हस्तिमल्लः
हस्तिमल्लः | |
---|---|
जननम् | मध्यकालः |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | विक्रन्तकौरवम्, मैथिलीकल्याणम्, अञ्जनापवनञ्जयम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
हस्तिमल्लो दाक्षिणात्योऽयं ब्राह्मणो महाकवितल्लजः, सरस्वती-स्वयंवरवल्लभः सूक्तिरत्नाकरः इत्यादिभिरुपाधिभिः समलंकृत आसीत्। त्रयोदश्यां शताब्द्यां तेन विपुलं नाट्यसाहित्यं संवर्धितम्। अयं हि जैनकविश्चतुभिः रूपर्कैः विक्रान्तकौरवं मैथिलीकल्याणमञ्जनापवनञ्जयमिति नाटकैः सुभद्रति नाटिकया च ख्यातः । मल्लयुद्धे बाहुबलेन हस्तिनं भुवि शयानं विधायायं स्वनामार्जितवान्। तथात्वं स्वयं श्लाघते -
श्रीवत्स-गोत्र-जन-भूषण-गोपभट्ट-
प्रेमैकधामतनुजो भुवि हस्तियुद्धात्।
नाना-कलाम्बु-निधि-पाण्ड्य-महेश्वरेण
श्लोकैः शतैः सदसि सत्कृतयांबभूवे।।
पाण्ड्यभूपसम्भावनमपि अञ्जनापवनञ्जये घोषयति कविः -
श्रीमत्पाण्ड्यमहीश्वरे निजभुजादण्डावलम्बीकृतं
कर्णाटावनिमण्डलं पद-नतानेकावनीशेऽवति।
तत्प्रीत्यानुसरन् स्वबन्धुनिवहैर्विद्वद्भिराप्तैः समं
जैनागार-समेत-संततगमैः श्रीहस्तिमल्लोऽवसत्।।
परिचयः
[सम्पादयतु]सन्ततगमः, सरण्यापुरं, गुडिपत्तनं, दीपगुण्डिर्वाऽस्य निवासभूमयोऽभूवन् । उदयनराजं, भरतराजं, मेघेश्वरमर्जुनराजं चेति चत्वार्यपराण्यपि रूपकाण्यसौ प्रणिनाय यानि नाद्ययावदुपलब्धानि । कर्णाट्या-भाषया आदिपुराण-श्रीपुराणे तेन विरचिते। अस्य कृतिषु जैनधर्माग्रहलेशोऽपि न लक्ष्यत इत्ययमतिशेते प्रभूता जैनकवीन् । सर्वत्र पूर्वानुरागं स्वयंवरं च समायोज्य रससिद्धिं प्रकर्षन्नसौ नाट्यकौशलेन सह परिचाययति काव्यप्रतिभाम् । अनुप्रासप्रियता तावत् कवये सुतरां रोचते । यथा -
अङ्कुरान् किसलयानि कोरकान् कुड्मलानि कुसुमानि च क्रमात्।।[१]
शृङ्गारवृत्तिं कविः प्ररोचयति । यथा सुलोचनायाः सौन्दर्य-वर्णने -
शृङ्गारस्य गरीयसी परिणतिर्विश्वस्य संमोहिनी
विद्या काप्यपरा परा च पदवी सौन्दर्य-सार-श्रियाम्।
उद्दामो मदनस्य यौवनमदः कुल्या रतिस्रोतसां
केलीविभ्रमसंपदामविकलो लावण्यपुण्यापणः।।[२]
कविदृशा मर्यादापुरुषोत्तमो रामोऽपि वेशवनिताः पश्यति -
प्रत्यङ्गोभिद्यमान-स्तनमुकुल-कृत - प्राभृतार्घ्यैरुरोभि-
र्दन्तोन्मेषोपहारैः प्रहसितवदनैर्लालनीयैर्वचोभिः।
विभ्रान्तोत्फुल्लनेत्रा ललित-भुजलता-मन्द-विक्षेपलीलाः
कन्दर्पं दर्पयन्त्यो भृशमिह गणिका-दारिकाः संचरन्ति।।[३]
सन्तु नाम गणिकादारिका यथाभूतमेव दृष्टाः, स्मरपीडितोऽपि रामो वदति -
रचय कुसुमैः शय्यां स्वैरं विवेष्टन-दायिनों
सरस-कदलीपत्र - प्रान्तानिलैरुपवीजय।
स-विस-वलयान् मुक्ताहारान् मुहुर्मुहुरर्पयन्
गुरुतरममुं सन्तापं में वयस्य लघूकुरु॥[४]
उपायैस्तथोक्तैस्तु ताप एवं विधो वर्धतेतरामेव। हारास्तावन्मुक्ताग्रथिता एव भवन्ति, किमेतेन साधितं मुक्तापदेनापतेन ?
विक्रान्तकौरवम्
[सम्पादयतु]विक्रान्तकौरवस्य कथानुसारेण काशीराजस्याकम्पनस्य दुहितुः सुलोचनायाः स्वयंवरे बहवो राजानः समभ्यागमन् । तेषु मुख्यो जयकुमारः कुरुराजो दिनादेकात् प्रागेव स्वयंवरयात्रामहोत्सवे सुलोचनया दृष्टः । सा च तेन दृष्टेति पूर्वराग उभयोरन्तरजायत। गंगायां सौभाग्यस्नानाय नवमालिकया सख्या सद्वितीया पुनरपि विदूषकानुयातेन कुरुराजेन ददृशे । स्वयंवरे च सर्वान् कृतस्तुती राज्ञः विहाय सा जयकुमारमवृणोत् । पश्चाद् युद्धं परिणमितम् । तत्र नायको विजयी बभूव।
मैथिलीकल्याणम्
[सम्पादयतु]पञ्चाङ्के मैथिलीकल्याणनाटके सीतारामयोरुद्वाहकथा वर्तते । वसन्तोत्सवं मानयन्ती काममन्दिरे दोलागृहं गता सीता रामेण दृष्टा । तयोः पूर्वरागः सपदि जनिं लेभे । सखीभिराहूतायाः सीतायाः पुनर्दर्शनायोत्सुको रामो विदूषकेण सह राज प्रासादान्तिकस्थं माधवीवनं गतः। तत्र विनीतया सहागता सीता राममनावर्जितमवधार्य मोहं गता पुनः संज्ञां प्राप्ता रामेणानुनीता। प्रणयपरवशा सीता केतकीपत्रस्थलेखन कलावत्या रामं संदिशति स्म। माधवीवनं दक्षिणेन चन्द्रकान्तधारागृहेऽद्य सायं समागम्यतामिति तस्मिन् विलम्बमाने विनीता कृतरामवेषा सीता च माधवीवनघटनामभिनयन्ति स्म । अस्मिन्नन्तराले आगतो रामः सीतायाः पाणिमगृह्णात् । अनन्तरं स्वयंवरे चान्येषु राजसु धनुरधिज्यं कर्तुमक्षमेषु गतेषु रामः समयं निर्वाह्य सीतां विधिनोपयेमे । रामस्य चारित्रमत्र नोत्कृष्टम् । तथापि सत्यमेव वदति कविः -
श्रुतं यद् वा तद् वा नयति मदनोद्दीपनपदे
प्रकृत्या यच्चित्तं गणयति च तत् तापजननम्।
यदेवादौ वाञ्छेत् तदनु तदपि द्वेष्टि सहसा
कथं पार्श्वग्राहो न हसति जनः कामुकजनम्।।[५]
अञ्जनापवनञ्जयम्
[सम्पादयतु]सप्ताङ्कमञ्जनापवनञ्जयं जैनपरम्परातः कथानकमुपजीव्य ग्रथितम् । महेन्द्रपुरे संपत्स्यमानस्याञ्जनाकुमार्याः स्वयंवरस्य पूर्वत एव पवनंजयो विद्याधरकुमारस्तां प्रति संसक्तमना बभूव । पवनञ्जयमभिनयन्तीमञ्जनाम जनाभूमिका निर्वहन्ती वसन्तमाला कृतकस्वयंवरे यावदेकदा वरमालां वरकण्ठसात् करोति, तावदेव पवनञ्जयोऽन्तर्हितपूर्वः स्वं प्रकटय्याञ्जनां पाणावग्रहीत् । अनिच्छन्ती सा मात्राहूता निर्गता । भूतार्थे स्वयंवरे स्वीकृतामञ्जनामादाय पवनञ्जय आदित्यपुरं गतः प्रमदवने तया सह विहरति स्म।
अथ पाताले वरुणेनोपरुद्धौ रावणस्य सेनान्यौ रावणकृतेनानुनयेन मुमोचयिषुः पवनञ्जयस्य पिता प्रह्लादः प्रायियासत्, किन्तु पित्रानुमतः पवन एव प्रयातश्चतुरो मासान् युद्धरत एवासीत् । एकदा कुमुद्धत्यास्तटे विश्राम्यन्नसौ पत्या वियुक्तां चक्रवाकवधूमुद्विग्नां वीक्ष्य प्रियां स्मृत्वा विमानेन गत्वा जायां संगम्य पातालं प्रत्याययौ । तेन चाञ्जना गर्भमादधे। सखीः विना न कोऽपि तयोः समागमवृत्तमजानात् । श्वश्रूश्च तां पितुगृहं प्रातिष्ठिपत्। युद्धभूमौ लब्धजयो विहितविधेयः पवनञ्जयः प्रत्यागतो भार्यां पितृगृहगतामश्रौषीत् । गर्भवतीं तां द्रष्टुकामोऽसौ कालमेघेन गजराजेनोत्पत्य यावन्नाभिगिरिं गतः तावद् वनेचरात् तां वनं प्रविष्टामवगम्य विदूषकं विद्याधरानानेतुं निवर्त्यान्विष्टवान् । ततो हताशं तं मतङ्गमालिनीवने चन्दनपादपच्छायोपविष्टं तन्मातुलः प्रतिसूर्यस्तमेवान्विष्यन्नागत्याञ्जनया संगमयामास । सा हि गन्धवराजेन मणिचूडेन रक्षितप्राणा पुत्रं हनुमन्तं प्रसूतवती । सम्प्रति पतिप्राणा पतिं प्राप्य पुनरुज्जीविताभवत् । अथादित्यपुरेऽभिषिक्ते पवनञ्जये प्रतिसूर्यस्तस्मै हनुमन्तं तनयमानीय ददौ । सर्वे सुखं प्रपन्नाः।
सुभद्रा
[सम्पादयतु]सुभद्रायां नाटिकायां विद्याधरराजस्य नमेः भगिन्या च सुभद्रया सह भरतस्य विवहकथोपनिबद्धा । रजताचले परस्परं दृष्ट्वा प्रणयासक्त सुभद्राभरतावालपन्तौ वीक्ष्य राज्ञी तं व्यतिकरं गन्धर्वरीतिविपर्ययं मेने । एकदा विदूषकेण सह नगरीं प्रविष्टं भरतं सुभद्रा पश्यति। भरतेन च तस्याः आलेखः पुरस्कृतः । तावदेव तन्निर्मितं सुभद्रायाचित्रमालोक्य राज्ञी सिंहीनिपातं निपतिताक्रुध्यत् । तौ च पृथगकरोत् । अन्येद्यः प्रियविप्रयोगकातरामशोकमालतीलतयोः विवाहं सम्पादयन्तीं सपरिवारां तामुपवने भरतः पाणिग्राहेण संभावयति स्म । तथा तौ वीक्ष्य पुनरपि राज्ञी कुप्यति स्म। इत्येवं राज्ञ्या सन्निपातितप्रत्यूहावपि तौ नमिना विवाहार्थं दत्तवचनावास्ताम् । आहूतो भरतो राज्ञीं कथं कथमपि सुभद्रापतिश्चक्रवर्ती भवितेति दैवज्ञवचनच्छलेना नुनीय सुभद्राम्परिगृहीतवान्।