स्मृति इरानी
स्मृति इरानी | |
---|---|
मानवसंसाधनविकास-मन्त्री | |
Assumed office २६ मे २०१४ 26 May 2014 | |
President | प्रणब मुखर्जि |
Prime Minister | नरेन्द्र मोदी |
Preceded by | पल्लम् राजु |
Assumed office २०१३ | |
President | राजनाथ सिंह |
गुजरातराज्यसभासदस्यः | |
Assumed office २०११ | |
व्यैय्यक्तिकसूचना | |
Born |
नवदेहली, भारतम् | २३ १९७६
Political party | भारतीयजनतापक्षः |
Spouse(s) | झुबिन् इरानी |
Residence | मुम्बई, महाराष्ट्रराज्यम्, भारतम् |
Occupation | राजनेत्री, अभिनेत्री |
स्मृति झुबिन् इरानी (जननम् २३ मार्च् १९७६) भारतीया राजनेत्री । पूर्वं दूरदर्शने अभिनेत्रीरूपेण निर्मापिकारूपेण च कार्यम् अकरोत् । सा भारतीयजनतापक्षीया । अद्यत्वे भारतसर्वकारस्य मानवसंसाधनमन्त्री विद्यते ।[१][२]
बाल्यं शिक्षणञ्च
[सम्पादयतु]स्मृतिः देहलीनगरे पञ्जाबी-बेङ्गालीपृष्ठभूमियुते कुटुम्बे अजायत । तिसृषु पुत्रीषु सा ज्येष्ठा । [३][४] रूपदर्शिनीरूपेण रङ्गप्रवेशतः पूर्वं सा मेक् डोनाल्ड्-उपाहारगृहे परिचारिकारूपेण कार्यम् अकरोत् । [३][४]
सा द्वादशकक्ष्यापर्यन्तं होलि चैल्ड् आक्सिलरिविद्यालये अपठत्, ततः शिक्षणं न अनुवर्तितवती । [५][६] स्वीयशिक्षणविषये विवादात्मकविवरणानि तया समर्पितानि स्न्ति । २००४ तमे वर्षे तया समर्पितं यत् देहलीविश्वविद्यालयतः १९९६ तमे वर्षे कलाविषये पदवी प्राप्ता अस्ति इति । २०१४ तमे वर्षे तया समर्पितं यत् १९९४ तमे वर्षे वाणिज्यविषये देहलीविश्वविद्यालये (दूरशिक्षणद्वारा) प्रथमवर्षस्य शिक्षणं समापितमिति । [७] पत्रिकावृत्तात् इदं ज्ञायते यत् २०१३ तमे वर्षे तया देहलीविश्वविद्यालये दूरशिक्षणविभागे अध्ययनम् आरब्धं किन्तु परीक्षा न लिखिता इति । [८]
अभिनयक्षेत्रे
[सम्पादयतु]१९९८ तमस्य वर्षस्य भारतसुन्दरीस्पर्धायां तया उपान्त्यस्थानपर्यन्तं गतमासीत् । तस्यां स्पर्धायां गौरी प्रधान, तेज्वानी इत्यादयः भागम् अवहन् । [४][९][१०][११][१२][१३] १९९८ तमे वर्षे सावन् मै लाग् गयी आग्' इत्यस्मिन् सङ्गीतसञ्चिकायां 'बालियन्'गीते इयं मैकासिंहेन सह भागम् अवहत् । [१४][१५] २००० तमे वर्षे सा 'स्टार् प्लस्'वाहिन्यां प्रसार्यमाणे 'आतिश्' तथा 'हम् है कल् आज् कल् और् कल्' इत्येतयोः धारावाहिन्योः प्रवेशम् अकरोत् । ततः तया एक्ता कपूरेण निर्मिते क्योंकि सास् भि कभी बहु थि' इत्येतस्यां धारावाहिन्यां तुलसी विरानी इति प्रमुखपात्रम् निरवहत् । तया क्रमेण पञ्च वारं भारतीय-दूरदर्शन-अकाडेमी-प्रशस्तिः प्राप्ता अस्ति अत्युत्तमाभिनेत्री (प्रसिद्धा) इति । चतुर्वारम् इण्डियन्-टेलि-अवार्ड्, अष्टवारं स्टार्-परिवार-प्रशस्तिश्च प्राप्ता अस्ति । निर्मापकेन एक्ता कपूरेण जातेन भिन्नाभिप्रायेण २००७ तमस्य वर्षस्य जून्-मासे एषा ततः निर्गता इत्यतः तस्याः स्थाने गौतमी कपूर् अभिनीतवती । २००८ तमे वर्षे मेमासे विशेषधारावाहिनीद्वारा तया पुनः प्रवेशः कृतः । [१६] २००८ तमस्य वर्षस्य षष्टे स्टार्-परिवार-प्रशस्तिदानावसरे तया कृताय विशिष्टयोगदानाय 'स्टार्-परिवारस्य आधारस्तम्भ' (The Base of Star Parivaar) इति परिगणय्य विशेषप्रशस्तिफलकेन सम्माननं कृतम् । [१७][१८] २००१ तमे वर्षे तया 'झी'वाहिन्याः 'रामायण'धारावाहिन्यां सीतायाः पात्रं पौराणिकं निरूढम् । २००६ तमे वर्षे तस्याः उपनिर्मापकत्वे 'तोडि सि झमीन् तोड स आस्मान्' धारावाहिनी प्रदर्शिता । अस्यां धारावाहिन्यां तया 'उमा'याः प्रमुखं पात्रं निरूढम् । सोनीवाहिन्याः कृते तया 'विरुध्'नामिका दूरदर्शनधारावाहिनी २००७ तमे वर्षे निर्मापिता, वसुधा नाम प्रमुखपात्रमपि निरूढम् । विनोद खन्नेन सह 'मेरे अपने' इत्येतस्य निर्माणं कृतम् । झीवाहिन्याः 'तीन् बहुरानिया' इत्येतस्यां धारावाहिन्यां तया भागः ऊढः । [१९]
२००८ तमे वर्षे 'यह है जाल्वा' इत्येतस्मिन् अभिनयम् अकरोत् । २००९ तमे वर्षे 'साब्-वाहिन्याम्' 'मनिबेन् डाट् काम्' इत्येतस्यां हास्यधारावाहिन्यां भागम् अवहत् । २०१२ तमे वर्षे 'अमृता'नामके बेङ्गालीचलच्चित्रे अभिनीतम् । [२०][२१] २०१४ तमे वर्षे तया 'आल् ईस् वेल्' चलच्चित्रद्वारा हिन्दीचलच्चित्रक्षेत्रे प्रवेशः कृतः । [२२][२३]
राजनीतिक्षेत्रम्
[सम्पादयतु]२००३ तमे वर्षे स्मृतिः भारतीयजनतापक्षं प्रविष्टवती । [२४] २००४ तमे वर्षे सा महाराष्ट्रस्य युवसङ्घस्य उपाध्यक्षा जाता ।[२५] २००४ तमे वर्षे जाते १४ भारतीयलोकसभानिर्वाचने देहल्याः चान्द्नी चौकप्रदेशतः कपिल् सैबल्-विरुद्धं स्पर्धितवती सा पराजयं प्राप्नोत् । सा भारतीयजनतापक्षस्य केन्द्रसमितेः निर्वाहकसदस्यारूपेण सा योजिता ।[१७][२६][२७] २००४ तमस्य वर्षस्य डिसेम्बर्-मासे स्मृतिः घोषितवती यत् 'लोकसभानिर्वाचने भारतीयजनतापक्षस्य पराजयाय (तदानीन्तनः) गुजरातमुख्यमन्त्री नरेन्द्र मोदी एव कारण । अतः सः त्यागपत्रं यावत् दद्यात् तावत् मया आमरणोपवासः करिष्यते' इति । [२८] भवत्या विरुद्धं कठिनक्रमः स्वीकरणीयः भवति इति अग्रे यदा पक्षस्य केन्द्रनायकैः सूचिता तदा सा स्वनिर्णयात् प्रतिगतवती ।[२९][३०] २००९ तमस्य वर्षस्य मेमासे नवदेहल्याः लोकसभानिर्वाचने विजय गोयलस्य परं प्रचारकरणावसरे तया राजधान्यां महिलानां सुरक्षाविषये आग्रहः प्रदर्शितः । अत्याचारिभ्यः कठिनं दण्डनं देयमिति असूचयत् । [३१] २०१० तमे वर्षे स्मृतिः भारतीयजनतापक्षस्य राष्ट्रियकार्यदर्शिरूपेण नियुक्ता । जून्-मासस्य २४ तमे दिनाङ्के सा पक्षस्य महिलाविभागस्य अखिलभारतीयकार्यदर्शित्वेन नियुक्ता । [२४][३२]२०११ तमस्य वर्षस्य आगस्ट्-मासे गुजरातराज्यात् राज्यसभासदस्यरूपेण शपथं स्व्यकरोत् ।[३३][३४][३५] २०१४ तमस्य वर्षस्य लोकसभानिर्वाचने सा उत्तरप्रदेशस्य अमेथिक्षेत्रतः राहुल गान्धेः विरुद्धं स्पर्धितवती । [३६] तया ३००७४८ मतानि प्राप्तानि, विजयी राहुल गान्धिः ४०६५८१ मतानि प्राप्नोत् । तेन पराजितानां मतानां विषये पूर्वतननिर्वाचनस्य अपेक्षया उत्तमा प्रगतिः दर्शिता । अस्मिन् निर्वाचने जयस्य सीमा १०७९२३ मतानि गतनिर्वाचने ३७०१९४ मतानि आसन् ।[३७][३८] २०१४ तमस्य वर्षस्य मेमासस्य २६ तमे दिनाङ्के प्रधानमन्त्री नरेन्द्र मोदिना सा मानवसंसाधनमन्त्रित्वेन नियुक्ता । मन्त्रिपरिषदि ३८ वर्षीया इयमेव अल्पवयस्का वर्तते । [१][३९]
वैयक्तिकजीवनम्
[सम्पादयतु]२००१ तमे वर्षे स्मृतिः झोरास्ट्रियमतस्थं झुबिन् इरानीवर्यं परिणीतवती । [२४] तस्मिन् वर्षे अक्टोबर्-मासे तयोः झोर् नामकः प्रथमापत्यं जातम् ।[४०] २००३ तमस्य वर्षस्य सेप्टेम्बर्-मासे झोरिष् नामिका पुत्री जाता । स्मृतिः शानेले नामिकायाः विमाता या झुबिन् इरानिनः पूर्वतनपत्न्याः मोनायाः पुत्री । [४]
वृत्तिविवरणम्
[सम्पादयतु]Television
[सम्पादयतु]वर्षम् | कार्यक्रमः | पात्रम् | वाहिनी |
---|---|---|---|
आतिश | स्टार् प्लस् | ||
हम हैं कल आज कल और कल | स्टार् प्लस् | ||
2000 | कविता | कविता | स्टार् प्लस् |
2000–2008 | क्योंकि सास भी कभी बहु थी | तुलसी मिहिर विरानी | स्टार् प्लस् |
2001–2003 | क्या हादसा क्या हकीकत | स्मृति | सोनी टि वि |
2001–2003 | कुछ .... दील से | स्वामिनी | सब टि वि |
2001–2002 | रामायण | सीता | जी टि वि |
2004 | काफी विथ् करण | स्वामिनी (साक्षी तन्वारेण सह अतिथिः) | स्टार् वर्ल्ड् |
2006–2007 | थोडी सी जमीन थोडा सा आसमान | उमा | स्टार् प्लस् |
2007–2008 | विरुद्ध | वसुधा सुशान्त शर्मा | सोनी टि वि |
2007–2008 | मेरे अपने | शारदा | 9X |
2007–2008 | तीन बहुरानिया | वृन्दा | जी टि वि |
2008 | यह है जलवा | स्वामिनी (साक्षी तन्वारेण सह अतिथिः) | 9X |
2008 | वारिस | निर्मापिका | जी टि वि |
2009–2010 | मनिबेन डाट काम | मनिबेन् जमनकुमार पटेल | सब टि वि |
2012 | सावधान इण्डिया[४१] | स्वामिनी | लैफ् ओ के |
2013 | एक थी नायक | स्वाती | लैफ् ओ के |
प्रकल्पक्षेत्रे
[सम्पादयतु]प्रकल्पाः | भाषा | पात्रम् |
---|---|---|
कुछ तुम कहो कुछ हम कहे | हिन्दी | सर्गम् |
मनिबेन डाट काम | गुजराती | मनि |
कोई तरु बहु सरु तायु | गुजराती | देविका |
मुक्तिधाम | गुजराती | माता |
गर्व थी कहो अमे गुजराती छीये | गुजराती | मृदुला |
चलच्चित्राणि
[सम्पादयतु]वर्षम् | चलच्चित्रम् | प्रात्रम् | भाषा |
---|---|---|---|
2010 | मालिक एक | द्वारका मायी | हिन्दी |
2011 | जय बोलो तेलङ्गाणा | उग्रगामिनी | तेलुगु |
2012 | अमृता | बाङ्गला | |
2014 | आल् इस् वेल् | हिन्दी[४२] |
प्राप्ताः प्रशस्तयः
[सम्पादयतु]वर्षम् | पुरस्कारः | विभागः | कार्यक्रमः | पात्रम् |
---|---|---|---|---|
2001 | भारतीय दूरदर्शन अकाडेमी प्रशस्तिः | ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्) | क्योंकि सास् भी कभी बहु थी | तुलसी विरानी |
2002 | भारतीय दूरदर्शन अकाडेमी प्रशस्तिः | ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्) | ||
भारतीय टेलि प्रशस्तिः | अत्युत्तमाभिनेत्री (प्रसिद्धा) | |||
2003 | भारतीय दूरदर्शन अकाडेमी प्रशस्तिः | ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्) | ||
भारतीय टेलि प्रशस्तिः | अत्युत्तमाभिनेत्री (प्रसिद्धा) | |||
अत्युत्तमं टि वि व्यक्तित्वम् | ||||
स्टार् परिवार प्रशस्तिः | प्रिया स्नुषा | |||
प्रिया पत्नी | ||||
2004 | भारतीय दूरदर्शन अकाडेमी प्रशस्तिः | ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्) | ||
स्टार् परिवार् प्रशस्तिः | प्रिया माता | |||
प्रिया सास | ||||
2005 | भारतीय दूरदर्शन अकाडेमी प्रशस्तिः | ऐ टि ए प्रशस्तिः अत्युत्तमाभिनेत्री - नाटकम् (प्रसिद्धम्) | ||
स्टार् परिवार् प्रशस्तिः | प्रिया सास | |||
ग्रे ८! महिलासाधिका प्रशस्तिः | अत्युत्तमगृहिणी प्रशस्तिः | |||
2006 | स्टार् परिवार् प्रशस्तिः | प्रिया सास | ||
2007 | भारतीय टेलि प्रशस्तिः | अत्युत्तमाभिनेत्री (जुरि) | विरुद्ध् | वसुधा शर्मा |
स्टार् परिवार् प्रशस्तिः | प्रिया सास | क्योंकि सास् भी कभी बहु थी | तुलसी विरानी | |
झी अस्तित्व प्रशस्तिः | अत्युत्तम दूरदर्शनव्यक्तित्वम् | |||
2008 | स्टार् परिवार् प्रशस्तिः | विशेषाभिज्ञानम् | ||
2009 | गुजराति स्टेज् प्रशस्तिः | अत्युत्तमाभिनेत्री | मनिबेन डाट काम | मनिबेन पटेल |
2010 | भारतीय दूरदर्शन अकाडेमी प्रशस्तिः | ऐ टि ए मैल्स्टोन् प्रशस्तिः | क्योंकि सास् भी कभी बहु थी | तुलसी विरानी |
2014 | गर्व भारतीय दूरदर्शनप्रशस्तिः | दशकस्य अत्युत्तम दूरदर्शनव्यक्तित्वम् |
टिप्पणी
[सम्पादयतु]- ↑ १.० १.१ "Modi's complete cabinet: Jaitley gets Finance, Smriti Human Resources". Firstpost. 27 May 2014.
- ↑ "स्मृति इरानी". Dainik Bhaskar (in Hindi). 27 May 2014. आह्रियत 3 June 2014.
- ↑ ३.० ३.१ "Rise of Smriti Irani: Journey from bahu of TV to BJP's Vice President". The Economic Times. 1 November 2013. आह्रियत 26 May 2014.
- ↑ ४.० ४.१ ४.२ ४.३ "Smriti Irani: From model to TV’s favourite bahu to Cabinet minister". Firstpost. 26 May 2014.
- ↑ "'Class 12 pass' and education minister?". First Post. आह्रियत 27 May 2014.
- ↑ "Smriti goes back to school". TOI.
- ↑ "The strange case of Smriti Irani: BA pass in 2004, undergrad in 2014". 28 May 2014.
- ↑ "Smriti Irani asks Delhi University to reinstate officials who were suspended for leaking documents on her education". The Times Of India. आह्रियत 2014-07-06.
- ↑ From wannabe Miss India to minister-phenomenal rise of Smriti Irani
- ↑ The Smriti of yesterday
- ↑ Ranjib Mazumder (7 May 2009). "A little too fat". Daily News & Analysis. आह्रियत 3 June 2014.
- ↑ Saas-bahu on the ramp
- ↑ "Metro Plus Chennai". The Hindu. 6 June 2009. आह्रियत 3 June 2014.
- ↑ "Smriti Irani's transition from an aspiring model to a successful politician". Archived from the original on 2020-08-07. आह्रियत 2014-07-10.
- ↑ "Viral music video: BJP’s Amethi candidate Smriti Irani dancing with singer Mika Singh". Daily Bhaskar. 7 April 2014.
- ↑ Interview with Smriti Irani
- ↑ १७.० १७.१ "TV DIVAS IN BEAUTY PAGEANT". Indiatimes. Archived from the original on 13 April 2014. आह्रियत 12 April 2014.
- ↑ "BJP may pit Smriti Irani against Rahul Gandhi". Millenium Post. आह्रियत 12 April 2014.
- ↑ "Playing Tulsi and Sita with elan". The Tribune. 10 March 2002. आह्रियत 12 April 2014.
- ↑ "Smriti Irani to debut in Bengali film industry". Hindustan Times. 23 February 2010. Archived from the original on 13 March 2014. आह्रियत 10 July 2014.
- ↑ "Soppy sentimental Bengali debut of Smriti Irani". The Indian Express. 19 April 2012.
- ↑ "HRD minister Smriti Irani turns mother to Asin". Hindustan Times. 2 June 2014. Archived from the original on 14 July 2014. आह्रियत 10 July 2014.
- ↑ "Asin, Smriti Irani bond over Parsi food during All is Well shoot". India Today. 28 May 2014.
- ↑ २४.० २४.१ २४.२ "Smriti Irani is a front runner for the HRD ministry: Here's what you need to know about her journey from reel to real". Daily News & Analysis. 26 May 2014.
- ↑ "Smriti Irani is now Vice-President of Yuva Morcha". Rediff News. 8 January 2004.
- ↑ "TV actor-turned-politician Smriti Irani to face Rahul Gandhi in Amethi". India Today. 4 April 2014. आह्रियत 12 April 2014.
- ↑ "Press statement issued by BJP Mahila Morcha President, Smt. Smriti Irani". आह्रियत 25 May 2014.
- ↑ "Tulsi to go on fast unto death". The Times of India. 12 December 2004.
- ↑ "Kyunki BJP kabhi different thi". Rediff News. 16 December 2004.
- ↑ "Once a critic, Smriti Irani now hardsells Narendra Modi's image to woo voters". Daily News & Analysis. 18 April 2014.
- ↑ "Smriti Irani advocates 'capital punishment' for rapists". Indian Express. 2 May 2009.
- ↑ "Smriti takes over the Mahila Morcha Charge".
- ↑ "Smriti Irani is Member of Parliament from BJP".
- ↑ "Detailed Profile – Smt. Smriti Zubin Irani". Archived from the original on 26 September 2018. आह्रियत 25 May 2014.
- ↑ "Smriti Irani to head BJP's women wing in Himachal". The Times of India. 16 June 2010.
- ↑ "Lok Sabha polls: BJP fields Smriti Irani against Rahul Gandhi in Amethi". The Times of India. 1 April 2014.
- ↑ "Constituencywise-All Candidates". ECI. Archived from the original on 2014-05-17. आह्रियत 2014-07-10.
- ↑ "Constituency Wise Detailed Results". Election Commission of India. p. 153. आह्रियत 30 April 2014.
- ↑ "Youngest and oldest in Modi's team are women – Smriti Irani and Najma Heptullah". The Times of India. 26 May 2014.
- ↑ "An interview with the superstar of Indian Television: Smriti Irani". The Tribune. 10 March 2002.
- ↑ "Smriti Back on television with Savdhaan India". Archived from the original on 2014-04-08. आह्रियत 2014-07-10.
- ↑ "Bollywood films to watch out for in 2014". Mid Day. 1 January 2014. आह्रियत 3 June 2014.