पुदुक्कोट्टैमण्डलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(पुडुक्कोट्टै मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
पुदुक्कोट्टै मण्डलम्
कन्धगपूमि
—  मण्डलम्  —
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलानि पुदुक्कोट्टै मण्डलम्
उपमण्डलानि पुदुक्कोट्टै, करम्बक्कुडिः, आलङ्गुडिः, अरन्तङ्गिः, तिरुमायम्, पोन्नमरावतिः, गन्धर्वकोट्टै, अवुडैयर्कोविलः, मनमेल्कुडिः, कुलत्तूरुः,

इल्लुप्पूरुः

पुदुक्कोट्टै 14th जनवरी 1974
केन्द्रप्रदेशानि पुदुक्कोट्टै
बृहत्तमं नगरम् पुदुक्कोट्टै
समीपतमं नगरम् तिरुचिरापल्लि, तंजावूरु
Collector & District Magistrate बि। महेश्वरी,IAS
[[तमिऴ्‌नाडु राज्यस्य संसत्|संसत्]] (स्थानानि) निर्वाचितम् ()
सांसदक्षेत्रम् 0
अधिवेशनसभा 6
जनसङ्ख्या

सान्द्रता

१६,१८,७२५ (2011)

३४७ /km2 ( /sq mi) (2011)

लिङ्गानुपातः पुरुष-50%/स्त्री-50% /
साक्षरता

• Male
• Female

80%% 

• 80%%
• 65%%

व्यावहारिकभाषा(ः) तमिळ्, आङ्ग्लभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• तीरप्रदेशः

४,६६३ square kilometres ( sq mi)

४२ kilometres ( mi)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः


     ८२७ mm (. in)

     ४०.९ °C (. °F)
     १७.८ °C (. °F)

Central location: 10°15′N 78°55′E / 10.25°N 78.917°E / 10.25; 78.917
जालस्थानम् Official website of District Collectorate, Pudukkottai

पुदुक्कोट्टैमण्डलं(तमिऴ्:புதுக்கோட்டைமாவட்டம் आङ्ग्लम्: Pudukkottai District) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं पुदुक्कोट्टैनगरम् । तमिऴ्भाषायां इदं मण्डलं पुदुगै इति प्रसिद्धम् अस्ति ।

अन्तर्विषयाः

भौगोलिकम् [सम्पादयतु]

पुदुक्कोट्टैमण्डलस्य विस्तारः ४६६३ चतुरश्रकिलोमीटर् । अत्र ४२ किलोमीटर् दीर्घं समुद्रतीरम् अस्ति । अस्य ईशान्यदिशि पूर्वदिशि च तञ्जावूरुमण्डलम्, आग्नेयदिशि पाक् जलसङ्क्रमः, नैर्ऋत्ये रामनाथपुरमण्डलं तथा शिवगङ्गामण्डलम्, पश्चिमवायव्यदिशयोः तिरुचिराप्पळ्ळिमण्डलं च अस्ति ।

इतिहासः [सम्पादयतु]

ऐतिहासिककालाद् अपि प्राक् अस्मिन् प्रदेशे जनवसतिः आसीद् इति अत्र दृष्टैः पुरातनावशेषैः ज्ञायते । भिन्नेषु कालेषु अत्र पाण्ड्यानां, चोळानां, पल्लवानां, होय्सळानां, विजयनगरराजानां, मधुरैनायकानां च प्रशासनम् आसीत् । अतः अत्रत्ये सामाजिकजीवने, संस्कृतौ, वाणिज्ये, उद्यमेषु सर्वेषाम् एतेषां प्रभावः दृश्यते । तमिऴ्भाषायाः अतिप्राचीने सङ्गमसाहित्ये अस्य मण्डलस्य केषाञ्चन प्रदेशानाम् उल्लेखः अस्ति । पुरनानूरौ तिरुमायम्-उपमण्डलस्य ओलियमङ्गलम् ‘ओल्लैयूरु’ इति उच्यते । इदं कवेः ओल्लैयूरु किलन् मकन् पेरुञ्चत्तानस्य ओल्लैयूरु तन्दबुधपाण्ड्यस्य च जन्मस्थलम् । अगनानूरौ अपि ओल्लैयूरोः उल्लेखः अस्ति । इदं नगरं पाण्ड्यकाले प्रामुख्यम् अभजत ।

सङ्गमकाले अस्मिन् मण्डले पाण्ड्यानां प्रशासनम् आसीत् । उत्तरसीमायां केचन भागाः उरयूरुचोळानां प्रशासने आसन् । अत्र सामुद्रवाणिज्यम् अपि अभिवृद्धम् आसीत् । आलङ्गुडि-उपमण्डलस्य करुक्ककुरिच्चौ ५००तः अधिकानि रोमन् सुवर्णनाणकानि रजतनाणकानि च लब्धानि । चतुर्थशतकस्य अन्त्यात् षष्ठशतकस्य अन्तिमपादपर्यन्तं कलभ्राः इमं प्रदेशं शासितवन्तः । ५९०तमे वर्षे कडुङ्गोनपाण्ड्येन कलभ्राः पराजिताः । पाण्ड्यराजानां शासनानि अस्मिन् मण्डले कुडुमियन्मलै, तिरुगोकर्णम्, सित्तन्नवासल् इत्यादिषु प्रदेशेषु लब्धाः सन्ति । पुदुक्कोट्टैनगरात् प्रवहन्ती वेल्लार् नदी प्राचीनकाले चोळराज्यस्य पाण्ड्यराज्यस्य च सीमाभूता आसीत् । तस्याः उत्तरभागः कोनाडु इति , दक्षिणभागश्च कानाडु इति ख्यातः आसीत् । नन्दिवर्मणः (७३०-७९६) कालात् अस्मिन् मण्डले पल्लवानां शासनम् आरब्धम् । पल्लवानां पाण्ड्यानां च शासनसमये अत्र तमिऴ् भक्तिसम्प्रदायस्य उगमः आसीत् । तेवारेषु अस्य मण्डलस्य अनेकेषां देवालयानाम् उल्लेखः दृश्यते । नायन्मारेषु त्रयः एतन्मण्डलाभिजाताः – कोडुम्बलूरोः इडङ्गलिनायनारः, देवरमलैप्रदेशस्य पेरुमिऴलै कुरुम्बनायनारः, मनमेल्गुडेः कुलच्चिरैनायनारः च ।

एकादशशतकपर्यन्तं जैनधर्मः अत्र बहुभिः अनुष्ठितः आसीत् । अतः मण्डले बहूनि जैनधर्मसम्बद्धानि स्थलानि सन्ति । कोट्टैपट्टिने, करूरौ च बौद्धविग्रहाः अपि सन्ति । नवमशतके तञ्जावूरौ प्रशासनम् आरब्धवन्तः चोळाः इमं प्रदेशम् अपि स्वायत्तीकृतवन्तः । प्रथमस्य परान्तकस्य (९०७-९५५) काले चोळाः सम्पूर्णं पाण्ड्यराज्यं जितवन्तः । तृतीयकुलोत्तुङ्गस्य कालपर्यन्तम् (११७८-१२१८) अयं प्रदेशः चोळानाम् अधीनम् आसीत् । ततः पुनः अत्र पाण्ड्यानां प्रशासनम् आरब्धम् । जातवर्मसुन्दरपाण्ड्यस्य जातवर्मवीरपाण्ड्यस्य च युगलराज्यभारे इदं मण्डलं समृद्धिं प्राप्नोत् ।

देहलीसुल्तानस्य अलावुद्दिन् खिल्जेः सेनानीः मलिककाफ़रः पाण्ड्यदेशम् आक्रम्य मधुरैनगरे सुल्तानानां प्रशासनम् आरब्धवान् । प्रायः ७५वर्षाणि यावत् अस्मिन् मण्डले मधुरैसुल्तानानां प्रशासनम् आसीत् । ततः १३७१तमे वर्षे विजयनगरसाम्राज्यस्य कुमारकम्पणः मधुरैसुल्तानान् पराजितवान् । विजयनगरस्य अधीनत्वेन अनेके प्रादेशिकाः अधिराजाः अत्र प्रभाविनः आसन् । सप्तदशशतकस्य अन्ते पुदुक्कोट्टै तोण्डैमानाः बलिष्ठाः अभवन् । ततः आरभ्य १९४७तमे वर्षे स्वान्तन्त्र्यप्राप्तिपर्यन्तं ते एव अस्मिन् प्रदेशे प्रशासनं कृतवन्तः ।

ब्रिटिशानां शासनकाले मद्रास्-सर्वकारस्य अधीनतया पञ्च राजकुमारप्रान्ताः आसन्, तेषु पुदुक्कोट्टै अपि अन्यतमम् । तोण्डैमानाः हैदरालि-टिपूसुल्तानयोः विरुद्धं प्रवृत्ते युद्धे ब्रिटिशानां साहाय्यं कृतवन्तः । अतः ब्रिटिशाः पुदुक्कोट्टैमण्डलं तेषाम् एव राज्यभारे स्थापितवन्तः । अष्टादशशतकस्य अन्त्यपर्यन्तम् अयं प्रदेशः ‘तोण्डैमानराज्यम्’ इत्येव प्रसिद्धः आसीत् ।

स्वातन्त्र्यानन्तरं १९७४तमवर्षस्य जनवरीमासस्य १४ दिनाङ्के पूर्वतनतिरुचिरापळ्ळिमण्डलस्य पुदुक्कोट्टैविभागं, तञ्जावूरुमण्डलस्य कांश्चन भागान् च योजयित्वा पुदुक्कोट्टैमण्डलं निर्मितम् ।

जनसंख्या [सम्पादयतु]

२०११वर्षस्य जनगणनानुगुणं पुदुक्कोट्टैमण्डलस्य जनसंख्या १,६१८,७२५ अस्ति । भारतस्य ६४०मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३०९तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३४८ (९०० प्रतिचतुरश्रमैल्) । २००१-२०११दशके जनसंख्यावृद्धिः १०.९% आसीत् । अस्य मण्डलस्य पुं-स्त्री अनुपातः १०००:१०१५, साक्षरताप्रमाणं च ७७.७६% अस्ति ।

उपमण्डलानि [सम्पादयतु]

पुदुक्कोट्टैमण्डले एकादश उपमण्डलानि सन्ति

  • पुदुक्कोट्टै
  • करम्बक्कुडिः
  • आलङ्गुडिः
  • अरन्तङ्गिः
  • तिरुमायम्
  • पोन्नमरावतिः
  • गन्धर्वकोट्टै
  • अवुडैयर्कोविलः
  • मनमेल्कुडिः
  • कुलत्तूरुः
  • इल्लुप्पूरुः

वीक्षणीयस्थलानि [सम्पादयतु]

चित्तन्नवासलः [सम्पादयतु]

पुदुक्कोट्टैनगरात् १६ किलोमीटर् दूरे विद्यमानं जैनानां प्राचीनं वासस्थलम् इदम् । अत्र गुहान्तर्गतदेवालये अजन्तासदृशानि चित्राणि दृश्यन्ते । अत्र ब्राह्मीलिप्यां क्रिस्तपूर्वद्वितीयशतकस्य शिलाशासनम् अपि अस्ति । अयं गुहादेवालयः पाण्ड्यैः क्रिस्तीये नवमशतके शोधितः, कलाभिः अलङ्कृतः च । देवालयस्य अर्धमण्डपे जैनतीर्थङ्कराणां मूर्तयः दृश्यन्ते ।

कुडुबलूरुः [सम्पादयतु]

अयं ग्रामः पुदुक्कोट्टैतः ३६ किलोमीटर् दूरे अस्ति । तमिऴ्भाषायाः प्राचीनकाव्ये शिलप्पदिकारे अस्य उल्लेखः अस्ति । अत्र विद्यमानः प्राचीनतमः चोळदेवालयः ’मूवर्कोयिल्’ (देवालयत्रयम्) इति प्रसिद्धः । तेषु सम्प्रति द्वौ देवालयौ एव अवशिष्टौ । एते देवालयाः क्रिस्तीये दशमशतके विक्रमकेसरिणा निर्मिताः । चोळानां शिल्पकलावैभवः अत्र द्रष्टुं शक्यः ।

तिरुमायम् [सम्पादयतु]

अत्र १६८७तमे वर्षे रामनाथपुरस्य सेतुपतिना निर्मितः ४० एकर् विस्तीर्णः दुर्गः अस्ति । सत्यगिरीश्वरनाम्ना शिवस्य, तथा सत्यमूर्तिनाम्ना विष्णोः गुहादेवालयौ अत्र स्तः ।

कुडुमियन्मलै [सम्पादयतु]

अयं गिरिः पुदुक्कोट्टैतः २० किलोमीटर् दूरे अस्ति । अत्र होय्सळकालस्य बृहत् गुहादेवालयः अस्ति । अत्रत्यः आराध्यदेवः शिखागिरीश्वरः । अस्मिन् देवालये सुन्दराणि शिल्पानि सन्ति ।

विरलिमलै [सम्पादयतु]

तिरुचिरापळ्ळितः ३० किलोमीटर् दूरे विद्यमाने अस्मिन् पर्वते सुब्रह्मण्यस्य देवालयः अस्ति । अत्रैव मयूराणं संरक्षणधाम अपि अस्ति । आवूरुः – अत्र १५४७तमे वर्षे फ़ादर् जान् वेनान्षियस् बौचेटेन निर्मितः क्रैस्तदेवतागारः अस्ति । अत्रैव १७४७तमे वर्षे नूतनः रोमन् काथोलिक् क्रैस्तदेवालयः निर्मितः ।

तिरुगोकर्णः [सम्पादयतु]

अत्र क्रिस्तीये नवमशतके पाण्ड्यराजेन निर्मितः श्रीगोकर्णेश्वर-बृहदम्बामन्दिरम् अस्ति । पुदुक्कोट्टैवस्तुसङ्ग्रहालयः अपि तिरुगोकर्णे अस्ति । अत्र भूगर्भशास्त्र-प्राणिशास्त्र-चित्रकला-पुरातत्त्वशास्त्र-मानवशास्त्र-नाणकाध्ययन-अर्थशास्त्र-सस्यशास्त्रसम्बद्धानि अमूल्यवस्तूनि दृश्यन्ते । पळ्ळिवासलः – पुदुक्कोट्टै-मधुरैराजमार्गे विद्यमानम् इदं इस्लामधर्मस्य पवित्रक्षेत्रम् । कट्टुबाबा इति प्रसिद्धस्य बाबा फ़क्रुद्दीनस्य समाधिः अत्र दृश्यते । रबियुल् अहिर् मासे अत्र वार्षकः उत्सवः (उरस्) भवति ।

अवुडैयर्कोविल् [सम्पादयतु]

अस्य मण्डलस्य वैभवपूर्णेषु देवालयेषु अस्य आत्मनाथदेवालयस्य अग्रस्थानम् । अयं देवालयः बृहतीभिः शिलामूर्तिभिः पूरितः अस्ति । शिलाशासनेषु अयं देवालयः ’तिरुप्पेरुन्दुरै’ इति उच्यते । शैवसता माणिक्कवासगरेण सम्बद्धः अयं देवालयः । शैवानां पवित्रग्रन्थः’तिरुवासगम्’ माणिक्कवासगरेण अत्रैव विरचितः । अस्य विशेषः यत् देवः अत्र निर्गुणरूपेण आराध्यते । गर्भगृहे कापि मूर्तिः नास्ति । माणिक्कवासगरस्य मूर्तिः एव देवालयस्य उत्सवमूर्तिः । इदं क्षेत्रं पुदुक्कोट्टैतः ४९किलोमीटर् दूरे अस्ति ।

External links [सम्पादयतु]

References [सम्पादयतु]