आग्नेयभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आग्नेय
आस्ट्रो-एशियाटिक
मोन्-ख्मेर्
भौगोलिकविस्तारः आग्नेय, दक्षिण, पूर्वजम्बुद्वीपः
भाषायाः श्रेणीकरणम् विश्वस्य प्राथमिक-भाषाकुटुम्बानां अन्यतमम्
आदि-भाषाः आद्यआग्नेय
उपश्रेण्यः
आइसो ६३९-५: aav

आग्नेयभाषाः

आग्नेयभाषाः (आस्ट्रो-एशियाटिक वा मोन्-ख्मेर् इति अपि ज्ञायते) आग्नेयजम्बुद्वीपे मुख्यभूमौ दक्षिणजम्बुद्वीपे च विशाला भाषाकुटुम्बः । एताः भाषाः सम्पूर्णे थाईलैण्डदेशे, भारते, बाङ्गलादेशे, नेपालदेशे, चीनदेशस्य दक्षिणभागे च विकीर्णाः सन्ति । आग्नेयभाषायाः वक्तारः प्रायः ११.७ कोटिः (११७ मिलियन्) सन्ति ।[१] एतेषु भाषासु केवलम् वियतनामी, ख्मेर्, मोन् च भाषासु दीर्घकालिकः अभिलेखितः इतिहासः अस्ति । केवलम् द्वयोः एव आधुनिक राष्ट्रभाषारूपेण आधिकारिकपदवी अस्ति - चम्पादेशे (वियतनामदेशे) वियतनामीभाषा, कम्बोडियादेशे ख्मेरभाषा । मोन् म्यानमारदेशे थाईलैण्डदेशे च मान्यताप्राप्ता देशीयाभाषा अस्ति । म्यानमारदेशे वाभाषा वाराज्यस्य वास्तविक-आधिकारिकभाषा अस्ति । सान्तालीभाषा भारतस्य २२ अनुसूचितभाषासु अन्यतमा । शेषभाषाः अल्पसङ्ख्यकसमूहेन भाष्यन्ते, एतेषां आधिकारिकपदवी नास्ति च ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Austroasiatic [आस्ट्रो-एशियाटिक]". www.languagesgulper.com (in English). आह्रियत १५ अक्टुबर २०१७. 
"https://sa.wikipedia.org/w/index.php?title=आग्नेयभाषाः&oldid=467218" इत्यस्माद् प्रतिप्राप्तम्