परजरागः
दिखावट
परजरागः | |
---|---|
आरोहणम् | नि स ग म प ध नि स |
अवरोहणम् | स नि ध प म प म ग रे स |
थाट् | पूर्वी |
समयः | मध्यरात्री २ तः प्रातः ४ वादनपर्यन्तम् |
पक्कड(छायास्वराः) | स नि ध प म प, ध प म प, म ग रे स |
परजरागः (Paraja Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । पूर्वी थाट् गणस्य रागः भवति । अयम् उत्तराङ्गप्रधानः रागः भवति । रात्रौ तृतीयप्रहरः प्रशस्तकालः भवति । करुणरसः तथा शान्तरसप्रधानः रागः भवति । चञ्चलप्रकृतिकः रागः भवति । कालिङ्गडरागस्य साम्यत्वं दृश्यते । वादिस्वरः षड्जः (स) भवति । एवं संवादिस्वरः पञ्चमः (प) भवति ।
श्लोकः
[सम्पादयतु]स्वर्णप्रभा सुन्दरगौरगात्रा कटाक्षिणी स्यात् परमा विचित्रा।
सौन्दर्यलावण्यकलायताक्षी सा पर्जिक रागिणीकौशिकेयम्॥१॥
पञ्चमांशग्रहन्यास सम्पूर्णा पर्जिका मता।
शेषरात्र्यां गीयतैषा कारुणे शान्तिके स्मृता॥२॥
- आरोहः – नि स ग म प ध नि स
- अवरोहः – स नि ध प म प म ग रे स
- पक्कड – स नि ध प म प, ध प म प, म ग रे स
समयः
[सम्पादयतु]प्रशस्तः कालः मध्यरात्री २ तः प्रातः ४ वादनपर्यन्तं भवति ।