भारतीययूरोपीयभाषाः
हिन्द-यूरोपीय | |
---|---|
भारत-यूरोपीय अथवा भारोपीय | |
भौगोलिकविस्तारः |
पूर्व-औपनिवेशिकयुगम् – यूरेशियाखण्डः, उत्तर-अफ्रिका ३२० कोटिः (३.२ बिलियन्) मातृभाषा वक्ताः |
भाषायाः श्रेणीकरणम् | विश्वस्य प्राथमिक-भाषाकुटुम्बानां अन्यतमम् |
आदि-भाषाः | आद्यहिन्द-यूरोपीय |
उपश्रेण्यः |
इतालिक (रोमान्सभाषाः सहितं)
इलिरीय †
तुषारीय †
थ्रेसीय †
दासीय †
फ्रिजीय †
मेस्सपिक †
लिबर्नीय †
|
आइसो ६३९-२ व ६३९-५: | ine |
![]() हिन्द-युरोपीयभाषाणां यूरेशियाखण्डे वर्तमानकालस्य वितरणम्:
पर-हिन्द-यूरोपीयभाषाः
बहुभाषिकत्वं कुत्र सामान्यम् अस्ति इति बिन्दुयुक्ताः/पट्टिकायुक्ताः क्षेत्राणि सूचयन्ति (मानचित्रे पूर्णविस्तारेण अधिकं दृश्यते)। |
भारतीययूरोपीयभाषाः (हिन्दयूरोपीयभाषा अथवा भारोपीयभाषाः) यूरोपखण्डस्य प्रचण्डबहुमतस्य, ईरानीयसमस्थलस्य, उत्तरभारतीयोपमहाद्वीपस्य च मूलनिवासी भाषाकुटुम्बोऽस्ति । आधुनिककाले, अस्य कुटुम्बस्य काश्चन यूरोपीयभाषा यथा आङ्ग्ला, फिरङ्गी, पुर्तगाली, रूसी, डेनिश्, डच्, स्पॅनिश् च औपनिवेशिकतायाः माध्यमेन विस्तारिताः सन्ति। अधुना अनेकेषु महाद्वीपेषु भाष्यन्ते च । भारतीययूरोपीयभाषाकुटुम्बोऽनेकेषु शाखासु वोपकुटुम्बेषु विभक्तोऽस्ति । यस्य सप्त समूहा अद्यत्वेऽपि भाषाभिः सह जीविताः सन्ति – अल्बेनियन, आर्मीनियन, रौमकः, शार्मण्यिकः, बाल्टो-स्लाविक, यावनिकः, सेल्टिक, भारतपार्शवीयः; अन्ये च षड् उपविभागा येऽधुना विलुप्ताः सन्ति ।
अद्यत्वे, अधिकांशवक्तृभिः सह व्यक्तिगतभाषा भवन्ति – आङ्ग्ल, हिन्दी, स्पैनिश, वङ्गलीय, फिरङ्गीय, रूसीय, पुर्तगालीय, शर्मण्य, पार्शवीय, पञ्चापी च, प्रत्येकं दशकोटिभ्यः (१००० कोटयः) अधिकैर्वक्तृभिः सह । अन्ये बहवो भाषा लघुर्विलुप्ततायाः संकटे च सन्ति ।
समग्रतया विश्वस्य ४६% जनसङ्ख्या (३२० कोटयः) प्रथमाभाषेति भारतयूरोपीयभाषां वदति, कस्यापि भाषापरिवारस्य सर्वोच्चः । एथ्नोलॉग् इत्यस्यानुमानेनात्र प्रायश् ४४५ जीवन्ति भारतयूरोपीयभाषाः सन्ति, तेषां द्वौ-तृतीयाभागाधिकाः (३१३) हिन्द-ईरानीयशाखायाः ।[१]
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भाः
[सम्पादयतु]- ↑ "Ethnologue report for Indo-European". Ethnologue.com.