चायचूर्णम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
करण्डके पूरितं चायचूर्णम्
चायचूर्णस्य पूरणम्
सञ्चिका:PG Tips.jpg
विक्रयणार्थं सिद्धं चायचूर्णम्
चूर्णीकरणार्थं शुष्कीकृतानि चायपत्राणि

एतत् चायचूर्णं भारते अपि वर्धमानस्य कस्यचित् सस्यविशेषस्य वैशिष्ट्यम् । एतत् चायचूर्णम् अपि सस्यजन्यः आहारपदार्थः । एतत् चायचूर्णम् आङ्ग्लभाषायां Tea Powder इति उच्यते । चायसस्यस्य पत्राणि चित्वा तानि शुष्कीक्रियन्ते । ततः तानि चायपत्राणि चूर्णीक्रियन्ते । तदेव चायचूर्णम् इति उच्यते । तेन चायचूर्णेन एव चायं निर्मीयते । चायपत्राणां चूर्णीकरणं विना तथैव अपि चायं निर्मान्ति । चायस्य निर्माणावसरे बहवः आहारपदार्थाः इच्छानुसारं तत्र योज्यन्ते । कुत्रचित् चाये शर्करां क्षीरं योजयित्वा पिबन्ति । कुत्रचित् चाये मधु, निम्बूकरसः, पुदिनापत्रं, नवनीतं, लवणं, शुण्ठी, मद्यसारम् इत्यादिकम् अपेक्षानुगुणं योज्यते ।

चायं बहुविधं भवति । तस्य चायचूर्णस्य निर्माणावसरे क्रियमाणस्य संस्करणस्य अनुगुणं चायचूर्णस्य वैविध्यं निर्णीयते । चायपत्राणां चयनानुक्षणं यदि न शुष्कीक्रियन्ते तर्हि तानि म्लानानि भवन्ति । अनन्तरं तानि कृष्णवर्णीयानि भवन्ति । चायचूर्ण सज्जीकृत्य पूरणावसरे यदि तत्र जलांशः भवति तर्हि अपि तत् चायचूर्णं चायपत्रं वा नष्टं भवति । तस्मिन् विषकारिणः रोगकारकाः सूक्ष्मजीविनः वर्धन्ते अपि । अतः चायचूर्णस्य सज्जीकरणावसरे अत्यन्तं जागरूकता वोढव्या भवति । विपणिषु यानि चायचूर्णानि प्राप्यन्ते तत्र चायनिर्माणार्थं यद्यत् अपेक्षितं प्रायः तत्सर्वं योजितं भवति । पूर्वं चायपर्णेभ्यः एव चायं निर्मीयते स्म । अनन्तरं चायचूर्णस्य निर्माणम् आरब्धम् । चायचूर्णस्य अथवा चायपत्रस्य निर्यातम् अत्यधिकप्रमाणेन कीन्यादेशः करोति । आयातं च पाकिस्तानम्, अमेरिकासंयुक्तसंस्थानानि, ईजिप्त् तथा जपान् देशैः क्रियते ।

"https://sa.wikipedia.org/w/index.php?title=चायचूर्णम्&oldid=361239" इत्यस्माद् प्रतिप्राप्तम्