एम् एस् स्वामिनाथन्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

(कालः - ०७. ०८. १९२५)

अयम् एम्. एस्. स्वामिनाथन् (M.S. Swaminathan) "हरितक्रान्तेः” प्रवर्तकः । एषः एम्. एस्. स्वामिनाथन् १९२५ तमे वर्षे आगस्टमासस्य ७ दिनाङ्के भारतदेशस्य तमिऴ्‌नाडुराज्यस्य कुम्भकोणम् इति प्रदेशे जन्म प्राप्नोत् । तस्य पूर्णं नाम मोन्कोम्बु साम्बशिवन् स्वामिनाथन् इति । तस्य वंशः एव वैद्यानां वंशः आसीत् । तस्य वंशजाः स्वतन्त्र्य-आन्दोलने अपि भागं गृहीतवन्तः । अस्य एम्. एस्. स्वामिनाथनस्य प्राथमिकः विद्याभ्यासः तमिळ्नाडुराज्ये एव अभवत् । यौवनकाले तेन द्वितीयस्य महायुद्धस्य भीकराणि दृश्यानि दृष्टानि । तदा एव सः “आहारं विना कोऽपि मरणं न प्राप्नुयात् । तदर्थं मया किमपि करणीयम्” इति निश्चितवान् । कोयम्बत्तूर्-नगरे कृषिविषये बि. एस्सि. पदवीं प्राप्य देहल्याः कृषिसंशोधनसंस्थायां वंशशास्त्रे तथा अभिवृद्धिविभागे च प्रशिक्षणं प्राप्नोत् । ततः अध्ययनार्थं युनेस्को–विद्यार्थिवेतनं प्राप्य हालेण्ड्देशम् अगच्छत् ।


अयम् एम्. एस्. स्वामिनाथन् १९५२ तमे वर्षे इङ्ग्लेण्ड्देशस्य "केम्ब्रिड्ज"–विश्वविद्यालयतः "डाक्टरेट्” पदवीं प्राप्नोत् । तदनन्तरं वर्षं यावत् अमेरिकादेशस्य विस्कान्सिस्–विश्वविद्यालये संशोधनम् अकरोत् । १९५४ तमे वर्षे पुनः भारतदेशं प्रत्यागत्य कट्क्–संशोधनसंस्थायां तण्डुलवंशस्य अभिवृद्धेः विधानानां विषये अध्ययनम् अकरोत् । तदनन्तरं २० वर्षाणि यावत् भारतीयकृषिसंशोधनसंस्थायाम् (इण्डियन् अग्रिकल्चरल् रिसर्च् इन्स्टिट्यूट्) बहूनाम् आहारधान्यानां विषये संशोधनम् अकरोत् । ५० तमे दशके यदा भारतदेशः आहारसमस्यां सम्मुखीकरोति स्म तदा अमेरिकादेशस्य "नोबेल्”–पुरस्कारं प्राप्तवतः कृषिविज्ञानिनः नार्मल् बोग्लारस्य मार्गदर्शने "मेक्सिकन् ड्वार्फ" नामकस्य गोधूमवंशस्य भारतस्य वातावरणस्य अनुगुणम् अभिवृद्धिं कृतवान् । दशकाभ्यन्तरे एव गोधूमस्य वर्धनं द्विगुणितं जातम् । अधिकस्य फलोत्पत्तेः गोध्मस्य, तण्डुलस्य, शणस्य, आलुकस्य च मिश्रवंशस्य अभिवृद्धिम् अपि अकरोत् । तस्मात् कारणात् एव अयम् एम्. एस्. स्वामिनाथन् "हरितक्रान्तेः” प्रवर्तकः इति प्रसिद्धः अभवत् ।


अयम् एम्. एस्. स्वामिनाथन् ’आहारोत्पादने भारतं परिपूर्णताम् आप्नोति’ इति यत् प्रतिपादितवान् तदर्थं १९७१ तमे वर्षे 'रेमान् म्याग्सेसे’–पुरस्कारं प्राप्नोत् । १९७३ तमे वर्षे इङ्ग्लेण्डदेशस्य रायल्-सोसैटि अपि एतं फेलोरूपेण अचिनोत् । एषः ’एस्. एस्. भाट्नागर्’–प्रशस्तिं, ’बीरबल साहनी’–प्रशस्तिं, 'मेण्डेल् स्मारक'–प्रशस्तिं चापि प्राप्तवान् अस्ति । १९८६ तमे वर्षे प्रथमवारं अयं कृषिविज्ञानी 'अल्बर्ट् ऐन्स्टैन् वर्ल्ड् सैन्स्’–प्रशस्तिम् अपि प्राप्नोत् । विश्वस्य प्रतिष्ठिताः सङ्घसंस्थाः अपि 'परिसर-कृषि–आर्थिकविभागेषु मेधावी’ इति एतम् एम्. एस्. स्वामिनाथनं श्लाघितवत्यः सन्ति । प्रपञ्चस्य ४३ विश्वविद्यालयाः अस्मै 'गौरव–डाक्टरेट्’ पदवीं दत्वा सम्मानितवन्तः सन्ति । अयम् एम्. एस्. स्वामिनाथन् १९८० तमे वर्षे संयुक्तराष्ट्रसंस्थायाः (UNO) 'विज्ञानसूचनासमितेः (Science Advisory Committee) सदस्यः अपि अभवत् । एफ्. ए. ओ. कौन्सिलस्य स्वतन्त्रः अध्यक्षः अपि अभवत् ।

"बुभुक्षायाः कारणं निर्धत्वनं न तु आहारस्य अभावः” इति स्पष्टं मतम् आसीत् अस्य एम्. एस्. स्वामिनाथनस्य । "विद्युत्–ग्रिड् इव दक्षिणभारतस्य नदीनाम् अपि योजनकार्यं (ग्रिड्-स्थापनम्) भवेत् इति आग्रहम् अपि कृतवान् आसीत् । अत्यन्तं न्यूनप्रमाणेन रासायनिकानाम् उपयोगः करणीयः । जैविकं नियन्त्रणं साधनीयम् । कीटानां कुतृणानां च नाशनार्थं लशुनस्य वा निम्बस्य वा उपयोगः करणीयः । कृषियोग्या भूमिः कदापि भवनानां निर्माणार्थं, नगराणां निर्माणार्थं वा न उपयोक्तव्या । जलसम्पत्तेः अवैज्ञानिकेन उपयोगेन अस्माकं पूर्णं सामर्थ्यं प्रकट्यमानं नास्ति । सर्वकारः सदा अपि कृषिकाणां समर्थनं, प्रोत्साहनं च कुर्यात्” इति अयम् एम्. एस्. स्वामिनाथन् सर्वदा वदति । सः यथा उत्तमः कृषिविज्ञानी तथैव उत्तमः शासकः अपि । सः भारते अत्यद्भुताः उपयोगयोग्याः योजनाः आरब्धवान् अपि ।

""

"http://sa.wikipedia.org/w/index.php?title=एम्_एस्_स्वामिनाथन्&oldid=262289" इत्यस्माद् पुनः प्राप्तिः