आग्नेयजम्बुद्वीपः
पठन सेटिंग्स
आग्नेयजम्बुद्वीपः (हिन्दी: दक्षिण पूर्व एशिया, आङ्ग्ल: Southeast Asia) जम्बुद्वीपस्य भौगोलिकदक्षिणपूर्वीयः उपप्रदेशः अस्ति, यत्र चीनदेशस्य दक्षिणदिशि, भारतीय उपमहाद्वीपस्य पूर्वदिशि, आस्ट्रेलियादेशस्य वायव्यदिशि च स्थिताः क्षेत्राणि सन्ति । दक्षिणपूर्वजम्बुद्वीपस्य उत्तरदिशि पूर्वजम्बुद्वीपः, पश्चिमे दक्षिणजम्बुद्वीपः बङ्गालखातं च, पूर्वे ओशिनिया प्रशान्तमहासागरः च, दक्षिणे आस्ट्रेलिया हिन्दुमहासागरः च । दक्षिणजम्बुद्वीपस्य ब्रिटानीय हिन्दुमहासारप्रदेशः, मालद्वीपस्य २६ प्रवालद्वीप-मध्ये द्वौ च विहाय आग्नेयजम्बुद्वीपः जम्बुद्वीपस्य अन्यः एकमात्रः उपप्रदेशः अस्ति यः दक्षिणगोलार्धस्य अन्तः अंशतः अस्ति । उपप्रदेशस्य बहुभागः अद्यापि उत्तरगोलार्धे अस्ति । पूर्वतिमोरः, इण्डोनेशियादेशस्य दक्षिणभागः च विषुववृत्तस्य दक्षिणभागे एव सन्ति ।
सम्बद्धाः लेखाः
[सम्पादयतु]- दक्षिणजम्बुद्वीपः
- पूर्वजम्बुद्वीपः
- मध्यजम्बुद्वीपः
- उत्तरजम्बुद्वीपः
- पश्चिमजम्बुद्वीपः
- जम्बुद्वीपः
- महाद्वीपाः