तिरुनेल्वेलीमण्डलम्
| तिरुनेल्वेलीमण्डलम् திருநெல்வேலி மாவட்டம் |
|
|---|---|
| — मण्डलम् — | |
| विकटनाम(नि): नेल्लै | |
| भारतस्य तमिळ्नाडु राज्ये तिरुनेल्वेलीमण्डलम् | |
| Coordinates: 8°43′55″N 77°42′01″E / 8.73194°N 77.70028°ECoordinates: 8°43′55″N 77°42′01″E / 8.73194°N 77.70028°E | |
| Country | |
| State | तमिळ्नाडु |
| Metro | |
| मण्डलस्य रचना जाता | सेप्टेम्बर् 01, 1790 |
| Seat | तिरुनेल्वेली |
| सर्वकारः | |
| • Collector & District Magistrate | डा । आर् सेल्वराज्,IAS |
| विस्तीर्णम् | |
| • Total | ६,८२३ Square km (२,६३४.४ Square mile) |
| जनसङ्ख्या (2011)[१] | |
| • Total | ३०,७२,८८० |
| भाषाः | |
| • व्यावहारिकाः | तमिळ् |
| भारतीयकालमानम् - IST (UTC+5:30) | |
| पत्राचारसङ्केतः -PIN | 627001 |
| दूरवाणीसङ्केतः | 0462 |
| वाहनपञ्जीकरणम् | TN-72/76 |
| बृहत्नगरम् | तिरुनेल्वेलि नगरम् |
| Human sex ratio | पु-49%/स्त्री-51% |
| साक्षरताप्रमाणम् | 68.44% |
| Precipitation | ८१४.८ millimetres (. in) |
| Avg. summer temperature | ३७ °C ( °F) |
| Avg. winter temperature | २२ °C ( °F) |
| जालस्थानम् | www.nellai.tn.nic.in |
तिरुनेल्वेलिमण्डलं (तमिऴ्: திருநெல்வேலிமாவட்டம் आङ्ग्लम्: Tirunelveli District) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तिरुनेल्वेलिनगरम् । अस्य मण्डलस्य वैशिष्ट्यम् इदं यत् तमिऴ्-साहित्ये उल्लिखिताः पञ्चविधाः भौगोलोकप्रदेशाः अपि अत्र दृश्यन्ते – कुरिञ्जि (पर्वताः), मुल्लै (वनानि), मरुदम् (व्रीहिक्षेत्राणि), नैदल् (समुद्रतीरम्), पालै (मरुभूमिः) च । तिरुनेल्वेलिमण्डलं १७९०तमवर्षस्य सेप्टम्बरमासस्य प्रथमे दिने ब्रिटिश्-सर्वकारस्य पक्षतः ईस्ट् इण्डिया कम्पेन्या निर्मितम् । तदानीन्तने तिरुनेल्वेलीमण्डले अद्यतने तिरुनेल्वेली-तूत्तुकुडिमण्डले, विरुदुनगरमण्डलस्य, रामनाथपुरमण्डलस्य केचन भागाः च आसन् । राज्यस्य मण्डलेषु विस्तारदृष्ट्या अस्य मण्डलस्य द्वितीयं स्थानम् (विऴुप्पुरमण्डलं प्रथमम्) । तमिऴ्-अभिजनाः इदं मण्डलं प्रीत्या ‘नेल्लै’ इति सूचयन्ति ।
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
तिरुनेल्वेलिमण्डलस्य निर्माणदिनाङ्कः (सेप्टम्बर् १) तिरुनेल्वेलिदिनम् इति आचर्यते । ब्रिटिश् ईस्ट् इण्डिया कम्पेन्या अस्य ‘तिन्नेवेल्लिमण्डलम्’ इति नाम कृतम् । अस्य केन्द्रस्थानम् आदौ पाळैयंकोट्टैपत्तने आसीत्, यत्र पाळैयकाराणां विरुद्धं कार्याचरणसमये कम्पेन्याः सेनाकेन्द्रम् आसीत् ।
तिरुनेल्वेलिमण्डलस्य नामकरणे कारणत्रयं दृश्यते – मण्डलस्य बृहत्तमं नगरं तिरुनेल्वेलिः इत्येकम् । नायकानां नवाबानां च प्रशासने अयं प्रदेशः ‘तिरुनेल्वेलिसीमै’ इति ख्यातः इति द्वितीयम् । पाण्ड्यसाम्राज्यस्य दक्षिणराजधानी आसीद् इयम् इति तृतीयम् । मण्डले तिरुनेल्वेलि-पाळैयंकोट्टैनगरे यमलनगरत्वेन अभिवृद्धौ स्तः ।
विंशशतकस्य आदौ तिरुनेल्वेलिमण्डल्स्य भागान् पृथक्कृत्य रामनाथपुरमण्डलम्, विरुदुनगरमण्डलं च निर्मितम् । १९८६तमे वर्षे पुनः इदं मण्डलं प्रशासनसौकर्यार्थं द्वेधा विभक्तम् – चिदम्बरनार् (अद्यतनः तूत्तुकुडिः) मण्डलम् एकम्, नेल्लै-कट्टबोम्मन् इत्यपरम् । ततः अस्य ‘तिरुनेल्वेलि-कट्टबोम्मन्-मण्डलम्’ इति , ततः पुनः ‘तिरुनेल्वेलिमण्डलम्’ इति नाम अभवत् ।
भौगोलिकम् [सम्पादयतु]
तिरुनेल्वेलिमण्डलं तमिऴ्नाडुराज्यस्य दक्षिणभागे अस्ति । अस्य उत्तरभागे विरुदुनगरमण्डलम्, पश्चिमभागे पश्चिमघट्टपर्वताः, दक्षिणभागे कन्याकुमारीमण्डलम्, पूर्वभागे तूत्तुक्कुडिमण्डलं च अस्ति । मण्डलस्य विस्तारः ६,८२३ चतुरश्रकिलोमीटर् ।
मण्डले पश्चिमघट्टस्य पर्वतप्रदेशाः सन्ति । ताम्रपर्णीनदी, अन्याः काश्चन लघ्व्यः नद्यः अत्र प्रवहन्ति । मण्डले बहवः रमणीयाः जलधाराः सन्ति । सर्वेषु ऋतुषु अस्मिन् मण्डले वृष्टिः भवति । वृष्टेः प्रमाणं ९५३.१ मिलिमीटर् आसीत्, २००५-२००६ वर्षे । ईशान्यप्रावृषः, नैर्ऋत्यप्रावृषः च प्रभावेण अत्र वृष्टिः भवति । पश्चिमघट्टेभ्यः प्रवहन्तीनां पच्चैयार्-प्रभृतीनां बहूनां नदीनां जलं कृषिकार्योपयोगि भवति । पच्चैयार्-नदी ताम्रपर्ण्याः उपनदी । ताम्रपर्णी-मणिमुत्तारुनद्योः बहवः जलबन्धाः सति, यत्र सङ्गृहीतं जलं कृषिकार्ये, विद्युदुत्पादने च उपयुज्यते । चित्तार्-नदी अपि अस्मिन् मण्डले प्रवहति । कोर्टल्लं जलधारा, मणिमुत्तार्-जलधारा च मण्डलस्य जलधारासु प्रमुखे ।
जनसंख्या [सम्पादयतु]
२०११तमवर्षस्य जनगणनानुगुणं मण्डलस्य जनसंख्या ३,०७२,८८० । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ११६तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरसश्किलोमीटर् ४५८ (११९० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १३.६६% आसीत् । मण्डले पुं-स्त्री अनुपातः १०००:१०२४, साक्षरताप्रमाणं च ८२.९२% अस्ति ।
उपमण्डलानि [सम्पादयतु]
तिरुनेल्वेलिमण्डले द्वादश उपमण्डलानि सन्ति ।
१) तिरुनेल्वेलिः २) पाळैयंकोट्टै ३) शङ्करन्कोयिलः ४) अम्बासमुद्रम् ५) नङ्गुनेरिः ६) कडैयनल्लूरुः ७) राधापुरम् ८) तेङ्कासिः ९) शेङ्कोट्टै १०) अलङ्गुळम् ११) वीरकेरलम्बुदूरुः १२) शिवगिरिः
कृषिः वाणिज्यं च [सम्पादयतु]
इदं कृषिप्रधानं मण्डलम् । प्रमुखतया तण्डुलानि, नारिकेलाः, कदल्यः, सम्बारपदार्थाः च अत्र रुह्यन्ते । समुद्रतीरे स्थितत्वात् मत्स्यग्रहणोद्यमः अपि अत्र प्रामुख्यं भजते । मण्डले ४०७ खनयः सन्ति । लैम्स्टोन्, ग्रानैट्, गार्नेट् साण्ड् इत्येते खनिजाः अत्र उत्पाद्यन्ते । वस्त्रोद्यमः, आहारपदार्थोद्यमः, अरण्यपदार्थोद्यमः च अत्र अभिवृद्धः अस्ति । नङ्गुनेरिप्रदेशे विशिष्ट-आर्थिक-वलयः २००१तम् वर्षे आरब्धः ।
वीक्षणीयस्थलानि [सम्पादयतु]
नल्लैयप्पदेवालयः [सम्पादयतु]
अयं देवालयः तिरुनेल्वेलिपत्तने अस्ति । अयं देवालयः क्रिस्तीये ७०० वर्षे शिवभक्तस्य तिरुज्ञानसम्बन्धस्य कृतौ उल्लिखितः अस्ति । आदौ शिवस्य शक्त्याः च अत्र भिन्नौ देवालयौ पाण्ड्यैः निर्मितौ आस्ताम् । १७ शतके अनयोः देवालययोः सन्धिरूपः ‘सेङ्गलिमण्डपः’ निर्मितः । देवालयस्य गोपुराणि अपि सप्तदशशतकस्य प्रारम्भे निर्मितानि । दक्षिणभारतस्य बृहत्तमेषु देवालयेषु अयम् अन्यतमः ।
वल्लियूरुः [सम्पादयतु]
राधापुरौपमण्डले कार्त्तिकेयस्य पत्न्याः श्रीवल्ल्याः नाम्ना ज्ञातम् इदं पत्तनम् अस्ति । अत्र मुरुगस्य देवालयः अस्ति । वल्लियूरुकुऴम् इति ज्ञातः तडागः अपि अस्ति ।
नङ्गुनेरिः [सम्पादयतु]
तिरुनेल्वेलिपत्तनात् ३१ किलोमीटर् दक्षिणे विद्यमाने अस्मिन् पत्तने विष्णोः देवालयः अस्ति । महाविष्णुः अत्र तोटाद्रिनाथरूपेण आराध्यते । अयं देवालयः वनमामलैमठेन निरुह्यते । वैष्णवसम्प्रदायस्य दिव्यदेशेषु इदम् अन्यतमम् ।
मरुत्तूरुः [सम्पादयतु]
पाळैयंकोट्टैतः १२ किलोमीटर् दूरे अयं ग्रामः अस्ति । अत्र ताम्रपर्णीनद्यां निर्मितः २.५ किलोमीटर् दीर्घः जलबन्धः अस्ति ।
वीरवनल्लूरुः [सम्पादयतु]
अस्मिन् पत्तने विद्यमानः भूमिनाथस्वामिदेवालयः तमिऴ्नाडुराज्यस्य प्राचीनतमेषु देवालयेषु अन्यतमः । अत्र सुन्दरराजपेरुमाळ्देवालयः, कडयम्मन् देवालयः, सन्तानमारियम्मन् देवालयः, रङ्गनाथस्वामिदेवालयः चापि सन्ति ।
कळक्काडुमुण्डन्तुरै व्याघ्रधाम [सम्पादयतु]
इदं व्याघ्रधाम १९६२तमे वर्षे निर्मितम् । अस्य विस्तारः ९०० चतुरश्रकिलोमीटर् । तिरुनेल्वेलितः ४५ किलोमीटर् पश्चिमतः कळक्काडुपत्तनसमीपे इदं व्याघ्रधाम अस्ति । अत्र व्याघ्राः, चित्रव्याघ्राः, वन्यश्वानाः, गजाः, भिन्नप्रभेदानां हरिणाः, वनसूकराः, भल्लूकाः, मर्कटाः, चिक्रोडाः, मकराः च द्रष्टुं शक्याः ।
शङ्करन्कोयिल् [सम्पादयतु]
हरिहरयोः ऐक्यप्रतिपादके अस्मिन् देवालये शङ्करनारयणनामकः देवः अर्च्यते, यस्य शरीरे अर्धभागः हरेः, अपरार्धः च हरस्य । देवी गोमती अम्बाळ् । अयं देवालयः क्रिस्तीये ९००तमे वर्षे उक्रमपण्ड्येन निर्मितः ।
बाह्यसम्पर्कतन्तुः [सम्पादयतु]
- ↑ 2011 Census of India (Excel). Indian government (16 April 2011).