]

श्रीमता गोपालशास्त्रिणा. सिद्धान्तकौमुद्या सरलाः नाम्नी व्याख्या कृताऽस्ति। व्याख्येयं सरला छात्रोपयोगिनी च । गोपालशास्त्रिणो विषये पाणिनीयाष्टकव्याख्याकारप्रसङ्ग उक्तमेव ।

रामचन्द्रझाः[सम्पादयतु]

रामचन्द्राख्येन झेत्युपाढ्न पण्डितेन सिद्धान्तकौमुद्याः इन्दुमती. नाम्नी । व्याख्या प्रणीताऽस्ति । व्याख्येयं परीक्षादृष्ट्या गुम्फिताऽस्ति । रामचन्द्रो हि व्याख्यामिमां २०३७ वैक्रमाब्दे पूरितवानिति तत्रत्यलेखतो ज्ञायते । ।

एवञ्च कृष्णमित्रस्य रत्नार्णवः तिरुमलस्य सुमनोरमा, ‘तोप्पलदीक्षितस्य प्रकाशः अज्ञातकर्ते का लघुमनोरमा, अज्ञातकर्तृक एव शब्दसागरः तादूगेव शब्दरसाणैवः,.अज्ञातकतू कमेव सुधाञ्जनम्, लक्ष्मीनृसिंहस्य विलासः, शिवरामेन्द्रस्य रत्नाकरः, इन्द्रदत्तोपाध्यायस्य फक्किकाप्रकाशः, सारस्वतव्यूढमिश्रस्य बालबोधः बल्लभस्य मानसरञ्जनी, चं सिद्धान्तकौमुद्या.व्याख्याग्रन्थाः । एतदतिरिक्तमपि अनेकैः ग्रन्थसम्पादकैरपि अनेकाष्टिप्फ्ण्यः सिद्धान्तकौमुद्याई प्रणीताः सन्ति । तासु हि गुरुप्रसादशास्त्रिणः, शिवदत्तपण्डितस्य च टिप्पण्यः सादरं स्म्रियन्ते । सभापतिशर्मोपाध्यायेनाऽपि सि प्रणीतोऽस्तीति गोपालदत्तपाण्डेयः स्मरति । स हि तथ्यमिदं स्वप्रणीतस्य : सिद्धान्तकौमुद्या दीपिकाख्यव्याख्याग्रन्थस्य प्राक्कथने प्रकटयति ।

तत्र स हि गङ्गारामशास्त्री, रङ्गनाथपौड्यालः, जगन्नाथगाडगिलः, रघुनाथशास्त्री, काशीनाथशास्त्री, राजारामशास्त्री, . बालशास्त्री, ( येन परिभाषेन्दुशेखरस्य। परिष्कारः प्रणीतः ) यागेश्वरः ( येन परिभाषेन्दुशेखरोभर हैमवती व्याख्या लिखिता ), गङ्गाधरशास्त्री, शिवकुमारशास्त्री ( येन 'परिभाषेन्दुशेखरोपरि व्याख्या प्रणीता ) दामोदरभारद्वाजः ( येन परिभाषेन्दुशेखरस्य व्याख्याग्रन्थ प्रणीतः ), तात्याशास्त्रिपटबर्धनः ( येनापि परिभाषेन्दुशेखरस्य व्याख्याग्रन्थः प्रणीतः ), केशवशास्त्री, रामनार्थद्विवेदः, स्नेहिरामशास्त्री, विश्वनाथभक ( येन परिभाषेन्दुशेखरस्य, बृहच्छब्देन्दुशेखरस्य पृथक् पृथक् व्याख्याग्रन्थौ प्रणीतौ ), नित्यानन्दपन्तपर्वतीयः ( येन शब्देन्दुशेखरोपरि शेखरदीपकायें टिप्पणं प्रणीतं ) हेमराजपाण्डेयः, भुवनेश्वरप्रसादः, जयदेवमिश्रः; मुकुन्देवक्शी हरिनारायणत्रिपाठी, रामेयशस्त्रिपाठी, सभापतिशर्मोपाध्यायः ( वैयाकरणसिद्धान्तलघुमजूषायाः रत्नप्रभाब्याख्याकृत् ) रामाज्ञापाण्डेयः ( व्याकरण दर्शनभूमिकायाः प्रणेता ) गणपतिशास्त्री, सीतारामशास्त्री ( वेदार्थविचारस्य । प्रणेता ), माधवशास्त्री 'महाभाष्यस्य प्रथमद्वितीयाह्निकभागस्ये स्फोटविमः । शिनीव्याख्यायाः प्रणेता, गोपालशास्त्री नेने ( वैयाकरणभूषणसारस्य सलाव्याख्यायाः सिद्धान्तकौमुदीटिप्पण्याश्च प्रणेता ( चेतिप्रभृति वैयाकरणानपि । स्मरति । तेन हि सिद्धान्तकौमुद्या दीपिका नाम्नी हिन्दीभाषायां व्याख्या प्रणीताऽस्ति । स पद-मूलार्थ-सन्दर्भ-विवरण-निष्कर्ष-अनुवृत्त्यादिभिः स्वकीयो व्याख्यां सञ्जपति । व्याख्येयं संस्कृतमाश्रित्य प्रणीता चेदभविष्यत् तदाऽस्माकं महत्सौभाग्यमंभविष्यत् । एवमेव टेकनाथदधिरामरोहिणीप्रसादादयोऽपि भैयाकरणत्वेन ख्याता विपश्चितः।

वैद्यनाथः प्रायगुण्डेः[सम्पादयतु]

'महादेवभट्टाख्यस्य विदुषः पुत्रोऽयं नागेशशिष्यः । तस्य हि अनेके व्याख्याटीकाग्रन्थ प्रसिद्धाः सन्ति येषु हि शब्दकौस्तुभस्य प्रभा, शब्दरत्नस्य भावप्रकाशिका, उद्यतस्य छाया, लघुशब्देन्दुशेखरस्य चिदस्थिमाला, । परिभाषेन्दुशेखरस्य गदा काशिका च, वैयाकरणमञ्जूषायाः कला च प्रसिद्धाः । असौ वैद्यनाथ एव येन व्याकरणजगति नागेश-प्रवर्ततो नव्यसम्प्रदायः पल्लवितः कुसुमितश्च । स हि व्याकरणे नागेश इव पारदृश्वा पण्डित आसीत् । स हि नव्यन्यायशैलीमनुसृत्य नागेशग्रन्थान् व्याख्यात् येन नव्यव्याकरणपरम्परोदिताः। १८८१ मितवैक्रमाब्दे भैरवमिश्रस्य भैरवीटीका परम्परामेताम पुष्णात्।

सभापतिशमपाध्यायः[सम्पादयतु]

सभापतिशमपाध्यायः (११३७-२०२१) , विद्वन्मूर्द्धन्येन सभापतिशर्मोपाध्यायेन सिद्धान्तकौमुद्या लक्ष्मी नाम्नी व्याख्या प्रणीताऽस्ति ।, व्याख्येयं सकलंव्याख्यासारभूता। व्याख्याकारस्यास्य, पितृनाम श्रीपलटशर्मोपाध्यायः, मातृनाम सखी देवी, जन्मस्थानं बलिया मण्डलान्तर्गत उदयीछपरा',। असौ हि श्रीदामोदरशास्त्रिभारद्वाज़स्य शिष्यः । अस्य हि एतद्वयाख्यातिरिक्तमपि ।

१. वैयाकरणसिद्धान्तलघुमजूषाया 'रत्नप्रभा'व्याख्या,

२, सशदरत्न प्रौढमनोरमायाः ‘प्रभा' व्याख्या, व व्याकरणसम्बद्धग्रंथाः।

व्याख्येयं सर्वविधव्याख्यानचूडामणिभूता सम्प्रत्यपि सर्वेषां प्रामाणिकग्रन्थत्वेन सम्मता । स स्वयमेवोपोद्धाते कथयति -

सिद्धान्तकौमुदी व्याख्या सर्वव्याख्यातिज्ञापिनी ।

पूर्णा सर्वप्रकारेण लक्ष्मीर्वाग्विन्मनो हरेत् ।।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. २।१।२८