कन्याकुमारीमण्डलम्
| कन्याकुमारीमण्डलम् | |||||||
| "The Lands End" | |||||||
| — मण्डलम् — | |||||||
|
|
|||||||
| निर्देशाङ्काः | |||||||
| देशः | भारतम् | ||||||
| राज्यम् | तमिऴ्नाडु | ||||||
| मण्डलानि | कन्याकुमारीमण्डलम् | ||||||
| उपमण्डलानि | तोवळै, अगस्तीश्वरम्, कल्गुळम्, विळवङ्गोडु | ||||||
| ' | 1956,1 नवेम्बर् | ||||||
| राजधानी | नागरकोयिल्नगरम् | ||||||
| केन्द्रप्रदेशानि | नागरकोयिल्नगरम् | ||||||
| Collector & District Magistrate | एस्। नागरजन् | ||||||
| [[तमिऴ्नाडु राज्यस्य संसत्|संसत्]] (स्थानानि) | Elected (6) | ||||||
| अधिवेशनसभा | 6 | ||||||
| जनसङ्ख्या |
१८,६३,१७४[१] (2011[update]) • ९९५.७ /km2 ( /sq mi) |
||||||
| लिङ्गानुपातः | पु-1000/स्त्री-1014 ♂/♀ | ||||||
| साक्षरता | 95.6% | ||||||
| व्यावहारिकभाषा(ः) | तमिळ्, | ||||||
|---|---|---|---|---|---|---|---|
| समयवलयः | IST (UTC+05:30) | ||||||
| विस्तीर्णम् • तीरप्रदेशः |
१,६८४ square kilometres ( sq mi) • ७२ kilometres ( mi) |
||||||
| वायुमण्डलम् • तलस्पर्षी |
• १,४६५ mm (. in) |
||||||
| Central location: | 8°03′N 77°15′E / 8.05°N 77.25°E | ||||||
|
सङ्केताः
|
|||||||
| जालस्थानम् | official website | ||||||
कन्याकुमारीमण्डलम् (तमिऴ् – கன்னியாகுமரி மாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अयं भूभागः भारतदेशस्य दक्षिणसीमायाम् अस्ति । चेन्नैनगरम् अतिरिच्य तमिऴ्नाडुराज्यस्य अत्यन्तं नगरीकृतं मण्डलं कन्याकुमारी । राज्यस्य लघुमण्डलेषु अस्य द्वितीयं स्थानम् । कन्याकुमारीमण्डले कन्याकुमारी इति पत्तनम् अपि अस्ति, यत् भारतभूप्रदेशस्य दक्षिणाग्रम् अस्ति । किन्तु अस्य मण्डलस्य केन्द्रस्थानं नागरकोयिल् पत्तनम् । इदं मण्डलं सरसां मण्डलम् इति, भूमेः अन्तः इति च प्रसिद्धम् अस्ति ।
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
स्वातन्त्र्यात् प्राक् कन्याकुमारीमण्डलं तिरुविताङ्कूरु (ट्रावङ्कूर्) राज्यस्य भागः आसीत् । ततः केरलराज्यस्य निर्माणात् पूर्वं तिरुविताङ्कूरु-कोच्चिन् राज्ये आसीत् । तदनन्तरकाले केरलस्य तिरुवनन्तपुरमण्डलस्य अष्ट उपमण्डलानि पृथक्कृत्य कन्याकुमारीमण्डलं रचितम् । १९५६तमवर्षस्य राज्य-पुनर्विभाग-समितेः सूचनानुगुणम् इदं मण्डलं मद्रास्रा्ज्यस्य भागः अभवत् । मद्रास्-राज्यस्य एव तदनन्तरकाले तमिऴ्नाडु इति नामकरणम् अभवत् ।
भौगोलिकम् [सम्पादयतु]
कन्याकुमारीमण्डलस्य तिसृषु दिशासु समुद्रम् अस्ति । उत्तरसीमायां [[पश्चिमघट्टपर्वतश्रेणिः अस्ति । पश्चिमसीमायां केरलराज्यस्य तिरुवनन्तपुरमण्डलम्, उत्तरे पूर्वत्र च तमिऴ्नाडुराज्यस्य तिरुनेल्वेलीमण्डलम् अस्ति । आग्नेयदिशि बङ्गालसमुद्रस्य मन्नार् समुद्रकुक्षिः (गल्फ़् आफ़् मन्नार्) अस्ति । दक्षिणसीमायां हिन्दूमहासमुद्रम्, नैर्ऋत्यदिशायां अरब्बीसमुद्रं च अस्ति ।
जनसंख्या [सम्पादयतु]
२०११ जनगणनानुगुणं कन्याकुमारीमण्डले १,८६३,१७४ जनाः सन्ति । इदं मण्डलं ८२.४७% नगरीकृतम् अस्ति । चेन्नैमण्डलम् अतिरिच्य तमिऴ्नाडुराज्ये कन्याकुमारीमण्डले एव जनसान्द्रता अत्यधिका – ११०६ प्रतिचतुरश्रकिलोमीटर् । अत्रत्यं साक्षरताप्रमाणं ९०.२५% अस्ति । इदम् अस्मिन् राज्ये अत्यधिकम् । अत्र स्त्रीलिङ्गानुपातः अपि अधिकः अस्ति । पुं-स्त्री अनुपातः १०००:१०१० अस्ति ।
उपमण्डलानि [सम्पादयतु]
कन्याकुमारीमण्डले चत्वारि उपमण्डलानि सन्ति ।
- तोवळै
- अगस्तीश्वरम्
- कल्गुळम्
- विळवङ्गोडु
वीक्षणीयस्थलानि [सम्पादयतु]
कन्याकुमारी [सम्पादयतु]
अत्रत्यं प्रमुखं वीक्षणीयस्थानं समुद्रतीरे स्थितं कुमारी अम्मन् (कन्याकुमारी)) मन्दिरम् । अयं देव्याः पार्वत्याः शक्तिपीठेषु अन्यतमः । अत्र पार्वती परमेश्वरं प्राप्तुं तपः कृतवती इति श्रूयते । कन्याकुमारीमन्दिरस्य आग्नेयदिशि समुद्रमध्ये १९७०तमे वर्षे निर्मितं विवेकानन्दशिलास्मारकम् अस्ति । अस्यां शिलायां स्वामी विवेकानन्दः दिनत्रयं यावत् ध्यानं कृतवान् । अत्र ध्यानमण्डपः अपि अस्ति, यत्र ध्यानार्थं शान्तं स्थानं लभ्यते । अत्रैव तमिऴ्सन्तकवेः तिरुवळ्ळुवरस्य १३३ पादोन्नता मूर्तिः अस्ति । इयं मूर्तिः २००० तमे वर्षे शिल्पिना गणपति स्थपतिना निर्मिता एषियादेशस्य अत्युन्नतासु मूर्तिषु अन्यतमा । महात्मनः गान्धेः अस्थिभस्म सागरे निमज्जनात् पूर्वं कन्याकुमार्याम् एव स्थापितम् आसीत् । तस्मिन् स्थले अद्य गान्धीस्मारकं तिष्ठति । अस्य स्मारकस्य निर्माणवैशिष्ट्यं यत् तस्य जन्मदिने अक्टोबर् मासस्य द्वितीये दिनाङ्के प्रथमे सूर्यकिरणाः अस्तिभस्मस्थापनस्थले एव पतन्ति ।
हिन्दूमहासमुद्रे सुनामी [सम्पादयतु]
२००४तम वर्षस्य डिसेम्बर् मासे २६ दिनाङ्के दक्षिण-आग्नेयएषियादिशोः बहवः देशाः सुनामीनामकेन समुद्रचण्डमारुतेन आक्रान्ताः । भारते सुनामीकारणेन पीडितेषु मण्डलेषु कन्याकुमारी अपि अन्यतमम् । अत्र नवशतेभ्यः अधिकाः जनाः मृताः, सहस्रशः जनाः तिरोभूताः, व्रणिताः वा । तदारभ्य सर्वकारीयाः तदितराः च समाजसेवासङ्घाः पीडितानां जनानां पुनर्वसतिं कल्पयितुं प्रयतमानाः सन्ति ।
पद्मनाभपुरराजभवनम् [सम्पादयतु]
इदं राजभवनं ग्रानैट्शिलानिर्मिते पद्मनाभपुरदुर्गे अस्ति । पश्चिमघट्टश्रेण्याः वेलिगिरेः पादभूमौ अयं दुर्गः अस्ति । समीपे एव वल्लीनदी प्रवहति ।
वट्टक्कोट्टै दुर्गः [सम्पादयतु]
अस्य नाम्नः ‘वृत्ताकारस्य दुर्गः’ इत्यर्थः । अयं क्रिस्तीये अष्टादशे शतके निर्मितः । समुद्रतीरे कन्याकुमारीपत्तनतः ६ किलोमीटर् दूरे अयं दुर्गः अस्ति ।
शुचीन्द्रम् [सम्पादयतु]
अत्र स्तनुमलयदेवालयः अस्ति, यत्र विविधराजवंशानां कलाकृतयः लभ्यन्ते । नवमशतमानस्य शिलालेखाः, सङ्गीतस्तम्भाः, हनूमतः ६ मीटर् उन्नता मूर्तिः इत्यादयः अत्र बहु प्रसिद्धाः । अत्रत्यः मुख्यः आराध्यः देवः शिवलिङ्गरूपेण त्रिमूर्तीनां ब्रह्म-विष्णु-शिवानाम् ऐक्यं द्योतयति ।
पञ्चपदीक्षेत्राणि [सम्पादयतु]
अय्यावऴितत्त्वानुसारिणां पवित्राणि इमानि पञ्च क्षेत्राणि कन्याकुमार्याः पञ्चदशकिलोमीटर् परिधौ सन्ति । स्वामितोप्पुपदी, मुत्तप्पदी, तामरैकुळम्पदी, अम्बालप्पदी, पूप्पदी इति इमानि पञ्च क्षेत्राणि ।
नागरकोयिल् [सम्पादयतु]
अस्मिन् पत्तने नागराजदेवालयः, शिवविष्ण्वोः देवालयः च अस्ति । कोट्टार्प्रदेशे सन्त ज़ेवियरस्य क्रैस्तदेवालयः अपि अस्ति ।
उदयगिरिदुर्गः [सम्पादयतु]
राज्ञा मार्ताण्डवर्मणा निर्मितः अयं दुर्गः । अत्र कास्टिङ्ग्प्रभेदस्य गोलिकास्त्राणां निर्माणकार्यागारः अस्ति । तस्य राज्ञः विश्वासपात्रस्य यूरोप्यसेनानायकस्य डे लेन्नायस्य समाधिः अपि अत्र अस्ति । सम्प्रति उदयगिरिदुर्गः जीववैविध्योद्यानम्, अरण्यविभागेन निर्वाह्यमानम् अस्ति ।
मात्तूरु जलसङ्क्रमः [सम्पादयतु]
कन्याकुमारीमण्डलस्य तिरुवत्तरसमीपे विद्यमानः अयं जलसङ्क्रमः द्वयोः पर्वतयोः मध्ये स्थितः कृषिकार्यार्थं जलं वहति । उन्नतानां स्तम्भानाम् आधारेण निर्मितः अयं जलसङ्क्रमः औन्नत्ये दैर्घ्ये च एषियाखण्डे एव बृहत्तमेषु अन्यतमः । जलसङ्क्रमस्य मध्यात् परितः विद्यमानानां गिरीणाम्, अरण्यप्रदेशानाम्, अधः प्रवहन्त्याः नद्याः च मनोहरः दृश्यः हृदयम् आह्लादयति ।
चितारल् जैनचैत्यानि [सम्पादयतु]
मार्ताण्डतः ३५ किलोमीटर् दूरे स्थितानि इमानि चैत्यानि । अत्र नवमशतकस्य एकादशशतकस्य च जैनगुहाः मूर्तयः च सन्ति । तिरुनन्दिक्करदेवालयः – अयं पल्लवशैल्याः शिलाच्छेदनेन निर्मितः गुहादेवालयः, क्रिस्तीये सप्तमे अष्टमे वा शतके निर्मितः ।
उल्लगरुविजलपातः [सम्पादयतु]
नागरकोयिलात् २० किलोमीटर् दूरे अयं जलपातः अस्ति । पश्चिमघट्टप्रदेशे पर्वतमध्ये स्थितः एषः ।
- ↑ 2011 Census of India (Excel). Indian government (16 April 2011).