सामग्री पर जाएँ

सुशीला दीदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सुशीलादीदी इत्यस्मात् पुनर्निर्दिष्टम्)
Sushila Didi
सुशीला दीदी
सुशीलाभगिन्याः एकं पुरातनं चित्रम्
जन्म ५/३/१९०५
दन्तोचूहड-ग्रामः, पञ्जाबराज्यम्
मृत्युः १३/१/१९६५
दन्तोचूहड-ग्रामः, पञ्जाबराज्यम्
वृत्तिः क्रांतिकारी&Nbsp;edit this on wikidata
कृते प्रसिद्धः क्रान्तिकारिणां भगिनी
भार्या(ः) श्याममोहनः

सुशीलाभगिन्याः ( /ˈsʊʃlɑː dd/) (हिन्दी: सुशीला दीदी, आङ्ग्ल: Sushila Didi) एक एव उद्देशः आसीत् यत्, "येन केन प्रकारेण भारतं स्वतन्त्रं भवेत्" इति । अतः तया सशस्त्रान्दोलनेषु, अहिंसकान्दोलनेषु च स्वयोगदानं प्रदत्तम् । सॉण्डर्स् इत्यस्य हननानन्तरं दुर्गा भाभी लाहोर-महानगरात् बहिः निर्गन्तुं भगत सिंह इत्यस्य साहाय्यम् अकरोत् । ततः सुशीलाभगिनी तस्मै आश्रयम् अयच्छत् । सुशीलाभगिन्याः माता सुशीलाभगिन्याः विवाहार्थं सुवर्णं सङ्गृहीतवती आसीत् । काकोरी-काण्डानन्तरं तत् सुवर्णं विक्रीय सा क्रान्तिकारिणां सहयोगम् अकरोत् । सरोजिनी नायुडु इत्यस्याः नेतृत्वे महिलामताधिकारस्य आन्दोलने सा भागम् अवहत् । एवं सशस्त्राशस्त्रान्दोलनेषु तया सक्रिययोगदानं प्रदत्तम् ।

जन्म, परिवारश्च

[सम्पादयतु]

१९०५ तमस्य वर्षस्य 'मार्च'-मासस्य पञ्चमे (५/३/१९०५) दिनाङ्के पञ्जाबराज्यस्य गुजरातमण्डलस्य दन्तोचूहड-ग्रामे सुशीलाभगिन्याः जन्म अभवत् । तस्याः पिता करमचन्द आर्यसमाजस्य अनुयायी आसीत् । आङ्ग्लसेनायां सः वैद्यत्वेन कार्यं करोति स्म । सः आङ्ग्लसर्वकारस्य कृते कार्यं करोति स्म, परन्तु तस्मिन् देशभक्त्याः भावः न्यूनः नासीत् । स्वपुत्री भारतीयसंस्कृत्यनुगुणम् अध्ययनं कुर्यात् इति तस्य इच्छा आसीत् । अतः सः जलन्धर-नगरस्थे आर्यकन्या-महाविद्यालये स्वपुत्र्याः प्रवेशम् अकारयत् । तस्मिन् विद्यालये सुशीलाभगिनी स्नातकपर्यन्तम् अध्ययनम् अकरोत् ।

बाल्यं, जीवनञ्च

[सम्पादयतु]

पितुः आशीर्वादेन, संस्कारेण च राष्ट्रभक्तिः सुशीलाभगिन्याः शरीरे रक्तत्वेन वहति स्म । किशोरवयसि सा देशभक्त्याः गीतानि लेखितुं प्रारभत । देशबन्धु चित्तरञ्जन इत्ययं यदा सभायां भागम् वोढुं लाहोर-नगरं गतः आसीत्, तदा सः सुशीलाभगिन्याः गीतं श्रुत्वा अरुदत् । सुशीलाभगिन्याः गीतं श्रुत्वा उपस्थिताः सर्वे जनाः अपि अरुदन् ।

१९२१ तमे वर्षे आङ्ग्लाः महात्मने षड्वर्षस्य कारावासस्य दण्डम् अददुः । तेन दुःखिता सुशीलाभगिनी पञ्जाबीभाषायां “जुग जुग गगन लहरावे झण्डा भारतदा” इति गीतम् अलिखत् । ततः देहरादून-नगरे आयोजिते एकस्मिन् साहित्यसम्मेलने सुशीलाभगिनी भागम् अवहत् । तत्र तस्याः परिचयः भगवतीचरणेन सह अभवत् । सः सुशीलाभगिन्याः क्रान्तिकारिवचारैः अतिप्रभावितः अभवत् । भगवतीचरणः तस्मात् दिनात् तां सुशीला दीदी इति आह्वयितुम् आरभत । अतः क्रान्तिकारिषु सुशीला दीदी इति सा प्रख्याता अभवत् ।

अध्ययनेन सह क्रान्तिः

[सम्पादयतु]

सुशीलाभगिनी यदा महाविद्यालये अभ्यासं कुर्वती आसीत्, तदा तया क्रान्तिविचाराणां प्रसारार्थं लघुपत्रिकायाः मुद्रणं प्रारब्धम् । मुद्रणस्य मार्गदर्शनं भगवतीचरणः करोति स्म । काकोरी-काण्डेन सह ये क्रान्तिकारिणः सल्लग्नाः आसन्, तेभ्यः क्रान्तिकारिभ्यः मृत्युदण्डस्य घोषणाम् आङ्ग्लसर्वकारः अकरोत् । एतं सन्देशं यदा सुशीलाभगिनी प्रापत्, तदा सा परीक्षाखण्डे बी. ए. इत्यस्य परीक्षां यच्छन्ती आसीत् । एनं सन्देशं श्रुत्वा सा मूर्छिता अभवत् । ततः स्वविवाहार्थं मात्रा रक्षितं सुवर्णं विक्रीय सा तेषां क्रान्तिकारिणां सहयोगम् अपि अकरोत् । परन्तु क्रूराः आङ्ग्लाः क्रान्तिकारिभ्यः मृत्युदण्डम् अयच्छन् । सा घटना व्रणवत् ताम् आजीवनं पीडयति स्म ।

सुशीलाभगिनी क्रान्तिकारिणां साहाय्यम् अकरोत् इति तस्याः पिता अजानात् । सः देशभक्तः तु आसीत्, परन्तु स्ववृत्तिविषयिणी चिन्ता अपि तस्य मनसि आसीत् । अतः सः स्वपुत्रीम् अबोधयत्, “अधुना तूष्णीं स्थित्वा अभ्यासे ध्यानं यच्छ । ततः यन्मनसि आगच्छेत्, तत् कुरु । तव प्रवृत्तिः मम वृत्त्युपार्जने विघ्नं जनिष्यति” इति । “क्रान्तिकारिणी प्रवृत्तिः मम जीवनस्य अन्तिमश्वासपर्यन्तम् अहं करिष्ये । तदर्थम् एतत् गृहं त्यक्त्वा गन्तुम् उद्युक्ता अस्म्यहम्” इति सुशीलाभगिनी उदतरत् । ततः सुशीलाभगिनी वर्षद्वयं यावत् गृहम् अगत्वा पञ्जाबविश्ववद्यालये प्राध्यापिकात्वेन कार्यं प्रारभत ।

देशक्रान्त्यै जीवनसमर्पणम्

[सम्पादयतु]

सुशीलाभगिनी यदा पञ्जाबविश्ववद्यालये पाठयन्ती आसीत्, तदा सा एकस्य श्रेष्ठिनः पुत्रीम् अपि पाठयन्ती आसीत् । तस्य श्रेष्ठिनः नाम छाजूराम चौधरी इति आसीत् । सः मूलतः कोलकाता-महानगरस्य आसीत् । परन्तु तस्मिन् काले लाहोर-नगरे निवसति स्म । कांश्चित् मासान् यावत् सुशीलाभगिनी तस्य पुत्रीम् अपाठयत् । ततः श्रेष्ठी पुनः कोलकाता-महानगरं गन्तुं निर्णयम् अकरोत् । परन्तु पुत्र्याः अध्ययने स्थगनं मा भवतु इति विचिन्त्य सः सुशीलाभगिनीम् अपि साकं नीत्वा अगच्छत् ।

भारते यदा क्रान्तिकालः आसीत्, तदा क्रान्तिकारिणां राजधानीत्वेन कोलकाता-महानगरं परिगण्यते स्म । अतः क्रान्तिकारिभिः सह तस्याः साहजिकः सम्पर्कः भवति स्म । कोलकाता-महानगरे सुभाष चन्द्र बसु इत्यस्य अध्यक्षतायां यदा सायमन् कमिशन् इत्यस्य विरुद्धं प्रदर्शनम् आसीत्, तदा तस्मिन् प्रदर्शने सुशीलाभगिनी अपि भागम् अवहत् ।

भगत सिंह इत्यस्य रक्षणम्

[सम्पादयतु]

सायमन् कमिशन् यदा लाहोर-नगरम् अगच्छत्, तदा लाला लाजपत राय इत्यस्य नेतृत्वे तस्य विरोधः अभवत् । परन्तु विरोधकाले यष्टिकाप्रहारेण लाला लाजपत राय इत्यस्य मृत्युः अभवत् । मरणकाले लाला लाजपत राय अवदत्, “मम उपरि यावन्तः प्रहाराः युष्माभिः कृताः, ते प्रहाराः भारतात् युष्माकम् (आङ्ग्लसर्वकारस्य) उन्मूलनस्य कारणं भवष्यन्ति” इति । ("मेरे शरीर पर पड़ी एक-एक लाठी ब्रिटिश सरकार के ताबूत में एक-एक कील का काम करेगी।") लाला लाजपत राय इत्यस्य हननस्य प्रतिशोधार्थं भगत सिंह इत्यनेन सॉण्डर्स् इत्यस्य हननं कृतम् । आङ्ग्लसर्वकारेण सॉण्डर्स् इत्यस्य हननकर्तॄणाम् अन्वेषणं प्रारब्धम् । ततः भगत सिंह दुर्गा भाभी इत्यस्याः साहाय्येन लाहोर-नगरात् बहिः निर्गतन्तुं सफलः अभवत् । परन्तु क्रूराः आङ्ग्लाः भगत सिंह इत्यस्य अन्वेषणं नास्थगयन् । अतः भगत सिंह इत्यस्य कृते गुप्तवासस्य आवश्यकता उद्भूता । तस्मिन् काले दुर्गा भाभी इत्यस्याः पतिः भगवतीचरणः सुशीलाभगिन्याः संरक्षणे गुप्तवासे आसीत् । अतः दुर्गा भाभी भगत सिंह इत्यस्य साहाय्यं कर्तुं सुशीलाभगिनीं न्यवेदयत् । क्रान्तिकारिणां साहाय्यार्थं तत्परा सुशीलाभगिनी भगत सिंह, दुर्गा भाभी, राजगुरु इत्यादीन् नेतुं हावडा-रेलस्थानकम् अगच्छत् । तान् सर्वान् रेलस्थानकात् यथाक्षेमेण सा स्वगृहम् अनयत् ।

कोलकाता-महानगरे सुशीलाभगिनी छाजुराम इत्यस्य गृहे निवसति स्म । छाजुराम इत्यस्य आङ्ग्लसर्वकारेण सह गाढसम्बन्धः आसीत् । अतः तस्य गृहे अधिकसमयं यावत् भगत सिंह सुरक्षितः नासीत् । परन्तु सुशीलाभगिनी जानाति स्म यत्, छाजुराम इत्यस्य पत्नी देशसेवायै तत्परा अस्ति इति । अतः सुशीलाभगिनी तया सह भगत सिंह इत्यस्य विषये चर्चाम् अकरोत् । देशसेवायै तत्परा छाजुराम इत्यस्य पत्नी अवदत्, “भगत सिंह अत्र गूहते चेत्, मम कृते आनन्दस्य विषय एव । देशसेवायाः एषः अवसरः मह्यम् आत्मशान्तिं यच्छति । भगत सिंह अत्र मम पुत्रत्वेन निवत्स्यति । इतः परं तस्य चिन्तां मा कुरु” इति ।

एकदा सशस्त्राः आरक्षकाः सहसा छाजुराम इत्यस्य गृहं परितः सज्जाः अभवन् । गृहे निगूढाः राजगुरुः, भगवतीचरणः, भगत सिंह इत्यादयः युद्धाय सज्जाः अभवन् । भगत सिंह स्वाग्निशस्त्रे गुलिकां प्रपूर्य सज्जः आसीत् । परन्तु धीरमनसा सुशीलाभगिनी तम् अग्निशस्त्रं गोपयितुम् अकथयत् । सा अवदत्, “भगत ! एवं शीघ्रताकरणेन लाभः नास्ति । अहं गत्वा पश्यामि यत्, एते किमर्थम् अत्र आगताः सन्ति” इति । धीरमनासायाः सुशीलाभगिन्याः कथनं सर्वैः अङ्गीकृतम् । सुशीलाभगिनी निर्भयतया बहिः अगच्छत्, परन्तु सा अन्याय कार्याय बहिः गच्छन्ती अस्ति इति अभिनयम् अकरोत् । यदा सा बहिः गन्तुम् उद्युक्ता आसीत्, तदा एकः अधिकारी ताम् अपृच्छत्, “भवानी दयाल इत्याख्यः संन्यासी अत्र निगूढितः अस्ति किम् ?” इति । किञ्चित् खिन्नस्वरेण सुशीलाभगिनी प्रतिप्रश्नम् अकरोत्, “कः संन्यासी भगवती दयाल ?” इति । “सः आर्यसमाजस्य नेता अस्ति । केभ्यश्चन दिनेभ्यः प्राक् तेन आङ्ग्लसर्वकारविरुद्धम् उग्रं भाषणं कृतम् आसीत्” इति एकः आरक्षकः अवदत् । सत्यतां ज्ञात्वा अधिकोग्रस्वरेण सुशीलाभगिनी उदतरत्, “अत्र तादृशः कोऽपि संन्यासी नास्ति । मयि विश्वासः नास्ति चेत्, गृहं परीक्ष्य सान्त्वनां प्राप्नुवन्तु” इति । आरक्षकाः गृहस्य प्रतिप्रकोष्ठं गत्वा संन्यासिसदृशस्य जनस्य अन्वेषणम् अकुर्वन् । परन्तु तस्मिन् गृहे न कोऽपि संन्यासी आसीत् । तस्मिन् दिने यदि सुशीलाभगिनी शान्तमनसा नाचिन्तष्यित्, तर्हि भगत सिंह इत्यस्य आङ्ग्लारक्षकैः सह युद्धं निश्चितम् आसीत् । परन्तु सुशीलाभगिन्या तस्याः व्यर्थयुद्धस्थित्याः परिहारः (avoid) कृतः ।

अग्निगोलकस्य यन्त्रशाला

[सम्पादयतु]

कांश्चन मासान् कोलकाता-महानगरे यापयित्वा चन्द्रशेखरस्य आदेशेन भगत सिंह लाहोर-नगरं प्रत्यगच्छत् । तेन सह सुशीलाभगिनी अपि लाहोर-नगरम् अगच्छत् । लाहोर-नगरस्य एकस्मिन् गृहे सुखदेवः, भगवतीचरणश्च अग्निगोलकनिर्माणस्य यन्त्रशालां चालयन्तौ आस्ताम् । सुशीलाभगिनी स्वभ्रातरं भगवतीचरणं न्यवेदयत्, “अहमपि अग्निगोलकनिर्माणस्य विषये ज्ञातुम् इच्छामि” इति । परन्तु भगवतीचरणः सुशीलाभगिन्याः निवेदनं निराकरोत् । सः अवदत्, “एतस्यां यन्त्रशालायां यदि महिलानाम् आवागमनम् आङ्ग्लाः द्रक्ष्यन्ति, तर्हि ते भवनेऽस्मिन् किं चलदस्ति इति द्रष्टुम् अत्र आगमिष्यन्ति” इति । अनेकवारम् आङ्ग्लान् वञ्चितवती सुशीलाभगिनी पुरुषवेशं धृत्वा यन्त्रशालाम् अगच्छत् । अन्ततो गत्वा सा अग्निगोलकनिर्माणस्य पद्धतिम् अजानात् ।

एकदा अग्निगोलकसम्बद्धानां वस्तूनम् आनयनकाले सुखदेवस्य उपरि आङ्ग्लाधिकारिणां मनसि शङ्का समुद्भूता । आङ्ग्लानाम् आचरणेन तेषां मनसि जातायाः शङ्कायाः विषये सुखदेवः अजानत् । अतः सः यन्त्रशालाम् अगत्वा सुशीलाभगिन्याः गृहम् अगच्छत् । अर्धरात्रौ आङ्ग्लाः सुशीलाभगिन्यै गृहस्य द्वारम् उद्घाटयितुम् आदेशम् अयच्छन् । द्वारोद्घाटनात् प्राक् सुशीलाभगिनी अग्निगोलकसम्बद्धानि वस्तूनि नीत्वा सुखदेवम् अलिन्दमार्गेण (via terrace) पलायनं कर्तुम् अवदत् । तस्य पलायनानन्तरं सुशीलाभगिनी गृहद्वारस्य समीपं स्थित्वा क्रोधेन अवदत्, “कः धूर्तः अर्धरात्रौ महिलानां गृहे प्रवेशम् इच्छति ?” इति । विनम्रस्वरेण एकः अधिकारी अवदत्, “एतस्मिन् गृहे अग्निगोलकस्य सामग्री अस्ति इति शङ्का अस्ति । अतः वयं गृहस्य परीक्षणं (check) कर्तुम् इच्छामः” इति । विज्ञप्तिं (विनतिं) श्रुत्वा सुशीलाभगिनी उदतरत्, “अधुना अर्धरात्रौ यदि भवन्तः गृहप्रवेशं कर्तुम् इच्छन्ति, तर्हि प्रतिवेशिजनैः सह भवन्तः गृहप्रवेशं कर्तुं शक्नुवन्ति । अतः प्रतिवेशिनः नीत्वा आगच्छन्तु” इति । एवं करणेन द्वारोद्घाटने विलम्बः भवति । तेन सुखदेवः गृहात् अधिकाधिकं दूरं गन्तुं शक्नोति इति सुशीलाभगिन्याः उद्देशः आसीत् । सा स्वयोजनायां सफला अपि अभवत् । आङ्ग्लाः गृहे किमपि न प्रापन् । परन्तु अनया घटनया सुशीलायाः गृहम् आङ्ग्लानां दृष्टिपथि आगतम् । अतः सा दुर्गया सह लाहोर-नगरं त्यक्त्वा देहली-महानगरम् अगच्छत् ।

क्रान्तेः दुःखान्तः

[सम्पादयतु]

यदा सुशीलाभगिनी देहली-महानगरे निवसति स्म, तदा एकस्मिन् दिने तस्याः गृहे भगत सिंह, बटुकेश्वरः च प्रापेताम् । तौ भारतीयसंसदि विस्फोटं कर्तुं सज्जौ आस्ताम् । भगत सिंह सुशीला-दुर्गयोः पादस्पर्शं कृत्वा आर्शीर्वादम् अयाचत् । सुशीलाभगिनी अवदत्, “भगत ! एतादृशं साहसं मा कुरु, देशस्वतन्त्रायै इतोऽपि तव आवश्यकता अस्ति” इति । परन्तु भगत सिंह इत्यस्य दृढनिर्णयं पश्यन्त्यौ सा, दुर्गा भाभी च तयोः भाले रक्ततिलकम् अस्थापयताम् । संसदि विस्फोटानन्तरं तौ आरक्षकाणां सम्मुखम् आत्मसमर्पणम् अकुरुताम् । ततः तौ लाहोर-नगरस्य एकस्मिन् कारागारे बन्दिनौ आस्ताम् ।

आङ्ग्लानाम् अत्याचारविषये अभियोगमाध्यमेन तौ देशजनान् अवगतान् करिष्यतः इति दलस्य योजना आसीत् । योजनानुसारम् अभियोगमाध्यमेन भगत सिंह, बटुकेश्वर च स्वविचारान् जनसामान्यानां सम्मुखम् उपास्थापयत् । परन्तु अभियोगाय उत्तमस्य वाक्कीलस्य आवश्यकता आसीत् । अतः सुशीलाभगिनी धनसङ्ग्रहस्य कार्यं प्रारभत । श्रेष्ठिनः, देशभक्तान्, जनसामान्यान् च देशस्वतन्त्रतायै जागरूकान् कृत्वा सुशीलाभगिनी तेभ्यः धनं स्वीकरोति स्म । एकस्मिन् सम्मेलने सुभाष चन्द्र बसु जनसामान्यान् सम्बोध्य अवदत्, “सुशीलाभगिन्यै एतावत् धनं ददतु यत्, तस्याः धनकोशे धनं स्थापयितुं स्थानमेव अवशिष्टं न भवेत्” इति । ततः भगत सिंह इत्यस्य कारागारात् मुक्त्यै सा दुर्गया सह महात्मानम् अमिलत् । परन्तु तस्मात् सहायतायां न प्राप्तायां सत्यां निराशे भूत्वा तौ पुनरागते ।

एकस्मिन् दिने न्यायालये अभियोगस्य निर्णयः अभवत् यत्, “भगत सिंह, सुखदेव, राज्यगुरु इत्यादीन् मृत्युदण्डस्य शिक्षा भविष्यति” इति । तेन निर्णयेन दले भयस्य वातावरणम् अभवत् । भगत सिंह इत्यादयः भारतस्वतन्त्रतायै अत्युपयोगिनः आसन् । अतः भगत सिंह इत्यस्य मृत्युदण्डस्य विरोधं कर्तुं दलेन वायसरोय् इत्यस्य हननस्य योजना कृता । परन्तु सा योजना असफला अभवत् । ततः कारागारस्य भित्तिं नाशयित्वा भगत सिंह इत्येषः मुक्तः कर्तव्यः इति दलेन योजना कृता । रावीनद्याः तीरे अग्निगोलकस्य परीक्षणकाले दुर्गायाः पत्युः भगवतीचरणस्य मृत्युः अभवत् । भगवतीचरणः सुशीलाभगिन्याः भ्रातृकल्पः (भ्रातृवत्) आसीत् । तस्य मृत्योः समाचारं श्रुत्वा सुशीलाभगिन्याः मनोबलं नष्टम् अभवत् । परन्तु दुर्गायाः विषये चिन्तयन्ती सा स्वमनः दृढम् अकरोत् । देहली-महानगरे यदा भगवतीचरणः वीरगतिं प्रापत्, तदा दुर्गा भाभी लाहोर-नगरे आसीत् । सुशीलाभगिनी तां भगवतीचरणस्य मृत्योः समाचारम् अयच्छत् । पत्युः मृत्योः समाचारं श्रुत्वा दुर्गायाः जीवनम् अन्धकारमयम् अभवत् । तस्मिन् समये सुशीलाभगिनी तस्यै सान्त्वनाम् अयच्छत् । तां नीत्वा सा देहली-महानगरम् अगच्छत् । ततः तयोः महिलयोः जीवने नैकानि दुःखानि सम्प्राप्तानि ।

१९३१ तमस्य वर्षस्य 'फरवरी'-मासस्य सप्तविंशतितमे (२७/२/१९३१) दिनाङ्के इलाहाबाद-महानगरस्य आल्फ्रेड्-उद्याने आङ्ग्ल-आरक्षकैः सह युद्धं कुर्वन् चन्द्रशेखरः वीरगतिं प्रापत् । तेन सन्देशेन दुर्गायाः मनोबलस्योपरि कुठाराघातः कृतः । एकमासानन्तरम् अर्थात् १९३१ तमस्य वर्षस्य 'मार्च'-मासस्य त्रयोविंशतितमे (२३/३/१९३१) दिनाङ्के क्रूराः आङ्ग्लाः भगत सिंह, सुखदेव, राजगुरु इत्येषां कारागारे एव हननम् अकुर्वन् । एवं सुशीलायाः दलस्य सर्वे सदस्याः ताम् एकाकिनीं त्यक्त्वा अगच्छन् । केवलं दुर्गा भाभी तया सह आसीत् । ते निःसहाये महिले स्तः इति पश्यन् कॉङ्ग्रेस्-पक्षस्य पुरुषोत्तम टण्डन इत्याख्यः नेता तयोः साहाय्यार्थम् उद्युक्तः । परन्तु सुशीलाभगिनी तं स्पष्टम् अवदत्, “त्वं तु कॉङ्ग्रेस्-पक्षस्य नेता, आवां तु सशस्त्रक्रान्त्याः योद्धारौ स्वः । आवयोः साहाय्यं करिष्यसि चेत्, तव पक्षस्य नेतारः त्वत् खिन्नाः भविष्यन्ति” इति । देशभक्तः टण्डन अवदत्, “तेषां चिन्तां भवती मा करोतु । भवती अत्र सुखेन निवसतु” इति । ततः टण्डन इत्ययं स्वपत्नीम् अवदत्, “यथा आवयोः पुत्र्यः सन्ति, तथैव एते आवयोः पुत्र्यौ स्तः । अतः एतयोः पालनम् आवयोः दायित्वम् अस्ति” इति ।

देशस्वतन्त्रतायाः उद्देश्यस्य पूर्त्यै ततः परं तया अहिंसकान्दोनेषु योगदानं प्रारब्धम् । कॉङ्ग्रेस्-पक्षस्य एकस्यां पदयात्रायां महिलानां नेतृत्वे कृते सति आङ्ग्लाः तां कारागारं प्रैषयन् । कारागारे एकेन अधिकारिणा तस्याः नामनि पृष्टे सति सा इन्दु इति अवदत् । यतो हि सॉण्डर्स् इत्यादीनां हननस्य सा आरोपिणी आसीत् । षण्मासाः तया कारागारे यापिताः । यावत् सा कारागारात् बहिः न गता, तावत् न केनापि ज्ञातं यत्, सा एव सुशीलाभगिनी इति । ततः १९१७ तमे वर्षे महिलाधिकारान्दोलने सा भागम् अवहत् ।

विवाहः मृत्युः च

[सम्पादयतु]

कानिचन वर्षाणि क्रान्तिप्रवृत्तिं कृत्वा सा स्वजन्मस्थानं दन्तोचूहड-ग्रामम् अगच्छत् । तत्र तस्याः पिता तस्याः विवाहम् अकारयत् । तस्याः पतिः श्याममोहनः प्रतिष्ठितः वाक्कीलः आसीत् । सः अपि राष्ट्रस्वतन्त्रातायां सक्रियः आसीत् । तयोः सल्लग्नपरिश्रमेण १९३४ तमे वर्षे महिलाशिल्पविद्यालयस्य स्थापना अभवत् । ततः सुशीलाभगिनी स्वसम्पूर्णं जीवनं भारतस्य भविष्यनिर्माणाय समार्पयत् । १९६५ तमस्य वर्षस्य 'जनवरी'-मासस्य त्रयोदशे (१३/१/१९६५) दिनाङ्के स्वजन्मस्थाने पञ्जाबराज्यस्य दन्तोचूहड-ग्रामे तस्याः मृत्युः अभवत् ।

सम्बन्धाः लेखाः

[सम्पादयतु]

भगवतीचरणः

दुर्गा भाभी

चन्द्रशेखर आजाद

भगत सिंह

सुखदेवः

राजगुरुः

सरोजिनी नायुडु

"https://sa.wikipedia.org/w/index.php?title=सुशीला_दीदी&oldid=364735" इत्यस्माद् प्रतिप्राप्तम्