सामग्री पर जाएँ

सेम पित्रोडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सॅम पित्रोडा (हिन्दी: सॅम पित्रोडा, आङ्ग्ल: same pitroda )  इत्ययं भारतस्य गौरवरूपः अस्ति साम्प्रतं जनेभ्यः दूरभाषयन्त्रस्य, जङ्गमदूरभाषयन्त्रस्य च यद् सम्पर्कसूत्रम् अस्ति तद् चत्वारिंशत्वर्षेभ्यः प्राग् भारते दुर्लभम् आसीत् । ग्रामेषु यन्त्रमिदं क्रीडनकमिव आसीत् । अतः इदं पोस्ट्-कार्यालये वा पञ्चायत-कार्यालये एव दृग्गोचरं भवति स्म । सन्देशपत्रान्तरदेशीयपत्रयोः लेखनयुगे झटिति सन्देशं प्रेषितुं सन्देशकार्यालयात् एव ‘तार’-सेवा उपलब्धा आसीत् । किन्तु सेवादोषवशात् सम्पर्ककार्याय बहुघण्टाः व्यतीताः भवन्ति स्म । अतः दूरभाषयन्त्रसेवायै प्रहसन्तः जनाः अहमदाबाद-नगरात् राजकोट-नगरं गत्वा आगमिष्यमः तथापि सम्पर्कः न भविष्यतीति कटाक्षम् आचर्यन्त । समाचारपत्रेषु अपि दूरभाषयन्त्रसेवायाः दोषाः प्रकटिताः अभवन् । किन्तु १९९० तमे वर्षे भारते सञ्चारक्रान्तेः उदयः जातः । ग्रामेषु पीतवर्णयुक्तस्य दूरभाषयन्त्रस्य सेवायाः प्रारम्भः अभवत् । जनानां सम्पर्कं साधयितुम् आसक्तिवशात् दूरभाषयन्त्रस्य सेवास्थाने पङ्क्तिः भवति स्म । सुखसमृद्धेः प्रतीकरूपं दूरभाषयन्त्रं सामान्यजनानां गृहम् आलङ्करोत् तस्य श्रेयः सॅम पित्रोडा इत्यस्मै देयः । यदि अयं न स्याच्चेत् दूरभाषक्षेत्रे वयं साम्प्रतमपि अन्ध इव स्यामः । अतः अस्माभिः किमपि नावीन्यकरणे एतस्य जीवनात् प्रेरणा ग्राह्या ।

जन्म परिवारश्च

[सम्पादयतु]

सॅम पित्रोडा इत्यस्य मूलनाम तु सत्यनारायण गङ्गाराम पित्रोडा इति । अयं मूलतः गुजरातराज्यस्य सुरेन्द्रनगरमण्डलस्य हळवद-उपमण्डलस्य टिकर-ग्रामवासी आसीत् । किन्तु तस्य जन्म ओरिस्सा-राज्यस्य टिटलागढ-ग्रामे १९४२ तमस्य वर्षस्य नवम्बर-मासस्य षोडशे (१६) दिनाङ्के अभवत् । अमेरिका-देशस्य जनैः तस्य नाम्नः लघुनाम सॅम इति दत्तम् । तस्य पिता लोहकार(blacksmith)जातेः आसीत् । सः कार्यम् अन्विषन् गुजरातराज्यं त्यक्त्वा ओरिस्साराज्यं गतः । कार्याय एकस्मात् प्रदेशात् अन्यप्रदेशं गत्वा धनार्जनाय निवासस्तु गुर्जरजनानां सहजगुणः । मुम्बई, कोलकाता, मद्रास, दिल्ली, बेङ्गलोर इत्यादिषु सर्वेषु महानगरेषु गुर्जरजनाः धनार्जनाय एव स्थायिनः अभवन् । गुर्जरजनाः यत्र कुत्रापि वसेयुः, गुजरातराज्यं न विस्मरन्ति । तथैव ओरिस्साराज्यस्थौ पितरौ सरदारमहात्मनोः उपरि श्रद्धावशात् पुत्रम् आणन्द-नगरस्य समीपस्थं वल्लभ-विद्यानगरं प्रैषयताम् ।

शिक्षणम्

[सम्पादयतु]

गुजरातराज्ये वल्लभ-विद्यानगरं साम्प्रतं यावद् प्रसिद्धमस्ति, तावत् तदानीन्तने काले नासीत् । १९५० तमे वर्षे सॅम इत्यस्य प्राथमिकम् अध्ययनं शारदामन्दिरनामिकायां शालायाम् आरब्धम् । पितरौ ओरिस्साराज्ये निवसतः अतः सॅम इत्ययं विद्यानगरस्य छात्रालये न्यवसत् । तत्र प्रत्येकस्मिन् प्रकोष्ठे चत्वारः छात्राः निवासं कृत्वा अभ्यासम् अकुर्वन्त । तदानीं छात्रालयजीवनम् आरामदायकं नासीत् । महात्मनः नूतनशिक्षणपद्धत्या, सर्वोदयविचाराणां च अधः छात्रालयाः प्रचलन्ति स्म । अतः सर्वैः प्रातः जागरणम्, स्ववस्त्रप्रक्षालनम् इत्यादिनियमानां पालनं दुष्करम् आसीत् । किन्तु सॅम इत्यस्य सरलजीवनपद्धत्या तस्य कृते इदं सर्वं दुष्करं नासीत् । तस्य सरलजीवनपद्धत्या समूहभावनया च गुणानां विकासस्य आरम्भः छात्रालयात् जातः । विद्यानगरे इन्दुबेननामिका एका शिक्षिका आसीत् । सा सॅम इत्यस्य प्रेरणा अभवत् । सा सॅम इत्येनं स्वपुत्रमिव पालयति स्म । सॅम इत्ययम् अपि इन्दुबेन इत्यस्यै दुःखं भवेत् तादृशं न आचरति स्म । तत्र एकः भौगोलिकशास्त्रस्य शिक्षकः आसीत् । तस्य पाठनशैली अतीव भिन्ना आसीत् । शिक्षकः भौगोलिकभावचित्रं दर्शयित्वा यत्र अक्षतानाम् उत्पत्तिर्भवति तत्र अक्षतं टङ्कयति । यत्र गोधूमस्य उत्पादनं भवति तत्र गोधूमं टङ्कयति । अतः तस्य कक्षायां पठने सर्वेषां रुचिः आसीत् । सॅम इत्यस्य शालायां प्रथमक्रमः न आगच्छति स्म तथापि तस्य गणना निपुणछात्रेषु भवति स्म ।

उच्चशिक्षणम्

[सम्पादयतु]

इत्थं प्राथमिक-तः उच्चमाध्यमिकं यावत् वल्ल्भ-विद्यानगरे अभ्यासं कृत्वा स्नातकाभ्यासाय वडोदरा-नगरस्य महाराजा सयाजीराव विश्वविद्यालयम् अगच्छत् । तत्र तस्य बहुमुखिप्रतिभायाः विकासः अभवत् । स्वस्य उन्नतिः भवेत् इति विचारेण, आकाङ्क्षया च सः शयने कालं न अयात् । सः अतीव प्रवृत्तः आसीत् । मात्रपञ्चघण्टां यावदेव शयनं करोति स्म । विद्यालयस्य पठनेतरप्रवृत्तिषु अपि सः भागं गृह्णाति स्म । नाटकं, चित्रं, प्रश्नोत्तरम् इत्यादिविषयाः तस्मै रुचिकराः आसन् । सॅम इत्ययं यदा भौतिकशास्त्रे एम्.एस्.सी. कृतवान्, तदा आई.आई.टी. इत्युक्ते किं, तस्य अभ्यासक्रमः कीदृशः भवति इत्यपि न जानाति स्म इति तेन विना दम्भेन उक्तम् । इत्थं सॅम इत्यस्य स्नातकाभ्यासः समाप्तः ।

परदेशगमनम्

[सम्पादयतु]

तस्य भ्राता स्नातकः नासीत् वा भवितुम् अवसरः न प्रापत् । किन्तु सॅम इत्येनम् अमेरिका-देशं प्रेषितुं बहुपरिश्रमम् अकरोत् । सॅम इत्ययम् अमेरिका-देशम् अगच्छत्, अतः पठित्वा उन्नतिं प्राप्स्यतीति सर्वेषां मनीषा आसीत् । १९६४ तमे वर्षे सॅम इत्ययं ४०० डॉलर धनेन सह अमेरिका-देशं प्रापत् । तस्य काले अमेरिका-देशः स्वप्नसार्थककर्त्री भूमिः आसीत् । वस्त्रेण सह गताः जनाः तत्र ’स्वामी’ भूत्वा प्रत्यागताः । सॅम इत्ययम् अमेरिका-देशं गत्वा प्रप्रथमं शिकागो इत्यस्य iIlinois Institute of Technology तः विद्युत्तन्त्रज्ञ(Electronic Engineering)पदवीं प्राप्य जी.टी.ई. नामनि टेलिकम्युनिकेशन् संस्थायां कार्यम् आरब्धवान् । ततः सॅम इत्यस्य कार्यकालः आरब्धः अतः सः स्वपरिवारम् अमेरिका-देशम् अनयत् । सॅम इत्ययं नित्यचिन्तनरतत्वात् साफल्यं प्राप्य, कार्यकाले एव स्वपरिश्रमेण विंशत्यधिकानि आवेदनानि स्वीकृत्य धनम् अर्जितवान् । १९७४ तमे वर्षे अमेरिका-देशे तस्य मित्रसङ्ख्यायाम् आधिक्यम् अभवत् । तैः सह मिलित्वा वेस्कों स्विचिङ्ग् इन्कोर्पोरेटेड् संस्थां स्थाप्य पञ्चवर्षान्ते विक्रीय सॅम इत्ययं खर्वपतिः (मिलियनेर्) अभवत् । मात्र ४०० डॉलर धनं नीत्वा विदेशगन्ता सॅम इत्ययं १५ वर्षाणि तत्र स्थित्वा अपठत् । सः अमेरिका-देशे सफलव्यक्तित्वेन विख्यातः अभवत् । तथापि तस्य हृदि आनन्दः नासीत् ।

सॅम इत्यस्य भारते आगमनम्

[सम्पादयतु]

१९८२ तमे वर्षे सॅम इत्ययं भारतम् आगतः । तदानीं तेन शिकागो-नगरे सम्पर्कं साधयितुं दूरभाषयन्त्रस्य प्रयोगः कृतः । हेलो… हेलो… इति भाषित्वा तेन दूरभाषयन्त्रं स्थापितम् । अनेन प्रसङ्गेन तेन भारतस्य सञ्चारक्रान्तिसुधारणे विचारः कृतः । तदानीं भारतस्य जनसङ्ख्या ७५ कोटिः आसीत्, दूरभाषयन्त्रसङ्ख्या तु २० सहस्रम् एव आसीत् । भारतस्य सम्पर्कक्रान्तिक्षेत्रे परिवर्तनस्य वाहकत्वेन दूरभाषयन्त्रमेव आमनन्ति स्म किन्तु तस्मिन् कीदृक् परिवर्तनम् कर्तव्यम् इति विचारः केनापि न क्रियते स्म । यथा विद्युत्स्तम्भाः भवन्ति तथैव सर्वत्र दूरभाषयन्त्रस्य स्तम्भाः अपि आसन् । सॅम इत्ययं प्रधानमन्त्रिणम् इन्दिरा गान्धी इत्येतां मिलित्वा स्वपरिचयं दत्त्वा तां वैचित्र्ययुतां प्रणालीं परिवर्तितुम् अकथयत् । परिवर्तनाय वर्षत्रयस्य समयं, निश्चितधनव्ययं, १ रूप्यकं वार्षिकवेतनं च अयाचत । तदानीम् इन्दिरा गान्धी इत्यस्याः ज्येष्ठपुत्रः राजीव गान्धी सॅम इत्यस्य उत्साहं दृष्ट्वा प्रसन्नः सन् अयं किमपि परिवर्तनम् आनेष्यति इति अविचारयत् । इत्थं सॅम इत्यनेन सर्वकारस्य मनसि आत्मनः प्रभावः स्थापितः । तस्य आशयः धनार्जनस्य न अपि तु सेवायाः आसीदिति स्पष्टं ज्ञायते । किन्तु कस्यापि मधुरां वार्तां श्रुत्वा निर्णयः न कार्यः इति विचिन्त्य इन्दिरा गान्धी इत्यनया सॅम इत्यस्य कार्यज्ञानयोः विषये ज्ञातुम् एकादशजनानां समूहः अमेरिका-देशं प्रेषितः । ततः परम् इन्दिरा गान्धी सॅम इत्येनं देशकार्याय निमन्त्र्य सञ्चारक्रान्तौ आमूलपरिवर्तनं कर्तुम् आदिष्टवती ।

सॅम इत्यस्य स्वदेशसेवायाः आरम्भः

[सम्पादयतु]

प्रायः जनाः अमेरिका-देशं गत्वा धनार्जनं कर्तुं वाञ्छन्ति । यदा सॅम इत्ययं विदेशे सफलतां प्राप्य देशसेवायै विचार्य भारतम् आगतः, तदा तस्य चिन्तनं स्पष्टम् आसीत् यत् – “देशसेवाधनार्जनयोः किमपि एकमेव कार्यं कर्तुं पारयामि” इति । १९८० तमे वर्षे सः प्रधानमन्त्रिणः तन्त्रज्ञानमार्गदर्शकत्वेन कार्यारम्भम् अकरोत् । भारते सॉफ्ट्वेर्-क्षेत्रे या गतिः दृश्यते तस्याः कारणभूतायाः सेन्टर् फॉर् डेवलपमेन्ट् ऑफ् टेलिमिटिक्स् नामिकायाः संस्थायाः बीजमपि तदानीन्तने काले एव वपितम् । सॅम इत्ययं भारते एव निवसामि इति निश्चयेन पत्नीं बालकौ च भारतम् आहूतवान् । तस्य पत्न्या अनुबेन इत्यनया तु सीता इव अनुकरणं भाव्यम् । इन्दिरा गान्धी इत्यस्याः हत्यायाः अनन्तरं राजीव गान्धी इत्यनेन प्रधानमन्त्रिपदम् अलङ्कृतम् । तस्याः हत्यायाः कारणात् सम्पूर्णे देशे राजीव गान्धी इत्यस्मै सहानुभूतिः आसीत् । अतः स्वमतानि दत्त्वा जनाः तस्मै प्रधानमन्त्रिपदं दत्तवन्तः । ३९ वर्षीयात् राजीवात् जनानां बह्वपेक्षाः आसन् । अतः राजीव गान्धी इत्यनेन अपि देशम् एकविंशतिशताब्द्यां नेष्यामि इति उक्तम् । मुख्यतया सम्पर्कक्रान्त्यै राजीवः समुत्सुकः आसीत्, अतः सॅम इत्ययं तस्य निकटवर्ती अभवत् । सॅम इत्ययं यदा अमेरिका-देशम् अगच्छत्, तदा तस्मिन् देशे यावान् विकासः अभवत् तावान् विकासः भारते भवेत् इति राजीव गान्धी इत्यस्य इच्छा आसीत् ।

सॅम इत्यस्य दूरभाषक्षेत्रे सेवायाः आरम्भः

[सम्पादयतु]

सॅम इत्यनेन सर्वकारस्य अनुमतिः प्राप्ता, अतः दूरभाषक्षेत्रे आमूलपरिवर्तने प्रयत्नाः आरब्धाः । तेन सन्देशव्यवहारस्य मुख्यकार्याणां मुखरत्वेन, सर्वकारस्य तन्त्रविज्ञानस्य मार्गदर्शकत्वेन च कार्यम् आरब्धम् । तेन न्यूने एव काले वैदेशिकैः सह सन्देशव्यवहाराय इलेक्ट्रोनिक् टेलिफोन् एक्स्चेन्ज् इत्यस्याः संस्थायाः स्थापना कृता । सा संस्था पुनःपुनः आधुनिकी स्यात् इत्यपि सः विचारयति स्म । सन्देशव्यवहारस्य कार्याय सम्पूर्णं देशं संयोज्य, ऑप्टिकल् फाइबर् इत्यस्य उपयोगेन सन्देशव्यवहारस्य माध्यमाः साधनानि च अत्याधुनिकानि स्युः तथा कार्यम् आरब्धवान् । ऑप्टिकल् फाइबर् इत्यस्य उपयोगेन सन्देशव्यवहारे क्रान्तिः आनीता । टेलिफोन्-क्षेत्रे कार्यकर्तॄणां कार्यं सरलं च कृतम् । इदानीम् ऑप्टिकल् फाइबर् इत्यस्य महत्वं नास्ति किन्तु तद् भारते आगतं तस्य श्रेयः सॅम इत्यस्मै देयः । तेन प्रतिग्रामं टेलिफोन् आरम्भः कृतः । एस्. टी. डी, पी.सी.ओ अपि सर्वत्र स्थापिताः । इत्थं जनैः टेलिकम्युनिकेशन् क्रान्तेः सुविधा प्राप्ता । तस्याः मूले सॅम इत्यस्य दीर्घदृष्टिः आसीत् । यदि सॅम इत्यस्य मुखरत्वं न भवेत् तर्हि सञ्चारक्रान्ति-क्षेत्रे इदानीमपि वयं शून्याः स्यामः । सः यद्किमपि करोति स्म तत्सर्वं जनान् प्रति नयति स्म । अत एव सः लोकप्रियः अभवत्, एभिः कारणैः जनाः तं सञ्चारक्रान्तिमुखरः, भीष्मपितामहः इति च जानन्ति स्म । किन्तु सत्यता, प्रामाणिकता, सरलता, पुरुषार्थः इत्यादीन् गुणान् स्वमूल्येषु स्थाप्यमानाय सॅम इत्यस्मै अभिमानं कदापि न स्पृशति स्म ।

स्पष्टव्याख्याता सॅम

[सम्पादयतु]

सॅम इत्ययम् आई. आई. एम् इत्यादिषु शैक्षणिकसङ्कुलेषु, औद्योगिकसङ्कुलेषु, कॉर्पोरेट् ग्रूप् इत्येतेषु च यदा व्याख्यातृत्वेन गच्छति स्म, तदा आधुनिकीकरणं, परिवर्तनम् इत्यैतौ विषयौ चर्चति स्म । सामान्यजनजीवनं तकनीक-माध्यमेन समृद्धं, परिवर्तनयुतं च कर्तुं जनान् प्रेरयति स्म । सः स्वविचारेषु स्पष्टः आसीत् । १९८७ तमे वर्षे कोलकाता-नगरस्य आई. आई. एम्. इत्यस्याः संस्थायाः पदवीसमारोहे सॅम इत्ययं व्याख्यानाय गतः । तेन उक्तम् अहं गान्धीवादिषु मूल्येषु विश्वसिमि । किन्तु यदि भवन्तः आधुनिकयुगानुरूपं जीन्स्-वस्त्रं धृत्वा स्कॉच् विस्कि इत्यादिकं च पीत्वा अपि सत्यता, प्रामाणिकता, सरलता, बलिदानं, पुरुषार्थः इत्यादीन् गान्धीवादिनः मूल्यान् अनुसरन्ति तर्हि मम दृष्ट्या भवन्तः अपि गान्धिवादिनः । समाचारपत्रे कथनमिदं गान्धीवादिनः जीन्स्-वस्त्रं धरन्ति, मद्यपानं च कुर्वन्ति इति मुद्रितम् । अतः सॅम इत्यस्य प्रति रोषं प्रदर्श्य गान्धीवादिनः इमं प्रसङ्गं प्रधानमन्त्रिणं राष्ट्रपतिं च असूचयन् । सॅम इत्ययं जनसभायां क्षमां याचेत तादृक् वातावरणं च असर्जयन् । किन्तु सॅम इत्यनेन क्षमा न याचिता । तेन उक्तं समाचारपत्रे यथा मुद्रितं तथा अहं न उक्तवान् । अहं जीन्स्-वस्त्रधारी स्कॉच् पानकर्ता जनः अपि गान्धीवादी भवितुं शक्नोति इति उक्तवान् । किन्तु मम कथनस्य हेतुः अन्तर्मनः यदि गान्धीवादिमूल्यानां पालने मग्नः अस्ति तर्हि जीन्स्-वस्त्राणां, स्कॉच्-पानस्य च लेशमपि महत्वं नास्ति । यदि केवलं मद्यपानं न कुर्मः जीन्स्-वस्त्रं न धरामः तर्हि वयं गान्धीवादिनः न भवामः इति आसीत् । अतः मम क्षमायाचनायाः आवश्यकता नास्ति इति ।

सॅम् इत्यस्य पुनर्विदेशगमनम्

[सम्पादयतु]

सॅम् भारते न्यवसत् अतः तस्य पार्श्वे यत् धनम् आसीत् तस्य व्ययः अभवत् । सम्पर्कक्षेत्रे क्रान्तिम् आनेतुं तस्य यद् स्वप्नम् आसीत् तत् पूर्णं जातम् । किन्तु सेवायाः कार्ये रतः सः नैजं जीवनं विस्मृतवान् । शारीरिकचिन्तनस्य अभावात् १९९१ तमे वर्षे तस्मै हृदयरोगस्य अपघातः अपि अभवत् । पुत्री राजल, पुत्रः सलिलश्च महाविद्यालयं गन्तुं वयस्कौ अभवताम् । यदि तौ पाठनीयौ तर्हि अमेरिका-देशस्य विद्यालयस्य एकस्य प्रवेशधनराशिः ७५,००० डॉलर् भविष्यति, उभयोर्पाठने १,५०,००० डॉलर् धनराशिः भविष्यति इति सः अजानात् । धनस्य आवश्यकतायै देशत्यागः कृतः । अतः सञ्चारक्रान्तेः प्रणेता आर्थिककारणैः भारतम् अत्यजत् इति खेदस्य विषयः । सॅम इत्यस्य सहायकस्य राजीव गान्धी इत्यस्य अपि पेराम्बुदुर् इत्यत्र एकस्यां जनसभायां विस्फोटेन हननं कृतम् । सॅम् अमेरिका-देशं गत्वा इलेक्ट्रोनिक् डायरी इत्यस्य पेटन्ट् इत्यस्य अधिकारान् विक्रीय इलेक्ट्रोनिक् मेन्युफेक्चरिङ्ग् इत्यस्य व्यापारम् आरब्धवान् । शिकागो-नगरे अस्मिन् व्यापारे तेन बहुधनम् अर्जितम् ।

वर्ल्ड् टेल् संस्थायाः अध्यक्षः (चेरमन्)

[सम्पादयतु]

टेलिकम्युनिकेशन्-क्षेत्रे भारतवद् अन्यदेशेषु अपि शक्यमिति विचार्य आइ.टी.यु (International Telecommunications Union) इत्यनया संस्थया सॅम इत्यस्य वर्ल्ड् टेल् संस्थायाः अध्यक्ष(चॅरमेन)पदे चयनं कृतम् । इयं संस्था टेलिकॉम्, इन्टर्नेट् इन्फ्रास्ट्रक्चर् इत्यस्मिन् निवेशं (इन्वेस्ट्) कर्तुम् इच्छुकाभिः संस्थाभिः चाल्यते । सॅम इत्यस्य व्यापारः शिकागो-नगरे आसीत् । वर्ल्ड्-टेल् संस्थायाः कार्यालयः लण्डन्-नगरे आसीत्, अतः सः यातायातं करोति स्म । इत्थं सॅम इत्ययं सञ्चारक्षेत्रे सम्पूर्णे विश्वस्मिन् विख्यातः अभवत् ।

राजकीयक्षेत्राय प्रदत्तः बोधः

[सम्पादयतु]

एकदा तेन उक्तं राजकीयपक्षाः व्यापारवद् चालनीयाः इति । तस्य कथनस्य आशयः राजकीयपक्षाः चेतनायुताः भवेयुः इति आसीत् । तस्य मतानुसारं राजकीयपक्षस्य कार्यशैली परिस्थितेः अनुकूला स्यात् इति आसीत् । तत्र (१) सुव्यवस्थितं डेटाबेज् (२) वेल्-डिफाइण्ड् प्रोसीजर्स् (३) आधुनिकानि ऑर्गेनाईजेशन्स् इत्यादिकं स्पष्टं भाव्यम् इति । अतः राजकारणेन व्यापारात्, व्यापारेण राजकारणात् बहु अध्येयम् अस्ति । व्यापारे वणिक्कार्यम् उत्तमं भवति लोकशाहीकरणम् उत्तमं न भवति । तथैव राजकारणे लोकशाहीकरणम् उत्तमं भवति वणिक्कार्यम् उत्तमं न भवति ।

२००४ तमे वर्षे सॅम इत्यस्य भारते पुनरागमनम्

[सम्पादयतु]

२००४ तमे वर्षे मनमोहन सिंह इत्यस्य प्रधानमन्त्रित्वे देशे कोङ्ग्रेस-पक्षस्य, सहपक्षाणां च सर्वकारः आसीत् । सञ्चारक्रान्ति (टेलिकम्युनिकेशन्)माध्यमेन विश्वस्मिन् विख्यातस्य सॅम इत्यस्य ज्ञानसमृद्धेः लाभः भारतं प्राप्नोत् इति विचिन्त्य सर्वकारेण तस्मै निमन्त्रणं प्रेषितम् । तदानीङ्काले सञ्चारक्रान्ति (टेलिकम्युनिकेशन्) क्षेत्रे सफलतां प्राप्य देशः आई.टी क्षेत्रे विकसन् आसीत् । जङ्गमदूरभाषस्य अपि देशे आगमनम् अभवत् । अतः टेक्नोलजी इत्यस्य माध्यमेन परिवर्तनस्य आग्रहिणः परिवर्तनपटोः सॅम इत्यस्य आगमनं भवेत् इति सर्वकारेण विचारितम् । अतः तस्य सुहृद्जनाः प्रसन्नाः आसन् । निमन्त्रणं प्राप्य सॅम इत्ययं भारतम् आगतः । तदनन्तरं सर्वकारः राष्ट्रियज्ञानयोगस्य स्थापनां कृत्वा अध्यक्षपदे सॅम इत्यस्य नियुक्तिम् अकरोत् । सञ्चारक्रान्तेः, तदन्तर्गतविषयाणां मार्गदर्शनाय, प्रधानमन्त्रिणः मार्गदर्शकत्वेत च तस्य नियुक्तिम् अकरोत् ।

राजीव इत्यस्य योगदानम्

[सम्पादयतु]

सॅम इत्यस्य मते राजीव गान्धी इत्यस्य विचारधारया एव वयम् आई.टी. क्षेत्रे श्रेष्ठाः अभवाम । एकदा देशस्य पार्श्वे षड्दिनानि यावत् प्रचाल्यमाना वैदेशिकमुद्रिकाः आसन् । किन्तु साम्प्रतम् अस्माकं पार्श्वे वैदेशिकमुद्रिकानां भण्डारम् अस्ति । तस्य आनयने आई.टी. क्षेत्रस्य महत्वपूर्णं योगदानम् अस्ति ।

आशावादी सॅम

[सम्पादयतु]

जङ्गमदूरभाषेण साम्प्रतं वयं रेलयानचीटिकां (railway ticket) धनसङ्ग्रहालयसेवां (banking service) च सरलतया प्राप्स्यामः । किन्तु 40 वर्षेभ्यः प्राग् अस्य कल्पना अपि नासीत् । तदापि एकः सॅम इत्ययम् आशावादी आसीत् । तेन ( सी.सेम्. कॉमर्स् स्मार्ट् एक्टिव् मोबाईल्) (C.SAM) इत्यस्य स्थापना कृता । तदानीं सः जङ्गमदूरभाषेण धनसङ्ग्रहालयस्य व्यवहारम् अकरोत् । इत्थं व्यावसायिकनिर्णयैः देशहिताय सः सेवाम् अकरोत् । शिक्षणस्य मूल्येषु परिवर्तनं भवति स्म । अतः शिक्षणक्षेत्रे परिवर्तनस्य प्रचारप्रसाराय इन्टर्नेट् (आन्तर्जाल) इत्यस्य प्रयोगः अधिकाधिकः भवेत् इति सॅम इत्ययम् इच्छति स्म ।

BSNL इत्यस्य अध्यक्षपदे सॅम

[सम्पादयतु]

भारतीय सञ्चार निगम लिमिटेड (BSNL) इत्यस्मिन् परिवर्तनाय तस्य अध्यक्षपदे सॅम इत्यस्य चयनम् अभवत् । तेन केचन नियमाः कृताः अतः जनैः तस्य विरोधः कृतः किन्तु नियमैः संस्थायाः विकासः अभवत् ।

सॅम् इत्यस्य सम्मानम्

[सम्पादयतु]

१ २००२ तमे वर्षे आई.आई.टी. क्षेत्रे योगदानप्रदानेन लाईफ् टाईम् एचिव्मेन्ट् अवॉर्ड् इत्यनेन सम्मानितः । २ केनेडा इण्डियन् फाउण्डेशन् इत्यनेन सञ्चारक्रान्तिक्षेत्रे परिवर्तनाय २००८ तमे वर्षे ग्लोबल् इण्डियन् अवॉर्ड् इत्यनेन सम्मानितः । ३ विज्ञाने एजिनियरिङ्ग्-क्षेत्रे च योगदानप्रदानेन २००९ तमे वर्षे पद्मभूषण इति पुरस्कारेण सम्मानितः । ४ २००८ तमस्य वर्षस्य जनवरी-मासे आन्ध्रप्रदेशस्य विश्वविद्यालयात् विद्यावारिधिः इति पदव्या पुरस्कारेण च सम्मानितः । ५ २००९ तमस्य वर्षस्य मार्च-मासस्य ३१ तमे दिनाङ्के अखिल भारतीय विश्वकर्मा महासभा (ABVM) इत्यस्यां दिल्ली-नगरस्य मुख्यमन्त्रिपदम् अलङ्कर्त्र्या शीलादीक्षित इत्यनया विशिष्टं सम्मानं पुरस्कारश्च सॅम् इत्यस्मै प्रदत्तः ।

इत्थं स्वजीवने बहुप्रयत्नैः शिखरम् आरूढस्य सॅम इत्यस्य जीवनात् परिश्रमादयः गुणाः स्वीकर्तव्याः । भारतस्य दूरसञ्चार-आयोगस्य स्थापकः, अध्यक्षः, विश्वविख्यातः टेक्नोक्रॅट् सॅम् सञ्चारकान्तौ एव न अपि तु पेयजले, साक्षरतायां, वॅक्सिनेशन्, दुग्धोत्पादन-क्षेत्रे च महत्वपूर्णं योगदानं दत्तवान् । अत एव सॅम पित्रोडा इत्यस्य नाम भारतवासिनः सगर्वं वदन्ति ।

"https://sa.wikipedia.org/w/index.php?title=सेम_पित्रोडा&oldid=370653" इत्यस्माद् प्रतिप्राप्तम्