मधुरैमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
मधुरैमण्डलम्

மதுரை மாவட்டம்

—  मण्डलम्  —
मधुरैनगरस्य सूर्योदयः


Location of मधुरैमण्डलम्
in तमिऴ्‌नाडु
निर्देशाङ्काः

9°55′15.96″N 78°6′36″E / 9.9211°N 78.11°E / 9.9211; 78.11

देशः भारतम्
राज्यम् तमिऴ्‌नाडु
केन्द्रप्रदेशः मधुरैनगरम्
बृहत्तमं नगरम् मधुरैनगरम्
Collector श्री यु। सगयम्, IAS
सांसदक्षेत्रम् 1
विधानसभा 10
Municipal Corporations मधुरैनगरम्
जनसङ्ख्या

• सान्द्रता

[१] (2011)

८२३ /km2 ( /sq mi) (2011)

लिङ्गानुपातः M-50.5%/F-49.5% /
साक्षरता

• Male
• Female

81.5%% 

• 86.55%%
• 76.74%%

Language(s) तमिऴ्,तेलुगु, सौराष्ट्र, आङ्ग्लभाषा,हिन्दीभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• तीरप्रदेशः

३,७४१.७३ square kilometres (. sq mi)

० kilometres (0 mi)

जालस्थानम् Official website of Madurai District


भारतस्य तमिऴ्नाडु राज्यस्य द्वात्रिंशतौ मण्डलेषु मधुरैमण्डलम् (Madurai district) अन्यतमम् । अस्य केन्द्रस्थानं मधुरैनगरम् । वेङ्गैनद्याः तीरे स्थिते अस्मिन् नगरे विश्वप्रसिद्धः मीनाक्षीसुन्दरेश्वरदेवालयः अस्ति । काज़िमर पेरियपल्लिवासल् तथा काज़िमरमार्गे विद्यमानं मदुरै मक्बारा अस्य नगरस्य पुरातने इस्लां स्मारके । तिरुप्परङ्कुड्रम् अस्मिन् मण्डले अपरं प्रसिद्धं प्रवासिस्थानम् ।

इतिहासः[सम्पादयतु]

मधुरै ‘पूर्वदिशः अथेन्स् नगरी’ इति विख्याता अस्ति । तमिऴ्भाषयां एतत् नगरं ‘तूङ्गानगरम्’, अर्थात् ’निद्रारहिता नगरी’ इति वदन्ति । देवालयानां नगरम् इत्यपि मधुरैनगरं ख्यातम् । क्रिस्तपूर्वे तृतीयशतके अपि मधुरैप्रान्तस्य उल्लेखः दृश्यते । भारतं प्रति आगतेन ग्रीक् राजदूतेन मेगास्थानीसेन, चन्द्रगुप्तमौर्यस्य सचिवेन कौटिल्येन च मधुरैनगरम् उल्लिखितम् अस्ति । इदं नगरं चतुर्दशशतकं यावत् तमिऴ्नाडु, केरलराज्ययोः दक्षिणभागं प्रशासितवतां पाण्ड्यानां राजधानी आसीत् । १३११ तमे वर्षे देहलीसुल्तानैः पाण्ड्याः पराजिताः । तैः सुल्तानैः माबार् प्रान्तः स्थापितः । ततः तस्य प्रशासकाः माबार् सुल्तानाः इति स्वातन्त्र्यं प्राप्तवन्तः । ततः चतुर्दशशतकस्य अन्ते विजयनगरस्य राजभिः मधुरैमण्डलं जितम् । १५५९ तः १७३६ पर्यन्तं मधुरैनायकाः राज्यभारं कृतवन्तः । १८०१ तमे वर्षे मधुरैनगरं ब्रिटिश् ईस्ट् इण्डिया संस्थया वशीकृतम् ।

भौगोलिकम्[सम्पादयतु]

मधुरैमण्डलस्य विस्तारः ३,७४१ चतुरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे दिण्डुक्कल् मण्डलम्, ईशान्ये तिरुकिरापळ्ळिमण्डलं पूर्वत्र शिवगङ्गामण्डलं, दक्षिणभागे विरुदुनगरमण्डलं, पश्चिमे तेनिमण्डलं च अस्ति ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं मधुरैमण्डलस्य जनसंख्या ३,०४१,०३८ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ११९ तमं स्थानम् । जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ८२३ अस्ति । (२१३० प्रतिचतुरश्रमैल्) । २००१-२०११ दशके जनसंख्यावॄद्धिः १७.९५% आसीत् । अस्मिन् मण्डले पुं, स्त्री अनुपातः १०००:९९० अस्ति । साक्षरताप्रमाणं ८१.६६% ।

उपमण्डलानि[सम्पादयतु]

मधुरैमण्डले सप्त उपमण्डलानि सन्ति –

  • मधुरै (उत्तरम्)
  • मधुरै (दक्षिणम्)
  • तिरुमङ्गलम्
  • पेरैयूरु
  • उसिलम्पट्टि्
  • वाडिप्पट्टि
  • मेलूरु

वीक्षणीयस्थलानि[सम्पादयतु]

मधुरै मीनाक्षीमन्दिरम्[सम्पादयतु]

मधुरैमीनाक्षीमन्दिरम्
मीनाक्षीदेवी

‘तिरु आलवाय्’ इति ख्यातः मीनाक्षीदेवालयः मधुरैनगरे वेङ्गैनद्याः दक्षिणभागे अस्ति । अत्रत्या आराध्यदेवी मीनाक्षीनाम्ना ख्याता पार्वतीदेवी, तस्याः पतिः सुन्दरेश्वरः च । ४५-५० मीटर् उन्नतानि चतुर्दशगोपुराणि देवालये सन्ति । मीनाक्षीसुन्दरेश्वरयोः गर्भगृहस्य उपरि द्वे सुवर्णविमाने च स्तः । तमिऴितिहासे बहुप्राचीनकाले अपि अस्य मन्दिरस्य उल्लेखः दृश्यते । किन्तु अद्य विद्यमानं मन्दिरं क्रिस्तीय १६२३ तः १६५५ तमवर्षयोः मध्ये निर्मितम् । अस्मिन् मन्दिरे प्रायः ३३००० शिल्पाः सन्ति । अत्र प्रतिदिनं १५००० जनाः, शुक्रवासरेषु २५००० जनाः च आगच्छन्ति । प्रतिवर्षम् एप्रिल्, मे मासयोः आचर्यमाणे मीनाक्षीकल्याणमहोत्सवे दशलक्षभक्ताः भागं वहन्ति ।

भगिन्याः मीनाक्ष्याः शिवाय कन्यादानं कुर्वाणः विष्णुः


कुट्लडम्पट्टिजलपातः[सम्पादयतु]

अयं मधुरैमण्डलस्य वाडिप्पट्टि उपमण्डले कुट्लडम्पट्टिग्रामे मधुरैपत्तनात् ३० किलोमीटर् दूरे विद्यमानः मानवनिर्मितजलपातः । अयं जलपातः तमिऴ्नाडुसर्वकारेण निर्वाहिते संरक्षितारण्यप्रदेशे अस्ति । जलपातस्य औन्नत्यं २७ मीटर् (८९ पादाः) ।

कूडल् अळगर् कोयिल्[सम्पादयतु]

विष्णोः अयं देवालयः मधुरैपत्तनस्य मध्ये अस्ति । ‘कूडल्’ इति मधुरैनगरस्य एव अपरं नाम । ‘अऴगर्’ इत्यस्य तमिऴ्भाषायां ‘सुन्दरः’ इति अर्थः । अयं देवालयः अत्यन्तं प्राचीनः, मीनाक्षीदेवालयस्य समीपे एव अस्ति । श्रीवैष्णवानां पवित्रेषु १०८ दिव्यदेशेषु इदमपि अन्यतमम् ।

तेप्पक्कुळम्[सम्पादयतु]

अयं मधुरैनगरे मीनाक्षीदेवालयात् ५ किलोमीटर् दूरे विद्यमानः मानवनिर्मितः तडागः । अस्य विस्तारः १६ एकर् । अयं दक्षिणभारते एव बृहत्तमः तडागः । अयं तडागः राज्ञा तिरुमलनायकेन निर्मितः । भूमिगतवाहिनीभिः वेङ्गैनदीतः एतं तडागं प्रति जलम् आगच्छति । तडागस्य मध्ये विनायकदेवालयः अस्ति । तडागस्य समीपे मारियम्मदेवालयः अपि अस्ति । अतः अयं ‘मारियम्मन् तेप्पकुऴम्’ इति ख्यातः ।

तिरुप्परकुण्ड्रं मुरुगदेवालयः[सम्पादयतु]

अयं कार्तिकेयस्य ‘आरुपडैवीडु’क्षेत्रेषु अन्यतमम् । अत्रैव कार्तिकेयः इन्द्रस्य पुत्रीं देवयानीम् ऊढवान् इति पुराणकथा । अयं देवालयः मधुरैनगरात् ८ किलोमीटर् दूरे अस्ति । मुख्यदेवालये न केवलं सुब्रह्मण्यस्य, अपि तु शिवः, विष्णुः, विनायकः, दुर्गाणाम् आलयाः सन्ति ।

तिरुमलनायकभवनम्[सम्पादयतु]

इदं राजभवनं मधुरैमण्डलस्य राज्ञा तिरुमलनायकेन १६३६ तमे वर्षे निर्मितम् । अस्मिन् राजभवने द्राविड-इस्लामीयशिल्पशैल्योः संमिश्रणं दृश्यते । इदं राष्ट्रियं स्मारकं, तमिऴ्नाडुराज्यस्य पुरातत्त्वशास्त्रविभागेन निरुह्यमानम् अस्ति ।

गान्धीवस्तुसङ्ग्रहालयः[सम्पादयतु]

मधुरैनगरे क्रिस्तीये १९५९ तमे वर्षे महात्मागान्धेः स्मरणार्थम् अयं वस्तुसङ्ग्रहालयः स्थापितः । भारतस्य पञ्चसु गान्धिसङ्ग्रहालयेषु अयम् अन्यतमः । अत्र भारतस्य स्वातन्त्र्यसङ्ग्रामविषये २६५ चित्राणां प्रदर्शिनी अस्ति । ततः गान्धेः ‘दृश्यजीवनगाथा’ दृश्यते, यत्र गान्धेः जीवनसम्बद्धानि छायाचित्राणि, चित्राणि, शिल्पाः, ताडपत्राणि, गान्धिना लिखितानां पत्राणां प्रतिकृतयः च सन्ति । अवशेषाणां विभागे गान्धिना उपयुक्तानि १४ वस्तूनि दृश्यन्ते । अत्र नाथूरामगोडसेद्वारा हननसमये गान्धिना धृतस्य रक्तसिक्तस्य वस्त्रस्य भागः अपि अस्ति ।

आधाराः[सम्पादयतु]

  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
  2. www.tn.gov.in

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=मधुरैमण्डलम्&oldid=242794" इत्यस्माद् पुनः प्राप्तिः