नीलगिरीमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
नीलगिरीमण्डलम्
—  मण्डलम्  —
नीलगिरीप्रदेशे रैलयानम्
देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलम् नीलगिरीमण्डलम्
Established February 1882
Headquarters उदकमण्डलम्
उपमण्डलानि ऊटी, कुन्दा, कूनूरुः, कोटगिरिः, गुडलूरुः, पण्डलूरुः
सर्वकारः
 • Collector & District Magistrate अर्चना पट्नायिक्, IAS
विस्तीर्णम्
 • मण्डलम् ५,३५२ Square km (२,०६६.४ Square mile)
औन्नत्यम्
नीलगिरीमण्डलम्
जनसङ्ख्या (2011)[१]
 • मण्डलम् ७,३५,०७१
 • महानगरम् ४,५४,६०९
भाषाः
भारतीय कालमानः(IST) (UTC+5:30)
पत्राचाराङ्कित संख्या(Postal Index Number 643001
दूरवाणि सङ्केतसंख्या(Telephone Code) 0423
ISO 3166 code [[ISO 3166-2:IN|]]
वाहनपञ्जीकरणम् TN-43
Coastline ० kilometres (0 mi)
बृहत्तमं नगरम् उदकम्ण्डलम्
Sex ratio M-49.6%/F-50.4% /
साक्षरता 80.01%%
Legislature type elected
Legislature Strength 3
IUCN category
Precipitation ३,५२०.८ millimetres (. in)
Avg. annual temperature { °C ( °F)
Avg. summer temperature ६ °C ( °F)
Avg. winter temperature { °C ( °F)
जालस्थानम् nilgiris.nic.in

नीलगिरिमण्डलं (Nilgiris district) (तमिऴ्:நீலகிரிமாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । नीलगिरिपर्वताः तमिऴ्नाडु, कर्णाटक, केरलराज्येषु प्रसृताः सन्ति । अस्य मण्डलस्य बहुभागः नीलगिरिपर्वतप्रदेशे अस्ति। अस्य मण्डलस्य केन्द्रस्थानम् ऊटी । २००९ तमे वर्षे वित्तनिर्वहण संशोधनासंस्थया कृते आर्थिकपरिसरसर्वेक्षणे नीलगिरिमण्डलस्य प्रथमं स्थानं लब्धम् । २०११ जनगणनानुगुणं न्यूनजनसंख्याकासु मण्डलेषु तमिऴ्नाडुराज्ये नीलगिरिमण्डलस्य द्वितीयं स्थानम् । (न्यूनतमा जनसंख्या अस्ति पेरम्बलूरुमण्डले) । नीलगिरिमण्डलं नीलगिरितैलेन गुणवत्तमैः टीपर्णैः च प्रसिद्धम् अस्ति ।

इतिहासः[सम्पादयतु]

अस्मिन् पर्वतप्रदेशे प्रायेण धूमः दृश्यते, अतः अस्य नीलगिरिः इति नाम इति केचन वदन्ति । द्वादशवर्षेषु सकृत् प्रफुल्लितानां कुरिञ्जिपुष्पाणां कारणेन इदं नाम इत्यपि पक्षः अस्ति ।

नीलगिरेः ऊटीप्रदेशः मूलतः तोडसमुदायस्य आदिवासिनां, कोटगिरिप्रदेशः च कोटसमुदायस्य आदिवासिनां स्थानम् आसीत् । अस्य मण्डलस्य पर्वतप्रदेशेषु बडगसमुदायस्य जनाः अपि आधिक्येन दृश्यन्ते । यद्यपि वाल्मीकिरामायणे एव नीलगिरिपर्वतानाम् उल्लेखः दृश्यते, तथापि १६०२ पर्यन्तम् एते पर्वताः पाश्चात्त्यैः अविज्ञाताः आसन् । फ़ेरीरिनामकः कश्चन पोर्चुगीसः अर्चकः एतान् पर्वतान् समीक्षितवान् । ततः अष्टादशशतमाने आङ्ग्लाः एतेषां पर्वतानां सर्वेक्षणं कर्तुं प्रयतितवन्तः । कोयम्पुत्तूरुप्रदेशस्य तदानीन्तनः समाहर्ता जान् सुलिवानः नीलगिरिपर्वतानाम् अध्ययनार्थं द्वौ सर्वेक्षकौ प्रेक्षितवान् । तौ ऊट्याः अधस्तनप्रदेशपर्यन्तं गतवन्तौ, तथापि सम्पूर्णायाः उपत्यकायाः दर्शनं कर्तुम् असमर्थौ आस्ताम् । १८१९ तमे वर्षे जे.सि.विष् तथा एन्.डब्ल्यू.किण्डर्स्ले इत्येतौ मद्रास् प्रशासनसेवायाः कर्मचारिणै एतं प्रदेशं समीक्ष्य ‘यूरोपखण्डसदृशवायुगुणयुक्तः कश्चन प्रदेशः अस्माभिः दृष्टः’ इति वार्ताम् आनीतवन्तः । ततः प्रभृति अत्र यूरोपीयजनाः स्वीयं ग्रीष्मनिवासं कल्पयितुम् आरब्धवन्तः । तदनन्तरं ग्रीष्मकाले सर्वकारः अपि एतस्माद् एव प्रदेशात् कार्यं निर्वहति स्म ।

भौगोलिकम्[सम्पादयतु]

अस्य मण्डलस्य विस्तारः २,४५२.५० चतुरश्रकिलोमीटर् । मण्डलस्य बहुभागः गिरिप्रदेशः, समुद्रस्तरात् २००० तः २६०० मीटर् औन्नत्ये अस्ति । अस्य मण्डलस्य उत्तरभागे कर्णाटकराज्यस्य मैसूरुमण्डलं, केरलराज्यस्य वयनाडुमण्डलं च अस्ति । पश्चिमे केरलस्य मलप्पुर, पालक्काडुमण्डले स्तः । दक्षिणे तमिऴ्नाडुराज्यस्य कोयम्पुत्तूरुमण्डलं, पूर्वदिशि तमिऴ्नाडोः ईरोडुमण्डलं तथा कर्णाटकस्य चामराजनगरमण्डलं च अस्ति ।

गिरिप्रदेशः इति कारणेन नीलगिरिमण्डलस्य वायुगुणः परितः विद्यमानेभ्यः समभूमिप्रदेशेभ्यः शीतलः । अतः ग्रीष्मकाले आतपात् त्रस्ताः जनाः अत्र आगन्तुम् इच्छन्ति । ग्रीष्मकाले उष्णांशः अधिकाधिकं २५० सी भवति, न्यूनातिन्यूनं १०० सी । शिशिरकाले तु २०० सी तः ४०० सी पर्यन्तम् उष्णांशे व्यत्ययः दृश्यते । अत्रत्याः पर्वतोपत्यकाः इङ्ग्लेण्डस्य ‘डौन्’प्रदेशसदृशाः सन्ति ।

नैर्ऋत्यप्रावृषा, ईशान्यप्रावृषा च अस्मिन् मण्डले वृष्टिः भवति । मण्डलस्य वार्षिकवृष्टेः प्रमाणं १९२० मिलिमीटर् । मण्डलस्य प्रमुखं पत्तनम् उदकमण्डलम् (ऊटी/ओटाकमण्ड्) । अन्यानि प्रमुखपत्तनानि कूनूरुः, कोटगिरिः, गुडलूरुः, अरुवङ्गाडुः च ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं नीलगिरिमण्डलस्य जनसंख्या ७,३५,०७१ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ४९५ तमं स्थानम् । अत्रत्या जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् २८८ (७५० प्रतिचतुरश्रमैल्) भवति। २००१-२०११ दशके जनसंख्यावृद्धिः -३.५५% आसीत् । अत्र पुं, स्त्री अनुपातः १०००:१०४१, साक्षरताप्रमाणं च ८५.६५% अस्ति ।

नीलगिरिमण्डले बहवः आदिवासिसमुदायाः वसन्ति, येषां मूलविषये निर्दिष्टं ज्ञानं नास्ति । तेषु प्रमुखाः तोडाः, कोटाः, च भवति। तेषां जीवनं पशुपालनाधारेण चलति । पनियासमुदायस्य आदिवासिनः, बडगसमुदायस्य जनाः च अपि अस्मिन् मण्डले अधिकसंख्यायां वसन्ति । एतेषां चतुर्णाम् अपि समुदायानां स्वीयाः भाषाः विद्यन्ते । तदतिरिच्य तमिऴ्, कन्नडम्, मलयालम्, हिन्दी, आङ्ग्लम् इत्येताः भाषाः अत्र श्रूयन्ते ।

उपमण्डलानि[सम्पादयतु]

नीलगिरिमण्डले षड् उपमण्डलानि सन्ति ।

  • ऊटी
  • कुन्दा
  • कूनूरुः
  • कोटगिरिः
  • गुडलूरुः
  • पण्डलूरुः

कृषिः[सम्पादयतु]

नीलगिरिमण्डले प्राधान्येन फलपुष्पशाकानां कृषिः दृश्यते । आलुकम्, हरितम्, कारट्, टी, काफ़ी, उपस्कराः, फलानि इत्येतेषां कृषिम् आधारीकृत्य अत्रत्या आर्थिकता चलति । नीलगिरितैलम् अपि अत्र उत्पाद्यते । अस्मिन् मण्डले जलसेचनार्थं विशेषव्यवस्था कापि नास्ति । वृष्टेः आधारेण एव कृषिकार्यं भवति । क्वचित् नैसर्गिकनिर्झराणां जलं सङ्ग्रहीतुं जलबन्धाः निर्मिताः सन्ति ।

जीववलयाः[सम्पादयतु]

नीलगिरिमण्डले द्वौ जीववलयौ दृश्येते । २५० तः १००० मीटर् औन्नत्ये नैर्ऋत्यघट्टानाम् आर्द्रपातुकारण्यानि सन्ति । एतानि अरण्यानि पश्चिमघट्टप्रदेशे भारतस्य दक्षिणाग्रपर्यन्तं दृश्यन्ते । अत्र बहुविधाः वृक्षाः सन्ति, येषां पर्णानि शिशिरकाले पतन्ति । अत्र भारतदेशे एव अत्यधिकसंख्याकाः एषियागजाः वसन्ति । अयं प्रदेशः भारते शिष्टेषु प्रमुखः व्याघ्रनिवासप्रदेशः अपि भवति।

१००० मीटर् तः अधिके औन्नत्ये नैर्ऋत्यघट्टानां मोण्टेन् वर्षारण्यानि दृश्यन्ते । एतेषु नित्यहरिद्वर्णारण्येषु भूमौ अत्यधिकं जीविवैविध्यम् अस्ति । १५०० मीटर्‌ तः अधिके औन्नत्ये शोला इत्याख्याः प्रदेशाः दृश्यन्ते, यत्र वामनाः वृक्षाः सन्ति । मध्ये मध्ये तृणभूमयः अपि भवन्ति । एषु प्रदेशेषु एव नीलगिरि थार् मृगः वसति । अयं मृगः आकारेण अजसदृशः, अस्य कुटिलौ शृङ्गौ भवतः । एते मृगाः केवलं नैर्ऋत्यघट्टप्रदेशस्य मोण्टेन् तृणभूमिषु दृश्यन्ते । अद्य एषां संख्या प्रायः २००० एव अस्ति । अतः एते उपविनाशं विद्यमानेषु जीविषु परिगण्यन्ते ।

नीलगिरिमण्डले त्रयः संरक्षितारण्यप्रदेशाः सन्ति । घट्टस्य उत्तरभागे कर्णाटक, केरल, तमिऴ्नाडुराज्यानां सन्धिप्रदेशे मुदुमलै संरक्षितारण्यम् अस्ति । अस्य विस्तारः ३२१ चतुरश्रकिलोमीटर् अस्ति। घट्टस्य नैर्ऋत्ये केरलराज्ये ७८.५ चतुरश्रकिलोमीटर् विस्तीर्णं मुकुर्तिसंरक्षितारण्यम् अस्ति । अत्र नीलगिरिथारस्य निवासस्थानभूताः शोलातृणभूमयः अबाधिताः सन्ति । एतयोः संरक्षितारण्ययोः दक्षिणभागे ८९.५२ चतुरश्रकिलोमीटर् विस्तीर्णं मौनोपत्यका (सैलेण्ट् वाली) राष्ट्रोद्यानम् अस्ति । एतेभ्यः संरक्षितप्रदेशेभ्यः बहिः मूलारण्यस्य बहुभागः पशूनां चरणार्थं, टी, काफ़ी, नीलगिरि अकेशियादीनां कृषिनिमित्तं वा विनाशितम् अस्ति । अयं सम्पूर्णः प्रदेशः १९८६ तमे वर्षे नीलगिरिसंरक्षितजीववलये अन्तर्भूतः । अयं भारतस्य प्रथमः संरक्षितजीववलयः ।

वीक्षणीयस्थलानि[सम्पादयतु]

नीलगिरिमण्डले बहूनि सुन्दराणि गिरिधामानि सन्ति । तेषु उदकमण्डलम् (ऊटी), कूनूरुः, कोटगिरिः च प्रमुखाः । क्रीडनकरैलयानम् (टाय् ट्रैन्) इत्येव जनप्रियं नीलगिरिरैलयानं प्रवासिनः आकर्षति । अनेन प्रयाणे परितः विद्यमानानां गिरीणाम् अरण्यानां च कमनीयदृश्यं मनः हरति । ऊटीपत्तनस्य सस्यशास्त्रीयोद्याने तमिऴ्नाडुसर्वकारेण प्रतिवर्षं पुष्पप्रदर्शनम् आयोज्यते । इदं प्रदर्शनं बहु जनप्रियम् अस्ति । अत्र विशिष्य पाटलपुष्पाणां भव्यं प्रदर्शनं भवति । कूनूरौ सिम्स् उद्यानं प्रसिद्धम् अस्ति । अत्र ग्रीष्मकाले फलप्रदर्शनं भवति । तस्मिन् प्रदर्शने अनेकविधानि फलानि द्रष्टुं शक्यन्ते । कोटगिरिमार्गे इदम् उद्यानम् अस्ति । नीलगिरिमण्डलस्य आदिवासिनां जीवनशैल्याम् आसक्ताः प्रवासिनः अपि अत्र आगच्छन्ति । पर्वतोपत्यकासु बृहन्ति टीक्षेत्राणि, शाकक्षेत्राणि च सन्ति । एतानि द्रष्टुम् अपि बहवः जनाः आगच्छन्ति । मण्डलस्य इतराणि जनप्रियस्थानानि पैकराजलपातः, दोड्डबेट्टशिखरः, अवलाञ्च् शिखरः च भवति।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  1. "2011 Census of India" (Excel). Indian government. 16 April 2011. 
"http://sa.wikipedia.org/w/index.php?title=नीलगिरीमण्डलम्&oldid=270215" इत्यस्माद् पुनः प्राप्तिः