सिम्हेन्द्रमध्यमम् (रागः)
सिम्हेन्द्रमध्यमम् (रागः) | |
---|---|
आरोहणम् | स रि१ ग२म२प ध१नि३ स |
अवरोहणम् | स नि३ध१ प म२ग२ रि२ स |
न्यासस्वराः | रि, प |
रसः | करुणा, भक्तिः |
जन्यरागः | जयचूडामणि, शुद्धरागः |
प्रसिद्धकीर्तनानि | राम राम गुण सीम, पामरजनपालीनी |
सिम्हेन्द्रमध्यमरागः कर्णाटकशास्त्रीयसङ्गीतस्य कश्चन रागः । वेङ्कटमखेः मेलकर्तृरागव्यवस्थायाः अनुगुणम् अयं रागः सप्तपञ्चाशत्तमः मेलकर्तृरागः अस्ति।मुत्तुस्वामि-दीक्षितस्य मेलकर्तृरागव्यवस्थायाः अनुसारम् एतस्य रागस्य नाम "सुमद्युतिः"। एषः रागः शण्मुखप्रियारागस्य सदृशः रागः। हिन्दुस्थानीयशास्त्रीयसङ्गीते जनाः कर्णाटकसङ्गीतात् एतं रागं स्वीकृतवन्तः।
लक्षणानि
[सम्पादयतु]दिशिचक्रे तृतीयः रागः। अस्मिन् रागे चतुश्रुतिऋषभः, साधारणगान्धारः, प्रतिमध्यमः, शुद्धधैवतः , काकलिनिशादं च स्वराः भवन्ति। यतः अयं रागः मेलकर्तृरागः अस्ति, अतः वयं एतं रागं "सम्पूर्णरागं" इति वदामः । सम्पूर्णरागः इत्युक्ते सर्वे सप्तसवराः अपि भवन्ति। निशादं विहाय शन्नमुखप्रियारागस्य (५६ मेलकर्तृरागः) सदृशः एव । मध्यमं विहाय कीरवाणीरागस्य (२१ मेलकर्तृरागः) समानः एव ।
जन्यरागाः
[सम्पादयतु]सिम्हेनद्रमध्यमरागस्य केचन विरलाः जन्यरागाः सन्ति। उदाहरणार्थम् आनन्दवळी (रागः) जयचूडामणि (रागः) शुद्ध (रागः) विजयसरस्वति (रागः) च केचन जन्यरागाणां नामानि।
प्रसिद्धानि कीर्तनानि
[सम्पादयतु]अधः मायामालवगौलरागे प्रसिद्धानाम् कीर्तनानाम् आवलिः दत्ता अस्ति -
- "नीदु चरनमुले", "पन्नगेन्द्र शयन" - त्यागराजः, तेलुगुभाषा
- "राम राम गुण सीम" - स्वाति तिरुनालः, संस्कृतभाषा
- "अय्यप्पा" - येसुदास्, तमिऴ्
- "पामरजन पालिनि" - मुत्तुस्वामी दीक्षितः, संस्कृत भाषा