शक्तिभद्रः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

शक्तिभद्रः (Shaktibhadra) केरलीयः नाटककर्ता भवति । अयं महाकविः क्रिस्तोः ८-९ शतकयोः मध्ये जीवनं निर्धारितवानिति श्रूयते । अत एव शङकराचार्यस्य समकालिकोयं महाकविः । अस्य जननीजनकयोः विषये काऽपि कींवदन्ती न श्रूयते । अयम् आश्चर्यचूडामणिः इति नाटकमेकं रचयामास । अत्र नाटके सूत्रधारवचनैः अयं केरलीय इति स्पष्टतया अवगम्यते । यथा-

सूत्रधारः- आर्ये! दक्षिणापथादागतम् आश्चर्यचूडामणिं नाम नाटकं......।
नटी- युज्यते, रत्नाकरः खलु प्रदेशः ।

एतेन अयं केरळदेशीयः इति निर्विवादः । अपि तु एषः केरळ देशीयानां यथा परिचितः तथा नान्येषाम् इति ज्ञातुं शक्यते । किञ्च-

सूत्रधारः- "आश्चर्यचूडामणिरिति नाटकम् अभिनेयम् । आर्ये श्रूयताम्, उन्मादवासवदत्ताप्रभृतीनाम् काव्यानां कर्तुः कवेः शक्तिभद्रस्य इदं प्रज्ञाविलसितम् ।

एतेन ज्ञायते यत्, शक्तिभद्रः उन्मादवासवदत्ता इति नामकं काव्यमेकम् अतनोदिति विदितं भवति । काव्यमिदं तु न लब्धम् ।

शक्तिभद्रस्य कालविचारः[सम्पादयतु]

केरळदेशीयैः कथाभिः अयं श्रीशङ्कराचार्याणां समकालीनः इति ज्ञातुं शक्यते । अतः शक्तिभद्रस्य कालः क्रि.श. ७८८तः ८२० अवधौ आसीदिति ज्ञायते । एकदा आकस्मिकेन अग्निस्पर्शेन शक्तिभद्रस्य आश्चर्यचूडामणिग्रन्थः दग्धः, अनन्तरम् श्रीशङ्कराचार्याः तं ग्रन्थं स्मृत्वा पुनः अवदन्, इति कथा अस्य विषये प्रचलिताऽस्ति । अतः शक्तिभद्रः अष्टमे शतमाने आसीदिति निश्चेतुमुचितम् । यतः श्रीशङ्कराचार्याणां कालः अष्टमं शतमानम् । अपि च दशमशतके केरलीयः कविः कुलशेखरवर्मा तपतीसंवरणम् सुभद्राधनञ्जयम् आश्चर्यमञ्जरीकथा आत्तप्रकारम् क्रमदीपिका इति पञ्च ग्रन्थान् व्यरचयत् । तेषु आश्चर्यचूडामणेः शक्तिभद्रस्य च प्रस्तुतिः दृश्यते । अतः शक्तिभद्रः ततोऽपि प्राचीनः इति निश्चप्रचम् ।

आश्चर्यचूडामणेः अनन्यता[सम्पादयतु]

रामायणकथाऽऽधारितेषु नाटकेषु चत्वारि प्रसिद्धानि । तत्र प्रथमम्, भवभूतेः उत्तररामचरितम्, द्वितीयम् शक्तिभद्रस्य "आश्चर्यचूडामणिः" ’ त्रृतीयम् मुरारिकवेः अनर्घराघवम् चतुर्थं तु राजशेखरस्य बालरामायणम् । एषु द्वितीयम् ’अद्वितीयम्’ । यतः रङ्गे प्रयोक्तुं युक्तम् उत्तररामचरितमिव समीचीनम् आश्चर्यचूडामणिरेव नान्यद् द्वयम् । अत्र नाटके अङ्कावतरणम्, विष्कम्भकश्च सामञ्जस्येन भवतः । व्याख्यानकर्तॄणाम् अभिप्रायेण अस्मिन् नाटके "अद्भुतरसः’ प्रधानो रसः । शृङ्गारः, करुणः, शान्तश्च आङ्गिकाः रसाः । यथोक्तम्-

वीरकार्याद्भुतरसभूयिष्ठत्वेन आश्चर्यकराणाम् चूडामणिरिति आश्चर्यचूडामणिरिति संज्ञा । अत्र कथासंविधानम्, पात्रसंयोजनम्, सम्भाषणम् इत्यादीनि ह्द्यानि भवन्ति, यथा सहृदयः मन्त्रमुग्धो भवेत् ।

आश्चर्यचूडामणेः कथावितानम्[सम्पादयतु]

आश्चर्यचूडामणिनाटके सप्त अङ्काः भवन्ति । अत्रैव अङ्कानुक्रमः एवं सूचितः-

पर्णशाला, शूर्पणखा, मायासीता ततः परम्, ।
जटायुषो वधो,ऽशोकवनिका,ऽप्यङ्गुलीयकम्, ।
सप्तमोऽपि ततश्चेत्थं चूडामण्यङ्ककीर्तनम् ।

एवम् प्रथमेऽङ्के चित्रकूटवने रामादीनां पर्णशालावासः । द्वितीयेऽङ्के शूर्पणखाप्रसङ्गः । तृतीयेऽङ्के मायामृगस्य सन्निवेशः आश्चर्यं जनयति । अत्र सर्वं मायामयम् । रावणः मायारामः भूत्वा एकाकिन्याः सीतायाः समीपम् आगच्छति । रावणस्य सारथिः लक्ष्मणस्य वेषं धृत्वा रथमानयति । अपि च भरतः शत्रुभिः समाक्रान्तः, सहायार्थं राममानेतुम् सारथिना सह रथं प्रेषितवान् इति वदन् मायारामेण सह सीतां रथमारोहयति । शूर्पणखा च मायासीतारूपेण रामस्मीपं गच्छति । लक्ष्मणस्तु रामवपुषं मूर्छामापन्नं मारीचं रामभ्रान्त्या उपचरति । सर्वं दृश्यं राक्षसमाया इति रावण एव सीतां समाधापयति । चतुर्थेऽङ्के मायासीतया साकम् आगच्छन्तम् रामं द्ष्ट्वा लक्ष्माणः अयं मायावीति मत्वा तेन योद्धुं सिद्धो भवति । तदा श्रीरामः स्वस्य् हस्ते विद्यमानम् अद्भुताङ्गुलीयकं दर्शयति । ततः अङ्गुलीयकस्पर्शमात्रेण मारीचः निजरूपं धरति । तं दृष्ट्वा रुदन्तीं सीतां प्रणिधापयन् रामः यदा तस्याः अश्रुमार्जनार्थं तां स्पृशति तदा निजरूपं प्राप्तवती । निर्बन्धेन पृष्टा सती रामाय रावणस्य कापट्यं निवेद्य गता । चतुर्थेऽङ्के इतः रामरूपी रावणः सीतायां मोहपरवशः सन् तस्याः केशपाशबन्धनार्थं यदा हस्तं प्रसारयति तदा तस्याः शिरसि विद्यमानस्य चूडामणेः स्पर्शः भवति । तदा रावणः निजरूपी भवति । सीता रोदिति । तद् रोदनं श्रुत्वा जटायुः रावणेन सह युध्यति । जटायुषः मरणं भवति । पञ्चमेऽङ्के अशोकवने सीतायाः विलापः, रावणस्य कोपाटोपः, आत्मानं तिर्स्कुर्वतीं सीतां रावणः हन्तुमुद्युङ्ते च । षष्ठेऽङ्के हनूमता रामाङ्गुलीयकप्रदानम् । सप्तमेऽङ्के चूडामणिप्रदानम्, रावणस्य वधः, अयोध्यागमनम् इत्यादीनि दृश्यानि विहितानि ।

शक्तिभद्रकवेः शैली[सम्पादयतु]

शक्तिभद्रः स्वनाटके कालिदासकवेः शैलीम् अनुकरोति । यथा-

गुणाः प्रमाणं न दिशां विभागः निदर्शनं नन्विदमेव तत्र ।
स्तनद्वये ते हरिचन्दनं च हारश्च नीहारमरीचिगौरः ॥
"http://sa.wikipedia.org/w/index.php?title=शक्तिभद्रः&oldid=244347" इत्यस्माद् पुनः प्राप्तिः