अन्ताराष्ट्रीययोगदिवसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अन्तरराष्ट्रिययोगदिवसः
International Yoga Day
अन्तरराष्ट्रिययोगदिवसः International Yoga Day
योगः कर्मसु कौशलम्
व्यावहारिकनाम अन्तरराष्ट्रिययोगदिवसः
इतर नामानि योगदिवसः
के आचरन्ति आविश्वम्
वर्गः संयुक्तराष्ट्रमहासभा
दिनाङ्कः जून-मासस्य एकविंशतितमः दिनाङ्कः (२१/६)
आचरणानि ध्यानम्, आसनं, प्राणायामः, सम्मेलनानि, चर्चाः, सांस्कृतिककार्यक्रमाः
योगासनस्य आन्तरिकस्वरूपम्

अन्ताराष्ट्रिययोगदिवसः ( /ˈəntɑːrɑːʃhtjəjɡədɪvəsəh/) (हिन्दी: अन्तर्राष्ट्रिय योग दिवस, आङ्ग्ल: International Yoga Day) जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते [१]योगः अनन्तकालात् प्रचलितः शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति । योगस्य मूलानि भारतदेशे सर्वत्र प्राप्यन्ते । भारतीयसंस्कृतिः भौतिकसुखस्य अपेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति । परन्तु शरीरमेव आध्यात्मिकक्षेत्रे उन्नतिं कर्तुम् एकमात्रं साधनं वर्तते इत्यपि भारतीयसंस्कृतेः मतम् । अतः मनसः शान्तिः, शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति । तस्याः आवश्यकतायाः पूर्त्यै भारतीयतत्वचिन्तकैः योगशास्त्रस्य रचना कृता । अनेन योगशास्त्रेण मनसः शान्तिः, शरीरस्य स्वस्थता च वैज्ञानिकरीत्या प्राप्यते [२]

इतिहासः[सम्पादयतु]

२०१४ तमस्य वर्षस्य सितम्बर-मासस्य सप्तविंशतितमे (२०१४-०९-२७) दिनाङ्के भारतगणराज्यस्य प्रधानमन्त्रिणा श्रीनरेन्द्र मोदी-महाभागेन संयुक्तमहासभायां भाषणकाले उपस्थापितं यत्, "योगः अस्माकं (भारतस्य) अतिपुरातनम्, अमूल्यं योगदानम् अस्ति विश्वाय । मनसः, शरीरस्य, विचारस्य, कर्मणः, संयमस्य, उपलब्धेः च एकात्मतायाः तथा च मानव-प्रकृत्योः सामञ्जस्यापि मूर्तस्वरूपत्वेन योगः परिगण्यते । योगः न केवलं व्यायामः अस्ति, अपि तु स्वेन, विश्वेन, प्रकृत्या च सह तादात्म्यं स्थापयितुम् उत्तमं साधनम् अस्ति । योगः अस्मासु जागरूकतायाः भावम् उत्पाद्य जलवायुपरिवर्तनस्य समस्यां प्रति सङ्घर्षं कर्तुं बलं दातुं शक्नोति । अतः अस्माभिः अन्ताराष्ट्रिययोगदिवसस्य आरम्भं कर्तुम् अपि प्रयासः करणीयः" इति [३] । उक्ते भाषणे संयुक्तराष्ट्रमहासभायां नरेन्द्र-वर्येण अन्ताराष्ट्रिययोगदिवसस्य प्रस्तावः उपस्थापितः आसीत् । ततः २०१४ तमस्य वर्षस्य दिसम्बर-मासस्य एकादशे (२०१४-१२-११) दिनाङ्के संयुक्तराष्ट्रमहासभायाः १९३ सदस्यानां समर्थनेन संयुक्तराष्ट्रमहासभाध्यक्षः जून-मासस्य एकविंशतितमं (२१/६) दिनाङ्कम् अन्ताराष्ट्रिययोगदिवसत्वेन उदघोषयत् [१]

बान की मून इत्ययं संयुक्तराष्ट्रमहासभायाः अष्टमः अध्यक्षः अवदत्, "अन्ताराष्ट्रिययोगदिवसः योगस्य पवित्रलाभान् प्रति जनान् कर्क्ष्यति (आकर्षितं करिष्यति) । योगः अस्मभ्यम् असङ्क्रमितेभ्यः रोगेभ्यः रक्षणं दातुं शक्नोति । सामुदायिकैकरूपतायाः व्यापकप्रयासत्वेन योगः सर्वान् योजयित्वा परस्परम् आदरभावं जनयिष्यति च" इति । ततः स्ववचनस्य पुष्टतायै सः अवदत्, "योगः एका क्रिया अस्ति, यया विकासाय, शान्त्यै च योगदानं भवितुम् अर्हति । जनाः योगमाध्यमेन अन्येषां समस्यानां निवारणं कृत्वा तेषां जीवनम् उद्विग्नतामुक्तं (Stress free) कर्तुं शक्नुवन्ति" इति [४]


चित्रवीथिका[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

योगसूत्रम्

पतञ्जलिः

योगः

नरेन्द्र मोदी

अन्ताराष्ट्रियवाताटोत्सवः (गुजरातराज्ये)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.internationalyogafestival.com/event/iyf2015/ Archived २०१४-०८-२१ at the Wayback Machine

http://timesofindia.indiatimes.com/india/Narendra-Modi-calls-for-International-Yoga-Day/articleshow/43665102.cms

http://ksn.com/2014/09/27/india-leader-proposes-international-yoga-day/ Archived २०१५-०८-०७ at the Wayback Machine

http://in.reuters.com/article/2014/12/11/un-yoga-idINKBN0JP23020141211 Archived २०१५-०१-०८ at the Wayback Machine

http://www.worldyogaday.net/cms/index.php Archived २०१५-०६-२४ at the Wayback Machine

http://www.world-yoga-day.org/cms/content/idea

http://www.internationalyogaweek.com/

https://www.facebook.com/pages/World-Yoga-Day/170209873004306

http://www.worldyogaday.net/cms/content/how-participate Archived २०१५-०१-२२ at the Wayback Machine

https://www.facebook.com/internationalyogafestival

http://www.internationalyogafestival.com/ Archived २०१५-०३-१५ at the Wayback Machine

http://timesofindia.indiatimes.com/india/Narendra-Modi-calls-for-International-Yoga-Day/articleshow/43665102.cms

http://www.parmarth.com/y_courses.php Archived २०१५-०२-०६ at the Wayback Machine

उद्धरणम्[सम्पादयतु]

  1. १.० १.१ "योगदिवसः". संयुक्तराष्ट्रमहासभा. आह्रियत २०१५-०१-११. 
  2. "योगशास्त्रम्". भगवान् पतञ्जलिः. आह्रियत २०१५-०१-११. 
  3. "योगदिनम् 1". झी न्यूझ्. आह्रियत २०१५-०१-११. 
  4. "योगदिवसः". in.reuters.com. Archived from the original on 2015-01-08. आह्रियत २०१५-०१-११.