दक्षिणभारतहिन्दीप्रचारसभा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


दक्षिणभारतहिन्दीप्रचारसभा (Dakshina Bharat Hindi Prachar Sabha) हिन्दीभाषायाः साहित्यस्य च संरक्षणार्थं बद्धा एषा संस्था । अस्याः सभायाः मुख्यः उद्देशः तु हिन्दिभाषिणः यत्र न सन्ति तेषु प्रदेशेषु हिन्दीभाषायाः प्रचारः प्रसारः च । विशेषतः दक्षिणे भारते । अस्याः मुख्यालयः चेन्नै नगरस्य टि नगरे तनिकाचलं मार्गे अस्ति ।

इतिहासः[सम्पादयतु]

अस्याः आरम्भः १९१८ तमे वर्षे अभवत् । मद्रास् प्रान्ते हिन्दीभाषायाः प्रसारार्थमेव एषा आरब्धा । एतस्याः आरम्भः गोखलेसभायां श्रीमत्या अनिबेसण्ट्महोदयया कृतम् । महात्मनः गान्धेः समर्थनम् अपि आसीत् अस्मिन् कार्ये । प्रथमा कक्ष्या गान्धेः पुत्रेण देवदासगान्धिमहोदयेन एव स्वीकृता । प्रथमं जार्जटौण् तः कार्यं कृत्वा अनन्तरं १९३६ तमवर्षात् इदानीन्तने टि नगरस्य मुख्यालये स्थानान्तरिता । अस्याः चत्वारः क्षेत्रीय कार्यालयाः सन्ति ते च

तमिलुनाडुराज्ये तिरुचिरापल्ली
आन्ध्रप्रदेशेहैदराबाद् नगरे
कर्णाटके धारवाडनगरे
केरले एर्नाकुलम् नगरे

बाह्यानुबन्धाः[सम्पादयतु]