चेन्नैमण्डलम्
चेन्नैमण्डलं (तमिऴ्: சென்னைமாவட்டம்आङ्ग्लम्:Chennai District)तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । विस्तारदृष्ट्या इदं मण्डलं लघुतमम्, किन्तु जनसान्द्रता अत्रैव अत्यधिका । इदं नगरमण्डलम्, अर्थात्, अस्मिन् मण्डले केन्द्रस्थानम् इति किमपि नास्ति ।
अन्तर्विषयाः |
भौगोलिकम् [सम्पादयतु]
चेन्नैमण्डलस्य विस्तारः १७८.२ चतुरश्रकिलोमीटर् । इदं मण्डलं भारतस्य पूर्वसमुद्रतीरसमभूमौ अस्ति । तमिऴ्नाडुराज्यस्य ईशान्यकोणे कोरमण्डलतीरे इदं मण्डलम् अस्ति । अस्य प्रान्तस्य पूर्वसीमा बङ्गालमहासमुद्रः । उत्तरे पश्चिमे च तिरुवळ्ळूरुमण्डलम् अस्ति । दक्षिणदिशि काञ्चिपुरमण्डलम् अस्ति ।
जनसंख्या [सम्पादयतु]
२०११तमवर्षस्य जनगणनानुगुणं चेन्नैमण्डलस्य जनसंख्या ४,६८१,०८७ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २७तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् २६,९०३ अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ७.७७% आसीत् । अस्मिन् मण्डले पुं-स्त्री अनुपातः १०००:९८६, साक्षरताप्रमाणं च ९०.३३% अस्ति । इदं मण्डलं १००% नगरीकृतम् । तमिऴ्नाडुराज्यस्य १३.३०% नगरजनसंख्या चेन्नैमण्डले एव अस्ति । इदं मण्डलं राज्यस्य ‘अत्यन्तं प्रवृद्धं मण्ड्लम्’ इति घोषितम् अस्ति ।
उपमण्डलानि [सम्पादयतु]
चेन्नैमण्डले पञ्च उपमण्डलानि सन्ति –
- १) एग्मोर्-नुङ्गम्बाक्कम्
- २) फ़ोर्ट् तोण्डैयार्पेट्
- ३) माम्बलम्-गिण्डी
- ४) मयिलापूर्-तिरुवळ्ळिक्केणिः
- ५) पेरम्बूरु-पुरसैवाक्कम्
वाणिज्यम् [सम्पादयतु]
फ़ोर्ब्स् पत्रिकानुसारं चेन्नैनगरं विश्वे एव अतिवेगेन वर्धमानेषु नगरेषु अन्यतमम् । भारतस्य फ़ार्चून्-५०० संस्थानां मूलस्थानेषु अस्य नगरस्य चतुर्थं स्थानम् । २४ भारतीयसंस्थानाम् इदं मूलनगरम् । वाहन-सङ्गणकतन्त्रांश-तन्त्रज्ञान-स्वास्थ्य-आर्थिकोद्यमाः अत्र प्रवृद्धाः सन्ति ।
भारतस्य वाहनोद्यमे ३०% अस्मिन् नगरे तिष्ठति । ह्युण्डाय्, रेनाल्ट्, निस्सान्, अशोक् लीलाण्ड्, डैम्लर् एजि, क्याटर्पिलर् इन्क्, कोमाट्सु लिमिटेड्, फ़ोर्ड्, बिएम्डब्ल्यु, मित्सुबिशि इत्येतासां संस्थानाम् उत्पादनाकेन्द्राणि चेन्नैनगरे सन्ति । आवडौ स्थितं भारवाहकनिर्माणकेन्द्रं सेनावाहनानि निर्माति । इण्टिग्रल् कोच् फ़्याक्टरी इत्यत्र रैलपेटिकानां निर्माणं भवति । आम्बत्तूरु-पाडि औद्यमिकवलये बहूनि वस्त्रोद्यमानि सन्ति । नगरस्य दक्षिणभागे वस्त्र-पादरक्षोद्यमानां विशिष्ट-आर्थिक-वलयः निर्मितः अस्ति । भारतस्य चर्मण विदेशविक्रयणे ५०% चेन्नैतः भवति ।
बहूनां तन्त्रांशसंस्थानां केन्द्राणि चेन्नैनगरे सन्ति । चेन्नैनगरे विद्यमानां टैडल्-पार्क् इत्येतत् एषियाखण्डे एव बृहत्तमम् ऐटि पार्क् इति कथ्यते । विश्ववित्तकोशः, स्टाण्डर्ड् चार्टर्ड् वित्तकोशः, सिटिब्याङ्क् इत्यादयः बहवः वित्तसंस्थाः अपि अत्र केन्द्राणि निर्वहन्ति । इण्डियन् ब्याङ्क्, इण्डियन् ओवर्सीस् ब्याङ्क् इत्येतयोः राष्ट्रियवित्तकोशयोः मूलस्थानं चेन्नै । चेन्नैनगरे पूर्णतया सङ्गणकीकृतं मद्रास् स्टाक् एक्स्चेञ्ज् अस्ति ।