हसलजनाङ्गः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


हसलजनाङ्गीयानां वासस्थानानि[सम्पादयतु]

उत्तरकन्नडमण्डलस्य शिरसि, सिद्धापुर शिवमोग्गमण्डलस्य तीर्थहळ्ळी, सोरब, सागर, चिक्कमगळूरुमण्डलं, मैसूरुमण्डलस्य उत्तरसीमा इत्यादिषु प्रदेशेषु हसलजनान् द्रष्टुं शक्नुमः । एते कन्नडभाषां वदन्ति । बहुपूर्वं दक्षिणकन्नडमण्डलतः आगताः कतिचन कुटुम्बीयाः तुळुभाषां वदन्ति ।

हसलजनाङ्गीयानां वर्गाः[सम्पादयतु]

हसलजनेषु पञ्चवर्गाः सन्ति ।

  • १ बेळ्ळिहसलाः अथवा बेळ्ळालाः
  • २ बग्गालिन हसलाः अथवा अन्तरगालु हसलाः
  • ३ नाडु हसलाः
  • ४ मले हसलाः
  • ५ मृतपशूनाम् आकर्षणं कुर्वाणाः हसलाः च इति ।

बेळ्ळीहसलाः[सम्पादयतु]

हसलजनेषु कनिष्ठष्टस्तरीयाः नाम बेळ्ळिहसलाः । एते अधिकतया दक्षिणकन्नडमण्डले सन्ति । इतरहसलजनानां गृहे एतेषां प्रवेशः नास्ति । एतैः सह ते भोजनमपि न कुर्वन्ति ।

बग्गालिनहसलाः[सम्पादयतु]

बग्गालिनहसलाः(वक्रपादाः) इति अन्या काचित् जातिः अस्ति । एतेषां वक्रपादाः सन्ति इत्यनेन बग्गालिनहसलाः इति एतान् आह्वयन्ति । एते घट्टप्रदेशे पूगक्षेत्रेषु कार्यं कुर्वन्ति । एते पूगवृक्षस्य आरोहणं कृत्वा वृक्षात् वृक्षं प्रति कूर्दनं कुर्वन्तः पूगफलस्य गुच्छस्य कर्तनं, रोगनिरोधक-औषधस्य सेचनं, पूगफलानि परितः आच्छादनकरणं कुर्वन्ति। बहूनि दिनानि यावत् पादं वक्रं कृत्वा वृक्षस्य उपरि एव भवन्ति इति कारणेन एतेषां पादाः किञ्चिदिव वक्राः सन्ति ।

नाडहसलाः[सम्पादयतु]

समप्रदेशेषु वसन्तः हसलाः ‘नाडहसलाः’ इति । हसलजातीयजनेषु एते उन्नतस्तरीयाः, श्रेष्ठाः च । कण्डोलनिर्माणम् एतेषां वृत्तिः ।

मलेहसलाः[सम्पादयतु]

मलेहसलाः पर्वतप्रदेशेषु भवन्ति । एते अधिकतया कृषिकार्मिकाः । स्वामिभिः सह क्षेत्रकार्ये निरताः भवन्ति । तालवृक्षतः सुरायाः अवतारणकार्यं कुर्वन्ति ।

कर एळेयुव हसलाः[सम्पादयतु]

मृतपशूनाम् आकर्षणकार्यं ‘कर एळेयुव हसलाः’ कुर्वन्ति । हसलेषु भिन्नानि गोत्राणि सन्ति । तानि गोत्राणि ‘बळि’ इति नाम्ना निर्दिशन्ति । एतस्य निर्देशनं मातुः, द्वारा अथवा मातुलस्य द्वारा कुर्वन्ति । एतेषां ’बळि’ एवं सन्ति ।

  • १. बले बळि
  • २. गङ्गर बळि
  • ३. शिरिन बळि
  • ४. दण्डिगन बळि
  • ५. शेट्टि बळि
  • ६. कोळग बळि
  • ७. होलेन बळि
  • ८. हदलिगे बळि
  • ९. कुन्दलि बळि
  • १०. मल्लिगे बळि
  • ११. तोळन बळि
  • १२. कुळ्ळिगे बळि
  • १३. काडाचि बळि
  • १४. शिवन बळि
  • १५. आने बळि
  • १६. बेत्त बळि
  • १७. कन्ने बळि
  • १८. चल्येर बळि
  • १९. किन्निगेर् बळि
  • २०. शेन्दि बळि
  • २१. कुमुदेन बळि
  • २२. नादेर् बळि
  • २३. मदुमेदन बळि

हसलजनाः स्वान् अग्निहोन्नप्पनामकस्य मतस्य जनाः इति निर्दिशन्ति । एतेषां मूलपुरुषः होन्नप्पः । एते यदा बहिः प्रस्थानं कुर्वन्ति तदा धनुः बाणाः च एतेषां हस्ते भवन्ति एव । अतः एतान् धनुषः क्षत्रियाः इत्यपि वदन्ति ।

हसलजानाङ्गीयानां कुटुम्बव्यवस्था[सम्पादयतु]

आरम्भे एतेषु बाल्यविवाहस्य पद्धतिः आसीत् । इदानीं तथा नास्ति । विवाहसम्बन्धः मातुः बळि सम्बन्धे न भवति । पितुः बळिः सम्बन्धम् आधारीकृत्य विवाहप्रस्तावाः प्रचलन्ति । पितुः सहोदर्याः अथवा मातुलस्य पुत्र्या सह विवाहः कर्तुं शक्यः । किन्तु सहोदर्याः पुत्र्या सह विवाहसम्बन्धः न भवति । विधवाविवाहस्य अवसरः अस्ति ।

हसलजनाङ्गीयानां देवाः[सम्पादयतु]

हसलानां मन्त्रवादिनं ‘गाडिग’ इति वदन्ति । सः भूतप्रेतस्य निर्देशकः । कापि समस्या अस्ति चेत् एते परिहारार्थं गाडिगं शरणं गच्छन्ति । धर्मस्थलस्य मञ्जुनाथस्वामिनः, चन्द्रगुत्तेः देव्याः, शिकारिपुरस्य हुच्चरायप्पस्य, वीरभद्रस्य च आराधनम् एते कुर्वन्ति । तत्रत्य ग्रामदेवतायाः आराधनम् अपि कुर्वन्ति । सर्पाः नाम एतेषां बहुभक्तिः । चौडीदेव्याः, पञ्ज्रुळ्ळिदेवस्य, तुळसीसस्यस्य च पूजां कुर्वन्ति । सङ्क्रान्ति- युगादिपर्वदिनेषु स्वेषां कुलदैवस्य पूजां कुर्वन्ति । कूड्लिमठस्य बाळेहळ्ळिमठस्य केळदिमठस्य तोगर्सिमठस्य वा विधेयाः भवन्ति हसलाः । हसलाः वराहस्य मांसं न खादन्ति । दुग्धदात्र्याः धेनोः, पञ्चनखवतः प्राणिनः मांसमपि एते न खादन्ति । शवस्य दहनं, निखननं च एवं पद्धतिद्वयमपि एतेषु अस्ति ।

अन्ये केऽपि हसलाः भवितुम् इच्छन्ति चेत् कानिचन आचरणानि अनुसृत्य अनन्तरं तान् हसलजातिषु योजयन्ति । तं तण्डुलस्य क्षालितजलेन शुद्धीकुर्वन्ति । तावदेव न, तस्य जिह्वाग्रभागं दहन्ति । यः कोऽपि यत्किमपि कार्यार्थम् आह्वयन्ति चेदपि एते आनन्देन कुर्वन्ति । ओक्कलिगानां विवाहेषु हसलाः ‘सुडिनामकं दीपं’ गृह्णन्ति । अपत्यं नास्ति चेत् ‘दत्तु’ स्वीकरणस्य पद्धतिः अपि एतेषु अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=हसलजनाङ्गः&oldid=389180" इत्यस्माद् पुनः प्राप्तिः