जन गण मन
भारतस्य राष्ट्रियद्योतकानि | |
---|---|
ध्वजः | त्रिरङ्गः |
चिह्नम् | सिंहचतुर्मुखम् |
पञ्चाङ्गम् | शकपञ्चाङ्गम् |
राष्ट्रगानम् | जन गण मन |
राष्ट्रगीतम् | वन्दे मातरम् |
पुष्पम् | कमलम् |
फलम् | आम्रम् |
नदी | गङ्गा |
वृक्षः | वटवृक्षः |
पशुः | व्याघ्रः |
जलचरप्राणी | गङ्गानद्याः डोल्फिन् |
कविः | रवीन्द्रनाथ ठाकुर बङ्किमचन्द्र चट्टोपाध्याय |
पक्षी | मयूरः |
नाणकचिह्नम् | रूप्यकम् |
जन गण मन इति भारतस्य राष्ट्रगीतम् । इदं हि बाङ्ग्लाभाषाया गुरुदेव इति ख्यातेन रवीन्द्रनाथठाकुरेण लिखितमासीत्। भारतस्य राष्ट्रगानं च वन्दे मातरम् इत्यस्ति।
राष्ट्रगानमिदं ५२ सेकण्ड्मितायां कालावधौ गानीयम्। केषुचिच्च अवसरेषु राष्ट्रगानमिदं अतिसङ्क्षिप्ततया गीयते, यत्र हि एतस्य प्रथमा अन्तिमा च पङ्क्ती एव गीयेते, तस्मिँश्च प्रायेण २० सेकण्ड्मितः समयः युज्यते। भारतस्य संविधानसभया जनवरीमासस्य २४ तारिकायां १९५० तमे ख्रिष्टाब्दे इदम् अङ्गीकृतमासीत्। इदं च गीतं सर्वप्रथमं दिसम्बरमासस्य २७ तमायां १९११ तमे ख्रिष्टाब्दे काङ्ग्रेसस्य कलकत्तावर्तिनि अधिवेशने गीतमासीत्। समग्रेऽस्मिन् गीते ५ चरणानि सन्ति।
इतिहासः
[सम्पादयतु]- १९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं ‘जन गण मन’ गीतं मूलतः बेङ्गली भाषायाः अस्ति । तच्च गीतं ‘तत्त्वबोधप्रकाशिका ‘नामिकायाम् आर्यसमाजीयायां पत्रिकायां प्रकाशितम् आसीत् ऐदम्प्राथम्येन । कतिपयानि वर्षाणि तस्याः पत्रिकायाः सम्पादकत्वं विहितं रवीन्द्र्नाथठागोरवर्येण ।
- १९१९ तमवर्षे कविः एषःबेसेण्टथियोसफिकलमहाविद्यालयस्य प्राचार्यस्य आह्वानेन आन्ध्रप्रदेशस्य चित्तुरुजनपदस्य मदनपल्लीम् आगतवान् आसीत् । सः प्राचार्यः आसीत्- ऐर्शिकविः जेम्स एच्. कासिन्सनामा ।
- फेब्रवरीमासस्य प्रथमे दिनाङ्के सायं डा. कासिन्स तस्य पत्नी मागरिट, केचन छात्राः च बेङ्गलीगीतस्य गानं कर्तुं पार्थयन्त कविमहाशयम् । तस्य गीतस्य अन्तिमपङ्किः यदा गीता तदनु एव सर्वे रोमाञ्चिताः स्सन्तः ‘जय हे जय हे’ इति ऐककण्ठयेन अगायन् ।
मदनपल्लयां येषु दिवसेषु उषितं, तेषु एव दिनेषु अस्य गीतस्य आंग्लानुवादः कृतः तेन । तदनन्तरं कासिन्सः तस्य गीतस्य रागसंयोजनं कृतवान् । ‘रवीन्द्रनाथठागोरमहोदयः भौगोलिकान् प्रदेशान्, पर्वतान्, नदीः च अधिकृत्य पथमे भागे, द्वितीये भागे च भारतीयानि मतानि अधिकृत्य च गीतवान् अस्ति’ इति कासिन्सः उल्लिखितवान् स्वपुस्तके ।
- १९४८ तमे वर्षे रक्तदुर्गे अगस्टमासस्य १५ दिनाङ्के प्रथमवारं जवाहरलाल नेह्रू यदा राष्ट्रध्वजोड्डायनम् अकरोत् तदा सिखरेजिमेण्ट् तेनैव रागेण तत् गीतम् अगायत यश्च रागः कासिन्सवर्येण संयोजितः आसीत् । तेनैव रागेण तत् गीतं गीयते अद्यापि ।
राष्ट्रगीते रवीन्द्रनाथ ठाकुर महोदयेन "जन-गण-मन" इति रचितम् अस्ति ।
बाङ्ग्लालिप्यां देवनागरीलिप्यन्तरेण च सह
[सम्पादयतु]
|
|
हिन्दीरूपम्
[सम्पादयतु]जन-गण-मन अधिनायक जय हे, भारत-भाग्य-विधाता ।
पंजाब सिन्धु गुजरात मराठा, द्राविड़ उत्कल बंग ।
विन्ध्य हिमाचल यमुना गङ्गा, उच्छल जलधि तरंग ।
तव शुभ नामे जागे, तव शुभ आशिष माँगे, गाहे तव जय गाथा ।
जन-गण मंगलदायक जय हे, भारत-भाग्य-विधाता ।
जय हे ! जय हे !! जय हे !!! जय ! जय ! जय ! जय हे !!
राष्ट्रगीतस्य पश्चाद्वर्तीनि चरणानि
[सम्पादयतु]अहरह तव आह्वान प्रचारित, शुनि तव उदार बाणी ।
हिन्दु बौद्ध शिख जैन पारसिक, मुसलमान ख्रिस्तानी ।
पूरब पश्चिम आसे, तव सिंहासन पाशे; प्रेमहार हय गाँथा।
जन-गण-ऐक्य-विधायक जय हे, भारत-भाग्य-विधाता ।
जय हे, जय हे, जय हे,जय जय जय, जय हे ।।
पतन-अभ्युदय-वन्धुर-पन्था, युग-युग-धावित यात्री ।
हे चिर सारथि,तव रथचक्रे, मुखरित पथ दिन रात्री ।
दारुण विप्लव-माझे, तव शंखध्वनि बाजे, संकटदुःखत्राता ।
जन-गण-पथ-परिचायक जय हे,भारत-भाग्य-विधाता ।
जय हे, जय हे, जय हे, जय जय जय, जय हे ।।
घोर तिमिरघन निविड् निशीथे, पीडित मूर्च्छित देशे ।
जागृत छिल तव अविचल मंगल,नत नयने अनिमेषे ।
दुःस्वप्ने आतंके, रक्षा करिले अंके, स्नेहमयी तुमि माता ।
जन-गण-दुःखत्रायक जय हे, भारत-भाग्य-विधाता ।
जय हे, जय हे, जय हे, जय जय जय, जय हे ।।
रात्रि प्रभातिल, उदिल रविच्छवि, पूर्ब-उदयगिरिभाले ।
गाहे विहंगम, पुण्य समीरण, नवजीवनरस ढाले ।
तव करुणारुणरागे, निद्रित भारत जागे, तव चरणे नत माथा ।
जय जय जय हे, जय राजेश्वर !! भारत-भाग्य-विधाता ।
जय हे, जय हे, जय हे, जय जय जय, जय हे ।।