कन्याकुमारीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कन्याकुमारीमण्डलम्
"The Lands End"
सूर्योदयसमये कन्याकुमारीनगरे विवेकानन्दशिलास्मारकं
—  मण्डलम्  —
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलम् कन्याकुमारीमण्डलम्
उपमण्डलम् तोवळै, अगस्तीश्वरम्, कल्गुळम्, विळवङ्गोडु
' 1956,1 नवेम्बर्
राजधानी नागरकोयिल्नगरम्
केन्द्रप्रदेशः नागरकोयिल्नगरम्
Collector & District Magistrate एस्। नागरजन्
[[तमिऴ्‌नाडु राज्यस्य संसत्|संसत्]] (स्थानानि) Elected (6)
विधानसभा 6
जनसङ्ख्या

• सान्द्रता

१८,६३,१७४[१] (2011)

995.7 /किमी2 (2,579 /वर्ग मील)

लिङ्गानुपातः पु-1000/स्त्री-1014 /
साक्षरता 95.6% 
व्यावहारिकभाषा(ः) तमिळ्,
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• तीरप्रदेशः

1,684 वर्ग किलोमीटर (650 वर्ग मील)

72 किलोमीटर (45 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः


     1,465 मिमी (57.7 इंच)

     27 °से (81 °फ़ै)
     16 °से (61 °फ़ै)

Central location: ८°०३′ उत्तरदिक् ७७°१५′ पूर्वदिक् / 8.050°उत्तरदिक् 77.250°पूर्वदिक् / ८.०५०; ७७.२५०
जालस्थानम् official website

कन्याकुमारीमण्डलम् (Kanyakumari district) (तमिऴ् – கன்னியாகுமரி மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अयं भूभागः भारतदेशस्य दक्षिणसीमायाम् अस्ति । चेन्नै नगरम् अतिरिच्य तमिऴ्नाडुराज्यस्य अत्यन्तं नगरीकृतं मण्डलं कन्याकुमारी । राज्यस्य लघुमण्डलेषु अस्य द्वितीयं स्थानम् । कन्याकुमारीमण्डले कन्याकुमारी इति पत्तनम् अपि अस्ति, यत् भारतभूप्रदेशस्य दक्षिणाग्रम् अस्ति । किन्तु अस्य मण्डलस्य केन्द्रस्थानं नागरकोयिल् पत्तनम् । इदं मण्डलं सरसां मण्डलम् इति, भूमेः अन्तः इति च प्रसिद्धम् अस्ति ।

इतिहासः[सम्पादयतु]

स्वातन्त्र्यात् प्राक् कन्याकुमारीमण्डलं तिरुविताङ्कूरु (ट्रावङ्कूर्) राज्यस्य भागः आसीत् । ततः केरलराज्यस्य निर्माणात् पूर्वं तिरुविताङ्कूरु कोच्चिन् राज्ये आसीत् । तदनन्तरकाले केरलस्य तिरुवनन्तपुरमण्डलस्य अष्ट उपमण्डलानि पृथक्कृत्य कन्याकुमारीमण्डलं रचितम् । १९५६ तमवर्षस्य राज्यपुनर्विभागसमितेः सूचनानुगुणम् इदं मण्डलं मद्रास् राज्यस्य भागः अभवत् । मद्रास् राज्यस्य एव तदनन्तरकाले तमिऴ्नाडु इति नामकरणम् अभवत् ।

भौगोलिकम्[सम्पादयतु]

कन्याकुमारीमण्डलस्य तिसृषु दिशासु समुद्रम् अस्ति । उत्तरसीमायां [[पश्चिमघट्टपर्वतश्रेणिः अस्ति । पश्चिमसीमायां केरलराज्यस्य तिरुवनन्तपुरमण्डलम्, उत्तरे पूर्वत्र च तमिऴ्नाडुराज्यस्य तिरुनेल्वेलीमण्डलम् अस्ति । आग्नेयदिशि बङ्गालसमुद्रस्य मन्नार् समुद्रकुक्षिः (गल्फ़् आफ़् मन्नार्) अस्ति । दक्षिणसीमायां हिन्दूमहासमुद्रं, नैर्ऋत्यदिशायां अरब्बीसमुद्रं च अस्ति ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं कन्याकुमारीमण्डले १,८६३,१७४ जनाः सन्ति । इदं मण्डलं ८२.४७% नगरीकृतम् अस्ति । चेन्नैमण्डलम् अतिरिच्य तमिऴ्नाडुराज्ये कन्याकुमारीमण्डले एव जनसान्द्रता अत्यधिका ११०६ प्रतिचतुरश्रकिलोमीटर् । अत्रत्यं साक्षरताप्रमाणं ९०.२५% अस्ति । इदम् अस्मिन् राज्ये अत्यधिकम् । अत्र स्त्रीलिङ्गानुपातः अपि अधिकः अस्ति । पुं, स्त्री अनुपातः १०००:१०१० अस्ति ।

उपमण्डलानि[सम्पादयतु]

कन्याकुमारीमण्डले चत्वारि उपमण्डलानि सन्ति ।

  • तोवळै
  • अगस्तीश्वरम्
  • कल्गुळम्
  • विळवङ्गोडु

वीक्षणीयस्थलानि[सम्पादयतु]

कन्याकुमारी[सम्पादयतु]

अत्रत्यं प्रमुखं वीक्षणीयस्थानं समुद्रतीरे स्थितं कुमारी अम्मन् (कन्याकुमारी)) मन्दिरम् । अयं देव्याः पार्वत्याः शक्तिपीठेषु अन्यतमः । अत्र पार्वती परमेश्वरं प्राप्तुं तपः कृतवती इति श्रूयते । कन्याकुमारीमन्दिरस्य आग्नेयदिशि समुद्रमध्ये १९७० तमे वर्षे निर्मितं विवेकानन्दशिलास्मारकम् अस्ति । अस्यां शिलायां स्वामी विवेकानन्दः दिनत्रयं यावत् ध्यानं कृतवान् । अत्र ध्यानमण्डपः अपि अस्ति, यत्र ध्यानार्थं शान्तं स्थानं लभ्यते । अत्रैव तमिऴ्सन्तकवेः तिरुवळ्ळुवरस्य १३३ पादोन्नता मूर्तिः अस्ति । इयं मूर्तिः २००० तमे वर्षे शिल्पिना गणपति स्थपतिना निर्मिता एषियादेशस्य अत्युन्नतासु मूर्तिषु अन्यतमा । महात्मनः गान्धेः अस्थिभस्म सागरे निमज्जनात् पूर्वं कन्याकुमार्याम् एव स्थापितम् आसीत् । तस्मिन् स्थले अद्य गान्धीस्मारकं तिष्ठति । अस्य स्मारकस्य निर्माणवैशिष्ट्यं यत् तस्य जन्मदिने अक्टोबर् मासस्य द्वितीये दिनाङ्के प्रथमे सूर्यकिरणाः अस्तिभस्मस्थापनस्थले एव पतन्ति ।

हिन्दूमहासमुद्रे सुनामी[सम्पादयतु]

२००४ तम वर्षस्य डिसेम्बर् मासे २६ दिनाङ्के दक्षिण आग्नेयएषियादिशोः बहवः देशाः सुनामीनामकेन समुद्रचण्डमारुतेन आक्रान्ताः । भारते सुनामीकारणेन पीडितेषु मण्डलेषु कन्याकुमारी अपि अन्यतमम् । अत्र नवशतेभ्यः अधिकाः जनाः मृताः, सहस्रशः जनाः तिरोभूताः, व्रणिताः वा । तदारभ्य सर्वकारीयाः तदितराः च समाजसेवासङ्घाः पीडितानां जनानां पुनर्वसतिं कल्पयितुं प्रयतमानाः सन्ति ।

पद्मनाभपुरराजभवनम्[सम्पादयतु]

इदं राजभवनं ग्रानैट्‌शिलानिर्मिते पद्मनाभपुरदुर्गे अस्ति । पश्चिमघट्टश्रेण्याः वेलिगिरेः पादभूमौ अयं दुर्गः अस्ति । समीपे एव वल्लीनदी प्रवहति ।

वट्टक्कोट्टै दुर्गः[सम्पादयतु]

अस्य नाम्नः ‘वृत्ताकारस्य दुर्गः’ इत्यर्थः । अयं क्रिस्तीये अष्टादशे शतके निर्मितः । समुद्रतीरे कन्याकुमारीपत्तनतः ६ किलोमीटर् दूरे अयं दुर्गः अस्ति ।

शुचीन्द्रम्[सम्पादयतु]

अत्र स्तनुमलयदेवालयः अस्ति, यत्र विविधराजवंशानां कलाकृतयः लभ्यन्ते । नवमशतमानस्य शिलालेखाः, सङ्गीतस्तम्भाः, हनूमतः ६ मीटर् उन्नता मूर्तिः इत्यादयः अत्र बहु प्रसिद्धाः । अत्रत्यः मुख्यः आराध्यः देवः शिवलिङ्गरूपेण त्रिमूर्तीनां ब्रह्म, विष्णु, शिवानाम् ऐक्यं द्योतयति ।

पञ्चपदीक्षेत्राणि[सम्पादयतु]

अय्यावऴितत्त्वानुसारिणां पवित्राणि इमानि पञ्च क्षेत्राणि कन्याकुमार्याः पञ्चदशकिलोमीटर् परिधौ सन्ति । स्वामितोप्पुपदी, मुत्तप्पदी, तामरैकुळम्पदी, अम्बालप्पदी, पूप्पदी इति इमानि पञ्च क्षेत्राणि ।

नागरकोयिल्[सम्पादयतु]

अस्मिन् पत्तने नागराजदेवालयः, शिवविष्ण्वोः देवालयः च अस्ति । कोट्टार्‌प्रदेशे सन्त ज़ेवियरस्य क्रैस्तदेवालयः अपि अस्ति ।

उदयगिरिदुर्गः[सम्पादयतु]

राज्ञा मार्ताण्डवर्मणा निर्मितः अयं दुर्गः । अत्र कास्टिङ्ग्‌प्रभेदस्य गोलिकास्त्राणां निर्माणकार्यागारः अस्ति । तस्य राज्ञः विश्वासपात्रस्य यूरोप्यसेनानायकस्य डे लेन्नायस्य स्मारकम् अपि अत्र अस्ति । सम्प्रति उदयगिरिदुर्गः जीववैविध्योद्यानम्, अरण्यविभागेन निर्वाह्यमानम् अस्ति ।

मात्तूरु जलसङ्क्रमः[सम्पादयतु]

कन्याकुमारीमण्डलस्य तिरुवत्तरसमीपे विद्यमानः अयं जलसङ्क्रमः द्वयोः पर्वतयोः मध्ये स्थितः कृषिकार्यार्थं जलं वहति । उन्नतानां स्तम्भानाम् आधारेण निर्मितः अयं जलसङ्क्रमः औन्नत्ये दैर्घ्ये च एषियाखण्डे एव बृहत्तमेषु अन्यतमः । जलसङ्क्रमस्य मध्यात् परितः विद्यमानानां गिरीणाम्, अरण्यप्रदेशानाम्, अधः प्रवहन्त्याः नद्याः च मनोहरः दृश्यः हृदयम् आह्लादयति ।

चितारल् जैनचैत्यानि[सम्पादयतु]

मार्ताण्डतः ३५ किलोमीटर् दूरे स्थितानि इमानि चैत्यानि । अत्र नवमशतकस्य एकादशशतकस्य च जैनगुहाः मूर्तयः च सन्ति । तिरुनन्दिक्करदेवालयः अयं पल्लवशैल्याः शिलाच्छेदनेन निर्मितः गुहादेवालयः, क्रिस्तीये सप्तमे, अष्टमे वा शतके निर्मितः ।

उल्लगरुविजलपातः[सम्पादयतु]

नागरकोयिलात् २० किलोमीटर् दूरे अयं जलपातः अस्ति । पश्चिमघट्टप्रदेशे पर्वतमध्ये स्थितः एषः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
"https://sa.wikipedia.org/w/index.php?title=कन्याकुमारीमण्डलम्&oldid=480085" इत्यस्माद् प्रतिप्राप्तम्