शिवसेना
दिखावट
शिवसेना | |
---|---|
अध्यक्षः | एकनाथ शिन्दे |
निर्माणम् | १९ जुन्,१९६६ |
महिलाविभागः | शिवसेनामहिला अघडी |
विचारधारा |
हिन्दुत्व माराठीराष्ट्रवादः |
राजनैतिकस्थितिः | दक्षिणपन्थी |
वर्णः | अरुणवर्णः |
मैत्रीकूटः | राष्ट्रियगणतान्त्रिकमैत्रीकुटः |
लोकसभासदस्यसंख्या |
१८ / ५४५ |
राज्यसभासदस्यसंख्या |
४ / २४५ |
विधानसभासदस्यसंख्या |
६३ / २८८ |
निर्वाचनचिह्नम् | |
शर-धनुषः | |
जालस्थानम् | |
www. shivsena.org |
शिवसेना(shiv sena) हिन्दुत्वस्य प्रतिपादकः हिन्दुत्ववादी मराठीमनुजस्य च राजनैतिकपक्षः। अस्य स्थापना १९६६तमे वर्षे जूनमासस्य १९ दिनाङ्के बाळासाहेब ठाक्रेमहोदयेन कृता ।
विवरणम्
[सम्पादयतु]- शिवसेना नाम हिन्दूदेवताशिवस्य सैन्यवाहिनी । शिवसेनापक्षः भारतवर्षस्य विभिन्नप्रान्ततः मुम्बई-नगरागतजनानां विरुद्धे विरोधं प्रदर्शयति । पक्षोऽयं माराठीराष्ट्रवादं समर्थयति । शिवसेनापक्षस्य अध्यक्षः बाळासाहेब ठाक्रेमहोदयस्य देवलोकप्रयाणान्तरं उद्धव ठाक्रे अभूत् ।
- शिवसेनापक्षः प्राथमिकावस्थायां महाराष्ट्रराज्ये आसीत् परन्तु प्रतिष्ठानन्तरवर्तीकाले समग्रदेशव्यापी विस्तारः जातः । १९७० शतके पक्षोऽयं क्रमशः माराठीराष्ट्रवादं त्यक्त्वा हिन्दूराष्ट्रवादं समर्थितवान् । विचारधारागतसाम्यतावशात् शिवसेनापक्षः भारतीयजनतापक्षेण सह मैत्रीस्थापनम् अकरोत् ।
- पक्षोऽयं बहुवारं महाराष्ट्रराज्यसर्वकारगठनम् अकरोत् । शिवसेनापक्षः राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य केन्द्रसर्वकारे (१९९८-२००४) मुख्यसहयोगी आसीत् ।
इतिहासः
[सम्पादयतु]- भारतवर्षस्य स्वाधीनतानन्तरं क्षेत्रीयप्रशसनविभाजननियमाः परिवर्तमानाः आसन् । पृथक् महाराष्ट्रराज्यगठनविषयक-आन्दोलनं मुम्बई-प्रेसिडेन्सीतः माराठीभाषीजनाः प्रारब्धवन्तः । १९६० तमे वर्षे मुम्बई-प्रेसिडेन्सीविभागस्य भाषाऽधारेणैव गुजरात-महाराष्ट्रः इति विभाजनम् अभवत् ।