रामदुर्गम्
| रामदुर्गम् Ramadurga ರಾಮದುರ್ಗ |
|||
|---|---|---|---|
| — नगरम् — | |||
|
Location in Karnataka, India |
|||
| Coordinates: 15°57′N 75°18′E / 15.95°N 75.3°ECoordinates: 15°57′N 75°18′E / 15.95°N 75.3°E | |||
| देशः | |||
| राज्यम् | कर्णाटकम् | ||
| मण्डलम् | बेळगावीमण्डलम् | ||
| विस्तीर्णम् | |||
| • Total | ३.५७ Square km (१.४ Square mile) | ||
| औन्नत्यम् |
|
||
| जनसङ्ख्या (2011) | |||
| • Total | ३९ | ||
| भाषाः | |||
| • अधिकृताः | कन्नड | ||
| IST (UTC+5:30) | |||
| पिन् | 591 123 | ||
| Telephone code | 083352 | ||
कर्णाटकराज्ये किञ्चन प्रमुखं मण्डलम् अस्ति बेळगावीमण्डलम् अस्य मण्डलस्य केन्द्रम् अस्ति बेळगावी नगरम् । अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति रामदुर्ग-उपमण्डलम् ।
अन्तर्विषयाः |
इतिहासः [सम्पादयतु]
स्वातन्त्र्यात् पूर्वं ब्रिटिषकाले रामदुर्गं बाम्बे-अधिपत्ये (बाम्बेप्रेसिडेन्सी) विद्यमानं किञ्चन राज्यम् आसीत्। ततः अनन्तरं १७९९तमे वर्षे स्थापिते दक्खन् राज्यानाम् अधीने आसीत् । कोङ्कणस्थराज्यस्य शासकाः "राजा"नाम्ना निर्दिश्यन्ते स्म । एतत् राज्यं स्वातन्त्र्यानन्तरं तन्नाम १९४८तमवर्षस्य मार्चमासस्य अष्टमे दिनाङ्के भारतसर्वकारे विलीनं भूत्वा कर्णाटकस्य भागः अभवत् ।
भौगोलिकता [सम्पादयतु]
अस्य उपमण्डलस्य विस्तीर्णता ४३८चतुरस्रकिलोमीटरमिता॥
इतरविवरणानि [सम्पादयतु]
२०११तमवर्षस्य जनगणनानुसारं रामदुर्गस्य जनसंख्या ३९,८४१। एतेषु पुरुषाः ११५२८, महिलाः ११२१२ । प्रतिकिलोमीटर् जनसान्द्रता १८७ । लिङ्गानुपातः १०००:९७१ । नगरे साक्षरताप्रमाणं ६३% (भारतस्य साक्षरताप्रमाणस्य ५९.५% अपेक्षया अधिकम्)।एतेषु पुरुषाणाम् साक्षरताप्रमाणं ७५%, महिलानां ५५% । १३% साक्षराः ऊनषड्वर्षीयाः ।
रामदुर्गस्य शुश्रूषालयाः [सम्पादयतु]
आपटेशुश्रूषालयः, बीळगीशुश्रूषालयः, सर्वकारीयः शुश्रूषालयः, कुल्गोडविविधोपचारशुश्रूषालयः, कुलकर्णीशुश्रूषालयः, कणबूरशुश्रूषालयः, कणबिशुश्रूषालयः, पटवर्धनशुश्रूषालयः, गुरुशुश्रूषालयः, पावटेशुश्रूषालयः, गून्दाशुश्रूषालयः च।
संस्कृतिः [सम्पादयतु]
डिसेम्बरमासे गोडची-इत्यत्र अस्य उपमण्डलस्य प्रमुखः यात्रामहोत्सवः भवति । रामदुर्गतः १६ कि.मी.दूरे अस्ति गोडची। खानपेठ, तोर्गल्, हलोळ्ळी, बुद्नूर्, बटकुर्की, सुरिबान् कट्कोळ्, चन्दरगी, सुरेभान् तथा मुदकवी इत्यादीनि ऐतिहासिकस्थानानि सन्ति । यरिकित्तूरुनामकः मोहरम् उत्सवार्थं प्रसिद्धः अस्ति । सुरेबान् ग्रामः पूर्वं शबरीवनम् इति ख्यातः आसीत् । शबर्याः मन्दिरम् अत्र अस्ति । शबरी रामस्य आगमनार्थम् अत्र प्रतीक्षमाणा आसीत् इति जनानां विश्वासः । मणिहाळ् ग्रामे श्रीशिवानन्दाश्रमः, आत्मानन्दस्वामी-आश्रमः च स्तः ।
यानव्यवस्था [सम्पादयतु]
बेळगावी तथा हुब्बळ्ळी विमाननिस्थानके समीपे स्तः । बेळगावी, बागलकोटे, हुब्बळ्ळी, धारवाड, रेलस्थानकानि निकटवर्तिस्थानकानि । समीपे विद्यमानानि प्रमुखनगराणि धारवाड{८०कि.मी.), हुब्बळ्ळी(१०० कि.मी.), बेळगावी(९० कि.मी.), बागलकोटे(७० कि.मी)।
विद्यालयाः, महाविद्यालयाः च [सम्पादयतु]
सी.डी.हळ्याळ हैस्कूल्, प्रगतिविद्यालयः, गवर्न्मेण्ट् बाय्स् एण्ड् गर्ल्स् हैस्कूल्, बसवेश्वरहैस्कूल्, क्याम्ब्रिड्ज् इङ्ग्लिष् मीडियं स्कूल्, सी.एस्.बेम्बळगी सैन्स् कालेज् इत्यादयः ।
प्रवासोद्यमः [सम्पादयतु]
रामदुर्गे पर्वताः, शर्करानिर्माणागाराः, नदी, पर्वतारोहणं च प्रसिद्धाः । समीपे विद्यमानानि प्रेक्षणीयस्थानानि नाम शबरीकोळ्ळ, गोडची, नविलुतीर्थ, सुन्नाळ् हनुमप्प, मेगुण्डप्पनकोळ्ळ, दुर्गाणि, तोरणगल् दुर्गं च । सुरेबान् ग्रामतः त्रिकिलोमीटरदूरे शबर्याः मन्दिरम् अस्ति । एतत् मन्दिरं घने अरण्ये, लघुजलापातानां मध्ये अस्ति । शैत्यकाले वातावरणं रमणीयं भवति ।
मन्दिराणि [सम्पादयतु]
- श्रीशबरीदेवी
- श्री आत्मानन्दाश्रमः
- श्रीशिवानन्दबेट्ट(पर्वतः)
- श्रीमङ्गेरम्माबेट्ट(पर्वतः)
- श्रीफलहारेश्वरमन्दिरम्