सरोजिनी नायुडु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Sarojini Naidu
सरोजिनी नायुडु
Sarojini Naidu in Bombay 1946.jpg
भारतस्य आत्मा
जन्म १३/२/१८७९
हैदराबाद-महानगरम्, आन्ध्रप्रदेशराज्यम्
मृत्युः २/३/१९४९ (७० वयसि)
लखनऊ-महानगरम्, उत्तरप्रदेशराज्यम्
अन्यानि नामानि भारतस्य 'बुलबुल'
शिक्षणम् किङ्गस् महाविद्यालयः – लण्डन-महानगरं
(१८९५-१८९८), मद्रासविश्वविद्यालयः,
गिर्टोन् महाविद्यालयः – केम्ब्रिज्,
एडिन्बरो विश्विद्यालयः
कृते प्रसिद्धः कवयित्री, स्वातन्त्र्यक्रान्तिकारिणी
भार्या(ः) डा. मुत्याल गोविन्द राजुलु नायुडु
अपत्यानि जयसूर्य, पद्मजा, रणधीर,
नीलवर, लीलामणी
पुरस्काराः १९२८ हिन्द-केसरी-पदकम्
(hind a kesari medal)
विशेषम्
भारतीयराज्येषु राज्यपालत्वेन प्रप्रथमा महिला,
भारतीय-राष्ट्रिय-क्रोङ्गेस-पक्षस्य प्रथमा महिला अध्यक्षः,

सरोजिनी नायुडु ( /ˈʃərɪn nɑːjədʊ/) (तेलुगु: సరోజినీ నాయుడు, आङ्ग्ल: Sarojini Naidu) स्वातन्त्र्यसङ्ग्रामस्य क्रान्तिकारिषु चतुरक्रान्तिकारित्वेन परिगण्यते । तस्याः कार्याणि भारतस्य स्तन्त्रतायां महत्वपूर्णानि आसन् । तस्याः अविरतप्रयासेनैव स्वतन्त्रतान्दोलने महिलानां योगदानम् अवर्धत । सा स्त्रीसशक्तीकरणाय आजीवनं कार्यमकरोत् । महात्मनः प्रेरितेषु अधिकतम-आन्दोलनेषु तस्याः महत्वपूर्णं योगदानमासीत् । तस्याः बुद्धिमत्तायाः कारणेनैव आङ्ग्लानां भारतविरोधीनि बहूनि कार्याणि निष्फलानि अभवन् ।

जन्म, परिवारश्च[सम्पादयतु]

१८७९ तमस्य वर्षस्य 'फरवरी'-मासस्य त्रयोदशे (१३/२/१८७९) दिनाङ्के आन्ध्रप्रदेशराज्यस्य हैदराबाद-महानगरे (ब्रिटिश-कालीने हैदराबाद-राज्ये) सरोजिनी नायुडु इत्यस्याः जन्म अभवत् । तस्याः पितुः नाम अघोरनाथ चट्टोपाध्याय आसीत् । तस्याः मातुः नाम वरदसुन्दरी आसीत् । तस्याः पिता मूलतः वङ्गप्रदेशीयः आसीत् । सः हैदराबाद-महानगरस्य निज़ाम-महाविद्यालये विज्ञानविषयं पाठयति स्म । विज्ञानविषयस्य प्राध्यापके सत्यपि सः भारतीयसंस्कृतेः ज्ञाता आसीत् । तस्याः माता वरदसुन्दरी महाविदुषी आसीत् । सा वङ्गभाषायाम् अनेकानि गीतानि अलिखत् । पितुः बुद्धेः, मातुः प्रतिभायाः च मेलनं सरोजिन्याम् आसीत् ।

सरोजिन्याः पत्युः नाम डा. मुत्याल गोविन्द राजुलु नायुडु आसीत् । तयोः पञ्च सन्तानाः आसन् । तेषां नामानि क्रमेण जयसूर्य, पद्मजा, रणधीर, नीलवर, लीलामणी ।

बाल्यं, शिक्षणम्[सम्पादयतु]

सरोजिन्याः बाल्यं हैदराबाद-महानगरे एव व्यतीतम् । बाल्यकालादेव सरोजिनी अतिमेधाविनी, चतुरा च आसीत् । अतः पितुः इच्छा आसीत् यत्, “मम पुत्री वैज्ञानिकः गणितज्ञा वा भवेत्” इति । परन्तु सरोजिन्याः रुचिः साहित्ये आसीत् । एकदा गणितस्य गणनायाः उपरि तया काव्यं रचयित्वा स्वरुच्याः परिचयः प्रदत्तः । मद्रासविश्वविद्यालयात् तया 'मेट्रिक्'-इत्यस्य अध्ययनं समापितम् ।

सरोजिन्यां रचनात्मकप्रतिभा ईश्वरेण जन्मकाले एव प्रदत्ता आसीत् । त्रयोदशे वयसि तया १३०० पङ्क्तीनां काव्यं रचितम् । तस्य काव्यस्य नाम ‘द लेडी ऑफ् द लेक्’ आसीत् । तत् काव्यं बहुप्रसिद्धम् अभवत् । ततः फारसी-भाषायां सा एकं नाटकम् अरचयत् । तस्य नाटकस्य नाम ‘मेहर मुनीर’ आसीत् । पिता अघोरनाथः पुत्र्याः नाटकं निज़ाम इत्येनं प्रादर्शयत् । सरोजिन्याः प्रतिभया सः अपि प्रभावितः अभवत् । सः अघोरनाथम् असूचयत्, “एतस्याः सम्पूर्णः अभ्यासः छात्रवृत्त्या भविष्यति । अतः त्वम् एनां पठितुं विदेशं प्रेषस्व” इति ।

उच्चशिक्षा, विवाहश्च[सम्पादयतु]

सरोजिनी यदा षोडशवर्षीया आसीत्, तदा सा इङ्ग्लैण्ड-देशम् अगच्छत् । तत्र वर्षत्रयं यावत् सा अभ्यासम् अकरोत् । किङ्ग्स् महाविद्यालयस्य एड्मण्ड् गॉस्, आर्थर् सैमन् इत्येताभ्यां विद्वद्भ्यां सह सम्पर्कत्वात् तस्यां कवित्वशक्त्याः वर्धनम् अभवत् । इङ्ग्लैण्ड-देशे यदा सरोजिनी अध्ययनं करोति स्म, तदा सा डा. मुत्याल गोविन्द राजुलु नायुडु-नामकस्य युवकस्य सम्पर्के आसीत् । सः तस्याः सहपाठी आसीत् । वर्षत्रयं यावत् उभौ सहाभ्यासमेव अकुरुताम् । अध्ययनं समाप्य यदा तौ भारतं सम्प्राप्तौ, तदा तौ विवाहस्य निश्चयम् अकुरुताम् । ततः मासत्रये तु तयोः विवाहः अपि अभवत् ।

वैयक्तिकजीवनम्[सम्पादयतु]

सरोजिनी बुद्धि-प्रतिभयोः स्वामिनी आसीत् । तस्याः व्यक्तित्वम् अत्याकर्षकं, स्वभावश्च विनोदी आसीत् । महात्मना, लोहपुरुषेण च सह सा विनोदेन भाषणं करोति स्म । सा लोहपुरुषं “बोरडोली-मण्डलस्य वृषभः (बोरडोली का बैल)” इति निर्दिशति स्म । एकदा कारागारयात्रानन्तरं सा महात्मनः गृहम् अगच्छत् । महात्मा ताम् अपृच्छत्, “कारागारे भवत्याः केशाः अधिकाः श्वेताः अभवन् खलु ?” महात्मनः प्रश्नस्य सरोजिनी स्वविनोदस्वभावानुसारम् उत्तरम् अयच्छत्, “मम केशानां श्वेतीभवनस्य पृष्ठे कारागारस्य दोषः न अपि तु तव दोषः एव । त्वं बहूपवासान् कुर्वन् आसीत्, अतः अहं चिन्तियामि स्म यत्, महात्मनः एषः उपवासः अन्तिमस्तु नास्ति खलु । एतादृशैः विचारैः चिन्ताग्रस्ता अहं श्वेतकेशस्य स्वामिनी अभवम्” इति । तस्याः उत्तरं श्रुत्वा उपस्थिताः सर्वे अट्टहास्यम् अकुर्वन् ।

सा अनेकानां भाषाणां विदुषी अपि आसीत् । वङ्गभाषा, तेलुगुभाषा, हिन्दीभाषा, मराठीभाषा, तमिळभाषा, आङ्ग्लभाषा च तासु मुख्याः भाषाः । गर्भकवयित्री सा अनेकाः कविताः अलिखत् । महात्मा तां 'भारतस्य बुलबुल' कथयति स्म । 'नैटिङ्गेल् ऑफ् इण्डिया' (Nightingale of India) इत्युपाधिना सा प्रसिद्धा आसीत् । तस्याः कवितायाः विषये रवीन्द्रनाथः अलिखत्, “सरोजिन्याः रचनायाः गहनता, भावश्च मयि सरोजिनीं प्रति ईर्ष्यां जनयतः” इति ।

प्रसिद्धे कविते[सम्पादयतु]

To The God Of Pain[सम्पादयतु]

Unwilling priestess in thy cruel fane,
Long hast thou held me, pitiless god of Pain,
Bound to thy worship by reluctant vows,
My tired breast girt with suffering, and my brows
Anointed with perpetual weariness.
Long have I borne thy service, through the stress
Of rigorous years, sad days and slumberless nights,
Performing thine inexorable rites.
For thy dark altars, balm nor milk nor rice,
But mine own soul thou’st ta’en for sacrifice:
All the rich honey of my youth’s desire,
And all the sweet oils from my crushed life drawn,
And all my flower-like dreams and gem-like fire
Of hopes up-leaping like the light of dawn.
I have no more to give, all that was mine
Is laid, a wrested tribute, at thy shrine;
Let me depart, for my whole soul is wrung,
And all my cheerless orisons are sung;
Let me depart, with faint limbs let me creep
To some dim shade and sink me down to sleep.

                                                       - Sarojini Naidu

Village Song[सम्पादयतु]

HONEY, child, honey, child, whither are you going?
Would you cast your jewels all to the breezes blowing?
Would you leave the mother who on golden grain has fed you?
Would you grieve the lover who is riding forth to wed you?

Mother mine, to the wild forest I am going,
Where upon the champa boughs the champa buds are blowing;
To the köil-haunted river-isles where lotus lilies glisten,
The voices of the fairy folk are calling me: O listen!

Honey, child, honey, child, the world is full of pleasure,
Of bridal-songs and cradle-songs and sandal-scented leisure.
Your bridal robes are in the loom, silver and saffron glowing,
Your bridal cakes are on the hearth: O whither are you going?

The bridal-songs and cradle-songs have cadences of sorrow,
The laughter of the sun to-day, the wind of death to-morrow.
Far sweeter sound the forest-notes where forest-streams are falling;
O mother mine, I cannot stay, the fairy-folk are calling.

                                                         - Sarojini Naidu

भारतीयस्वतन्त्रतान्दोलने योगदानम्[सम्पादयतु]

सरोजिनी कवित्वशक्त्या परिपूर्णा आसीत् । सा बहूनि प्रसिद्धकाव्यानि अलिखत् । परन्तु भारतमातुः सेवायै जन्मधृता सा भारतमातरं प्रति स्वकर्तव्यस्य पालनमपि अकरोत् । गोपालकृष्ण गोखले ताम् अकथयत्, “तव काव्यशक्तिः तु अमोघा अस्ति । परन्तु अधुना तव प्रतिभायाः आवश्यकता मातृभूम्यै अस्ति । त्वं स्वतन्त्रतान्दोलने स्वयोदानं यच्छस्व” इति । अतः सरोजिनी स्वतन्त्रतान्दोलने कार्यं प्रारभत ।

१९१६ तमे वर्षे लखनऊ-महानगरे कॉङ्ग्रेस्-पक्षस्य राष्ट्रियाधिवेशनम् आसीत् । तस्मिन् अधिवेशने सरोजिनी भागम् अवहत् । तस्याः भाषणेन पक्षस्य सदस्याः बहुप्रभाविताः अभवन् । कालान्तरे तस्याः सम्पर्कः महात्मना सह अपि अभवत् । ततः सा भारतीयस्वतन्त्रताक्रान्तिकारिषु अतिवरिष्ठक्रान्तिकारित्वेन स्थानं प्रापत् । सा आभरतं भ्रमणं प्रारभत । भिन्नेषु स्थानेषु सा भाषणं करोति स्म । तस्याः वाक्चातुर्येण जनाः देशसेवायै प्रेरिताः अभवन् । महिला-मताधिकार-आन्दोलनेऽपि तस्याः मुख्यभूमिका आसीत् ।

१९१८ तमे वर्षे होम् रूल् आन्दोलनस्य प्रतिनिधित्वेन सा लण्डन-महानगरम् अगच्छत् । तत्र सा उग्रभाषणम् अकरोत् । १९१९ तमे वर्षे जलियावाला-हत्याकाण्डस्य विरोधे तया आङ्ग्लसर्वकारस्योपरि अतितीक्ष्णाः वाग्प्रहाराः कृताः । सा वर्षत्रयं यावत् विदेशे स्थित्वा आङ्ग्लानां विरोधम् अकरोत् । ततः १९२१ तमे वर्षे सरोजिनी यदा भारतम् अगच्छत्, तदा महात्मना प्रेरितम् असहयोगान्दोलनम् आभारते चलदासीत् । सरोजिनी तस्य आन्दोलनस्य महत्वपूर्णानि कार्याणि स्वदायित्वेन स्व्यकरोत् । १९२२ तमे वर्षे कारागारगमनकाले महात्मा सरोजिनीम् अवदत्, “भारतस्य भविष्यं तव हस्ते दत्त्वा गच्छन् अस्मि” इति ।

१९२५ तमे वर्षे कानपुर-महानगरस्य कोङ्ग्रेस-पक्षस्य राष्ट्रिय-अधिवेशने सदस्यैः सा अध्यक्षत्वेन चिता । तस्मिन् अधिवेशने सा अवदत्, “भारतमाता स्वगृहस्य स्वामिनी भवेत् । सर्वेषां भारतीयानां हृदये एकतायाः भावः उत्पातव्यः इति भारतमातुः पुत्रीत्वेन मम दायित्वमस्ति । अनावश्यकानाम् अन्तःकलहानां निराकरणं मम दायित्वं वर्तते” इति । १९२८ तमे वर्षे सरोजिनी अमेरिका-देशम् अगच्छत् । सा तत्र 'गान्धी'-विचाराणां प्रसारं, महिला-उत्थान-कार्यक्रमान् च अकरोत् ।

१९३० तमे वर्षे यदा महात्मा लवणसत्याग्रहं प्रारभत, तदा सरोजिनी तस्य साहाय्यम् अकरोत् । दाण्डि-यात्रायाः समये सरोजिनी महात्मना सह एव आसीत् । १९३० तमस्य वर्षस्य ‘मई’-मासस्य त्रयोविंशतितमे (२३/५/१९३०) दिनाङ्के धरासणा-केन्द्रात् महात्मानम् आङ्ग्लाः कारागारं प्रैषयन् । ततः तस्य केन्द्रस्य दायित्वं सरोजिन्याः एव आसीत् । १९३१ तमे वर्षे सरोजिनी गोळमेजी-परिषदि भागम् ओढुं लण्डन-महानगरम् अगच्छत् । तया सह महात्मा, मदन मोहन मालवीय अपि आसीत् । तत्र आङ्ग्लाः सरोजिन्याः विषये अभद्रशब्दानाम् उपयोगम् अकुर्वन् । तेषाम् आक्षेपाणाम् उत्तरत्वेन सरोजिनी अवदत्, “अहं गोळमेजी-परिषदि उपस्थिता अस्मि, एतस्य मुख्यकारणं मम ज्येष्ठानाम् आदेशः अस्ति । ते पाश्चात्यजनानां विश्वासं न कुर्वन्ति । पाश्चात्यानां कूटनीतिं ते अवगच्छन्ति । पाश्चात्यानां कूटनीतेः उत्तरं दातुं ते मम अत्र आगमनस्य आदेशम् अयच्छन् । अतः अहमत्र उपस्थिता” इति ।

१९३६-३७ वर्षे प्रान्तियराज्येषु स्वराज्यस्य निर्वाचनम् आसीत् । आभारतम् अटित्वा सरोजिनी निर्वाचनस्य, मतस्य च माहात्म्यं भारतीयनागरिकान् अबोधयत् । १९४२ तमे वर्षे महात्मना त्यजतु भारतम् आन्दोलनस्य घोषणा कृता आसीत् । सः 'करो या मरो' सूत्रम् अपि अयच्छत् । सरोजिनी तस्मिन् आन्दोलने सक्रिया आसीत् । जनेषु आन्दोलनस्य प्रचारः तस्याः दायित्वम् आसीत् । भीताः आङ्ग्लाः अन्यनेताभिस्सह सरोजिनीम् अपि कारागारं प्रैषयन् । यद्यपि सा अस्वस्था आसीत्, तथापि सा वर्षद्वयं यावत् कारागारे एव न्यवसत् । परन्तु आङ्ग्लैः अनुभूतं यत्, तस्याः मृत्युः भवितुम् अर्हतीति । ततः भीताः आङ्ग्लाः तां कारागारात् मुक्ताम् अकुर्वन् । परन्तु तस्याः गृहस्योपरि सर्वदा आङ्ग्लगुप्तचराणां दृष्टिः भवति स्म ।

१९४६ तमे वर्षे नेहरु इत्यस्य नेतृत्वे कोङ्ग्रेस-पक्षस्य सर्वकारस्य रचना अभवत् । तस्य सर्वकारस्य कार्यकाले एशिया-खण्डस्य सर्वेषां देशानां प्रतिनिधिसभायाः आयोजनं देहली-महानगरे अभवत् । तस्याः सभायाः अध्यक्षपदं नेहरु सरोजिन्यै अयच्छत् । तस्यां सभायां सा अवदत्, “एशियाखण्डस्य सर्वेदेशाः परस्परं प्रेमपूर्वकं व्यवहारं कुर्युः । तेन विश्वस्मिन् सुख-शान्ति-विकासानां स्थितिः उद्भविष्यति” इति ।

राज्यपालत्वेन सरोजिनी[सम्पादयतु]

भारतस्वतन्त्रतानन्तरं नेहरु-सञ्चालिते सर्वकारे सरोजिनी उत्तरप्रदेशराज्यस्य राज्यपालः आसीत् । भारते प्रप्रथम-महिला-राज्यपालस्य श्रेयः तस्याः एव अस्ति । राज्यपालत्वेन सा स्त्रीभ्यः बहूनि कार्याणि अकरोत्, यथा – स्त्रीशिक्षणं, निरक्षरतानिवारणं, स्त्रीमताधिकारः, समानता, 'पडदा'-प्रथानिरस्तनं, वरदक्षिणानिरस्तनम् इत्यादीनि ।

मृत्युः[सम्पादयतु]

१९४९ तमस्य वर्षस्य 'मार्च'-मासस्य द्वितीये (२/३/१९४९) दिनाङ्के बहुमुखिप्रतिभायाः स्वामिनी सरोजिनी नायुडु देहत्यागम् अकरोत् । तस्याः निधनं यदा अभवत्, तदा उत्तरप्रदेशस्य राज्यपालत्वेन सा कार्यरता आसीत् । राजनैतिक-सामाजिक-सांस्कृतिक-साहित्यिक-क्षेत्रेषु निष्ठया स्वदायित्वस्य वहनं कृतवती सरोजिनी अधुना अस्मत्सु नास्ति । परन्तु तस्याः कार्येषु अद्यापि वयं मार्गदर्शनम् अन्विषामः । तस्याः किवताः अद्यापि अमराः सन्ति । तया स्वीकृतानां निर्णयानां फलस्य अद्य वयम् उपभोगं कुर्वन्तः स्मः । अस्माभिः अपि भारतस्य संस्कृत्याः रक्षणाय कार्यं करणीयमेव ।

बाह्यानुबन्धः[सम्पादयतु]

http://www.iloveindia.com/indian-heroes/sarojini-naidu.html

http://www.thefamouspeople.com/profiles/sarojini-naidu-36.php

http://www.culturalindia.net/leaders/sarojini-naidu.html

http://www.poetseers.org/the-great-poets/indian-poets/sarojini-naidu-poems/village-song/index.html

http://www.poetseers.org/the-great-poets/indian-poets/sarojini-naidu-poems/to-the-god-of-pain/index.html

http://www.poetseers.org/the-great-poets/indian-poets/sarojini-naidu/

http://www.mapsofindia.com/who-is-who/government-politics/sarojini-naidu.html


"https://sa.wikipedia.org/w/index.php?title=सरोजिनी_नायुडु&oldid=318103" इत्यस्माद् पुनः प्राप्तिः