बीजुजनतादलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बीजुजनतादलम्
अध्यक्षः नवीनपटनायक
निर्माणम् १९९७
विचारधारा जनप्रीयतावादः
सामाजिकस्वाधीनतावादः
सामाजिकगणतन्त्रम्
राजनैतिकस्थितिः केन्दीय तथा केन्द्र-वाम
मैत्रीकूटः राष्ट्रियजनतान्त्रिकमैत्रीकुटः(१९९८–२००९)
संयुक्तप्रगतिशीलमैत्रीकुटः(२००९–)
लोकसभासदस्यसंख्या
१४ / ५४५
राज्यसभासदस्यसंख्या
६ / २४५
विधानसभासदस्यसंख्या
१०८ / १४७
जालस्थानम्
www.bijujanatadal.net/

बीजुजनतादलम् (BJD, ओडिया- ବିଜୁ ଜନତା ଦଳ)इति भारतीयपक्षणां समूहे एकः ओडिशाक्षेत्रीयपक्षः । अस्य पक्षस्य अध्यक्षः नवीनपटनायकः । १९९७ वर्षस्य डिसेम्बर्-मासस्य २६ दिनाङ्के ओडिशाराज्यस्य भूतपूर्वमुख्यमन्त्रीबीजुपटनायक-महोदयेन पक्षस्य स्थापनाम् अकरोत् ।


इतिहासः[सम्पादयतु]

१९९६ तमे वर्षे नवीनपटनायकः तस्य पितुः निर्वाचनकेन्द्रतः जनतादलस्य प्रार्थीरूपेण निर्वाचितः अभूत् । १९९७ तमे वर्षे जनतादलतः विभज्य बीजुजनतादलस्य उत्पत्तिः । पक्षस्य प्रतिष्ठानान्तरं बीजुजनतादलं भारतीजनयतापक्षेण सह मैत्री स्थपनाम् अकरोत् । पक्षोऽयं राष्ट्रियस्तरे तथा राज्यस्तरे(ओडिशाराज्यम्) उभयत्र भारतीयजनतापक्षस्य सङ्गी अभूत् । राष्ट्रियगणतान्त्रिकमैत्रीकुटे अस्य पक्षस्य अवस्थानं धर्मनिरपेक्षः पक्षरूपेणैव आसीत् ।

निर्वाचनालेखः[सम्पादयतु]

  • १९९८ तमे वर्षे सधरणलोकसभानिर्वाचने बीजुजनतादलेन ९ निर्वाचनकेन्द्रेषु विजयः प्राप्तासीत् । नवीनपटनायकः केन्द्रसर्वकारस्य मन्त्रीमण्डले खनिजविभागाधिकारी अभवन् ।
  • १९९९ वर्षस्य लोकसभानिर्वाचने बीजुजनतादलं दशकेन्द्रेषु विजयं प्राप्तवान् ।
  • २००० तथा २००४ तमे वर्षे राज्यविधानसभानिर्वाचने भारतीजनयतापक्षेण सह मैत्रीं कृत्वा विधानसभायां संख्यागरिष्ठताम् प्राप्तवान् ।
  • २००४ तमे वर्षे लोकसभानिर्वाचने पक्षस्य ११ केन्द्रेषु विजयः अभवत् ।
  • यद्यपि २००९ तमे वर्षे निर्वाचने एतयोः पक्षयोः मैत्रता आसीत् तथापि केन्द्रवण्टनविषयक-विशेषसन्धिः आसीत् ।
  • २००९ वर्षस्य लोकसभानिर्वाचने बीजुजनतादलस्य १४ केन्द्रेषु विजयः अभवत् । अस्मिन् पर्याये पक्षोऽयं तृतीयमैत्रीकुटं समर्थितवान् । विधानसभानिर्वाचनेऽपि अस्य पक्षस्य विजयः अभवत् । पक्षोऽयं १४७ विधानसभाकेन्द्रेषु १०८ केन्द्रे विजयं प्राप्तवान् ।

शासनकालः[सम्पादयतु]

२००० तमे वर्षे विधानसभानिर्वाचने बीजुजनतादलस्य विजयः अभवत् । एतस्मात् नवीनपटनायकः केन्द्रीयमन्त्रीसभात् पदत्यागं कृत्वा ओडिशाराज्यस्य मुख्यमन्त्री अभूत् । सः पुनश्च २००४ तमे वर्षे द्वितीयवारं २००९ तमे वर्षे तृतीयवारं मुख्यमन्त्री पदम् आरूढवान् ।

मैत्रीकुटः[सम्पादयतु]

बीजुजनतादलस्य भारतीजनयतापक्षेण सह मैत्रीकुटः १९९८-२००९ पर्यन्तमासीत् । अनन्तरं २००९ वर्षस्य लोकसभानिर्वाचने नवीनपटनायकः मैत्रीकुटविच्छेदविषयक निर्णयं घोषितवान् । भारतीयजनतापक्षः मैत्रीविच्छेदं विश्वासघातः इति आख्यायितवान् ।

"https://sa.wikipedia.org/w/index.php?title=बीजुजनतादलम्&oldid=271939" इत्यस्माद् प्रतिप्राप्तम्