सीतारामभट्टः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


कवि परिचयः[सम्पादयतु]

सितारामभट्टो (Sitarama Bhatta) जयपुराधिपस्य तृतीयस्य जयसिंहस्य सभारत्नमासीत् । जयसिंहस्य शासनकालः १८१८ तः १८३४ ईशवीयाब्दपर्यन्तम् आसीत् । अतः कवेरपि स एव स्थितिकालः । लक्ष्मण्भट्टोऽस्य जनक आसीत् । अयं कविः महाराष्ट्रियस्य विदुषो माधवभट्टस्य वंशजः ।

कृतिपरिचयः[सम्पादयतु]

सीतारामभट्टस्य २३ कृतयः प्राप्यन्ते । तत्र जयवंशं, नलविलासं, राघवचरितं, नृपविलासं, लघुरघुकव्यं चेति पञ्च महाकाव्यानि सन्ति ।

जयवंशम्[सम्पादयतु]

इदम् ऐतिहासिकं महाकाव्य्म् । अत्र १९ सर्गाः सन्ति । अत्र कूर्मवंश्यानाम् आमेर-जयपुरशासकानां सोढदेवादाराभ्य माधवसिंहपर्यन्तानां वर्णनमस्ति ।

नलविलासम्[सम्पादयतु]

आस्मिन् महाकाव्ये ३२ सर्गाः सन्ति । अत्र नलदमयन्त्योः समग्रम् इतिवृत्तं वर्णितम् । कथावस्तु प्रायेण नैषधीयचरितम् अनुसरति । वर्णनेष्वपि नैषधम् अनुक्रियमाणमिव प्रतीयते । नलस्य वानप्रस्थाङ्गीकारेण सहैव कथा समाप्तिं याति । अत्र नायको नलो नायिका च दमयन्ती । शृङ्गारः प्रमुखो रसः ।

नृपविलासम्[सम्पादयतु]

इदं महाकव्यं षोडशसर्गात्मकम् । अत्र कथानकथोजना नैषधीयचरितम् अनुसरति । नृपवीरोऽत्र धीरोदात्तनायकः । बङ्गनरेशस्य मदनराजस्य पुत्री दमयन्ती चात्र नायिका । शुकः उभयोः सन्देशवाहकः । कथानकं कविकल्पितमस्ति । नायकनायिकयोः वानप्रस्थपर्यन्तं कथनकमत्र वर्णितम् ।

राघवचरितम्[सम्पादयतु]

राघवचरित्रे २५ सर्गाः सन्ति । अत्र दशरथवृत्तवर्णनादारभ्य सीतापरित्यागपर्यन्ता रामकथा वर्णिता । अत्र रघुवंशमहाकाव्यस्य प्रभावः संलक्ष्यते । रामस्यात्र परम्परानुसारेण धीरोदात्तनायकत्वेन चित्रणं जातम् । वीररसस्य अङ्गित्वेन शृङ्गारकरुणशान्तादीनाम् अन्येषां रसानाञ्च अङ्गत्वेन आभिव्यक्तिर्जाता ।

लघुरघुकाव्यम्[सम्पादयतु]

एकोनविंशतिसर्गात्मकम् इदं महाकव्यं रघुवंशस्यैव लघुरुपम् । अत्र प्रतिसर्गं रघुवंशस्य कथा तेनैव क्रमेण विंशतिश्लोकेषु वर्णिता । अत्र विचारेषु भावेषु भाषायाञ्च कालिदासेन सह सायं स्पष्टं प्रतीयते ।

काव्यशैली[सम्पादयतु]

अस्य काव्यशैल्यां प्राञ्जलता वर्तते । परमस्य मौलिकतापक्षो दुर्बल इव । नृपविलासे चायं श्रीहर्षमनुहरति, अवशिष्टे महाकाव्यत्रये च कालिदासम् । वर्णनेषु स्वाभाविकता वर्तते, परं न तानि पूर्वकविप्रभावान्मुक्तानि तथा –

क्वासौ पदर्थो जयसिम्हवंशः
क्वाहं विमूडोऽल्पमतिः प्रकामम् ।
तद्वर्णनेच्छा मयि सेयमस्ति
सिन्धोस्तितीर्शव लघुप्लवेन ॥

जयवंशस्य पद्यमिदं रघुवंशस्य मन्दः कविरिति पद्यस्य छायया आक्रन्तम् । नलविलसस्य अधोनिर्दिष्टे पद्ये नैषधीयचरितस्य छाया स्पष्टमवलोक्यते–

नरेन्द्र मज्जीवन-दानजन्य-पुण्येन विख्यातिगतस्तवास्य ।
जनस्य किञ्चिन्निजरूपतुल्यं विराजते प्रत्युपकर्तु्मिच्छा ॥

अनुकरणस्येयं प्रवृत्तिः कथानके चारित्रचित्रणे चापि दृश्यते । पर्वणीकरस्य पात्रेषु वैव्यक्तिकवैशिष्ट्यस्य अभावः । तेषां लोकप्रसिद्धरूपमेव प्रस्तुतम् । भाषा सरला सरसा चास्ति ।

अलङ्कारयोजना रसानुकूला । अलङ्कारप्रयोगे कविः महतीं सफलतां लब्धवान् । उपमारूपकोत्प्रेक्षादयः अस्य प्रिया अलङ्कारा । एवमेव थथावसरं छन्दसां रुचिरः प्रयोगः कृतः । प्रकृतिचित्रणं रमणीयम् अलङ्कृतञ्चास्ति ।

"https://sa.wikipedia.org/w/index.php?title=सीतारामभट्टः&oldid=372014" इत्यस्माद् पुनः प्राप्तिः