मनमोहन सिंह
मनमोहनसिंहः | |
---|---|
भारतस्य भूतपूर्वप्रधानमन्त्री | |
In office २२ मै २००४ – २६ मै २०१४ | |
President |
अब्दुल कलाम प्रतिभा देवीसिंह पाटील प्रणब मुखर्जि |
Preceded by | अटल बिहारी वाजपेयी |
Succeeded by | नरेन्द्र मोदी |
In office २६ जून २०१२ – ३१ जुलै २०१२ | |
Preceded by | प्रणब मुखर्जि |
In office ३० नवम्बर २००८ – २४ जनवरी २००९ | |
Succeeded by | प्रणब मुखर्जि |
In office २१ जून १९९१ – १६ मै १९९६ | |
Prime Minister | नरसिंहराव |
Preceded by | यशवंत सिन्हा |
Succeeded by | जसवंत सिंह |
रेलमंत्री | |
In office १९ मै २०११ – १३ जुलाई २०११ | |
Preceded by | ममता ब्यानर्जी |
Succeeded by | दिनेश त्रिवेदी |
वैदेशिकनीतिमंत्री | |
In office ६ नवंबर २००५ – २४ अक्टूबर २००६ | |
Preceded by | कुंवर नटवर सिंह |
Succeeded by | प्रणब मुखर्जि |
अनुसन्धानायोगस्य उपाध्यक्ष: | |
In office १५ जनवरी १९८५ – ३१ अगस्त १९८७ | |
Prime Minister | राजीवगान्धिः |
Preceded by | नरसिंहराव |
Succeeded by | पुञ्जल शिव शंकर |
भारतस्य अनालापवित्ताकोषस्य राज्यपाल | |
In office १५ सितंबर १९८२ – १५ जनवरी १९८५ | |
Preceded by | इन्द्रप्रसाद गोर्धनभाई पटेल |
Succeeded by | अमितव घोष |
व्यैय्यक्तिकसूचना | |
Born |
गाह, पुञ्जाब, आङ्ग्लभारत[१] | २६ १९३२
Political party | भारतीयराष्ट्रियकाङ्ग्रेस् |
Spouse(s) | गुरशरण कौर (१९५८–) |
Children |
उपिन्दर दमन अमृत |
Residence |
पञ्चवटी, नईदिल्ली (कार्यालयीय) गुवाहटी (वैयत्तिक) |
Alma mater |
पुञ्जाब विश्वविद्यालय, चंडीगढ़ सेंट जॉन महाविद्यालय, कैंब्रिज नफ्फील्ड महाविद्यालय, ऑक्सफ़ोर्ड |
Profession |
अर्थशास्त्री जानपदसेवक सामाजिककार्यकर्ता प्राध्यापक |
Website | मनमोहन सिंह |
बाल्यजीवनं शिक्षणं गौरवाणि च
[सम्पादयतु]पूर्वम् आङ्ग्लशासितपञ्जाबप्रान्ते गाह इत्यत्र (साम्प्रतं पाकिस्तानमध्ये चतवाल् जनपदे) सिक्खखत्री परिवारे १९३२ तमे वर्षे २६ सप्टेम्बरदिनाङ्के गुरुमुखसिंह -अमृतकौरदम्पत्योः श्री मनमोहनसिंहः जातः .[२]। यदा सः अल्पायुरासीत् तदैव मात्रा वियुक्तः अभवत्। पितामह्या पोषितः ।अतः सः तस्याः अतीव निकटवर्ती आसीत् । भारतदेशस्य विभाजनस्य पश्चात् तस्य परिवारः भारते अमृतसरं प्रति स्थानान्तरितः अभवत् । तत्र सः हिन्दुमहाविद्यालये अपठत् । सः चण्डीगढस्थितं पञ्जाबविश्वाविद्यालयं प्रविश्य अर्थशास्त्रमधीतवान्। तथैव क्रमेण १९५२, तथा १९५४ मध्ये स्नातकपदवीं स्नातकोत्तरपदवीं च प्राप्नोत् । तस्य विद्यार्जनकाले सः सदैव सर्वप्रथमः आसीत् । अनन्तरम् अर्थशास्त्रस्य ट्रायपास-अभ्यासक्रमं पठितुं सेण्ट्-जान्-महाविद्यालयं प्राविशत् । १९५५ तः१९५७ वर्षपर्यन्तं कृतस्य विशेषयोग्यतासम्पादनस्य निमित्तम् सः राइट्स् पुरस्कारं प्राप्तवान् । तथैव रेनबरीछात्रवृत्तेः ये कतिपयाः एव प्रतिग्राहकाः(स्वीकर्तारः) आसन् तेषु सः अन्यतमः अभवत् । आक्सफर्डविश्वविद्यालयस्य नफील्ड् महाविद्यालयस्य सः सदस्यः आसीत् । तेन तत्कृते प्रस्तुतस्य शोधप्रबन्धस्य शीर्षकम् एवम् आसीत् -"१९५१-६० कालावधौ भारतस्य निर्यातनिष्पादनम् -निर्यातप्रत्याशाः-नीति-विवक्षाः च। (India's export performance, 1951-960, export prospects and policy implications .) [३]। डा. IMD Little (आ एम् डी लिटल्) तस्य प्रबन्धस्य अधीक्षकः आसीत् । अनन्तरम् अयमेव प्रबन्धः 'भारतस्य निर्यातप्रवृत्तयः -स्वसंवार्धितवृद्धये प्रत्याशाः च' इति नाम्ना पुस्तकत्वेन प्रकाशितः । १९९७ मध्ये अलबर्टाविश्वविद्यालयेन सः विधिज्ञानविषये गौरवडाक्टरेट्-पदव्या सम्मानितः । जुलै २००५ मध्ये आकसफर्डविश्वविद्यालयः तस्मै व्यवहारविधिज्ञानविषये गौरवडाक्टरेट्-पदव्या सम्मानितः । अक्टोबर २००५ मध्ये केम्ब्रिड्जविश्वविद्यालयेन अपि तस्मै स एव सम्मानः दत्तः। " डा. मनमोहनसिंहछात्रवृत्तिः" इति तस्य नाम्ना PhD छत्रवृत्तिम् आरभ्य सेण्ट जान् महाविद्यालयेन सः सम्मानितः । २००८ मध्ये सः बनारस् हिन्दुविश्वविद्यालयेन Doctor of Letters इति मानदपदव्या अलङ्कृतः । तस्मिन्नेव वर्षे मद्रासविश्वविद्यालयः अपि तस्मै गौरवPhD पदवीम् अददात् । २०१० मध्ये किङ्ग् सौद् विश्वविद्यालयेन तस्मै मानदPhD पदवी दत्ता । पी.हेच्.डी प्रबन्धकार्यं समाप्य श्रीमनमोहनसिंहः १९६६ -६९ पर्यंतं संयुक्तराष्ट्रसंघस्य वाणिज्यविकाससङ्घटनायाः कृते कायरतः आसीत् ।१९७० दशके सः देहलीविश्वविद्यालये अध्यापनकार्यमकरोत् । पूर्वं केन्द्रीयविदेशवाणिज्यमन्त्रिणा श्रीललितनारायणमिश्रमहोदयेन सह सः विदेशवाणिज्यमन्त्रालये सेवारतः आसीत् । विदेशवाणिज्यमन्त्री श्रीललितनारायणमिश्रा सर्वप्रथमः मन्त्री आसीत् येन मनमोहनसिंहमहोदयस्य अर्थशास्त्रे प्रतिभा अभ्यवज्ञाता । श्रीमिश्रा तं विदेशवाणिज्यमन्त्रालये 'विमर्शदाता’ इति नियुक्तवान् । (पूर्वं श्रीमिश्रा, सान्तियागो, चिली इत्येतयोः स्थानयोः संयुक्तराष्ट्रसङ्घस्य वाणिज्यविकाससङ्घटनायाः सभायां भागं वोढुं विमानेन गच्छन्नासीत् तदा योगयोगेन श्रीमनमोहनसिंहमहोदयस्य मेलनम् अभवत् ।) १९८२ मध्ये श्री मनमोहनसिंहमहोदयः भारतीयरिझर्ववित्तकोषस्य गवर्नरपदे नियुक्तः । स १९८५ पर्यन्तं तत्पदं धारयामास । ततः १९८५ ते १९८७ पर्यन्तं योजना-आयोगस्य उपाध्यक्षोऽभवत् । १९८७ तः १९९० पर्यन्तं स्विट्झरल्याण्डस्य जिनीवा इत्यत्र यस्य मुख्यालयः आसीत् तस्य दक्षिण-आयोगस्य सः महासचिवः अभूत् । अयम् आयोगः आर्थिकनीति- विषयकचिन्तनस्य स्वतन्त्रः आगरः आसीत् ।
राजनीतेः पूर्वानुभवः
[सम्पादयतु]भारतस्य वित्तमन्त्री -१९९१ मध्ये तत्कालीनः प्रधानमन्त्री श्री.पी.वी.नरसिंहरावः श्री मनमोहनसिंहमहोदयं वित्तमन्त्री इति अचिनोत् । तस्मिन्समये भारतस्य धनसम्बन्धि अपूर्यत्वम् अस्माकं स्थूलगृहोत्पादनस्य ८.५ प्रतिशतम् आसीत् तथैव देयादेयसमीकरणे अपि महत् अपूर्णत्वम् आसीत् । प्रचलत्यां लेखागणनायाम् अपूर्णत्वमपि स्थूलगृहोत्पादनस्य ३.५ प्रतिशतस्य समीपम् आसीत् [४][५]। भारतस्य विदेशमुद्रासञ्चयः अपि एक-अब्जं यू. एस् डालर्समात्रम् आसीत् । सः निधिः केवलं कतिचित् सप्ताहानाम् आयातानां शुल्कपूर्तये मात्रं पर्याप्तम् आसीत् । तत्तुलनया अद्य तु स एव निधिः २८३ अब्ज यू एस् डालर्स् अस्ति। भारतस्य पुरतः आर्थिकसङ्कटमस्ति । एवं सति भारतप्रशासनेन अन्तार्राष्ट्रियवित्तकोशात् साहाय्यम् अभियाचितम् । तेन कोशेन आर्थिकसाहाय्यं तु कृतं तथापि भारतस्य आर्थिकनीतिमुद्दिश्य बहवः निर्बन्धाः निविष्टाः तेन । परिणामतः वित्तकोशेन आदिष्टनीत्यनुसारेण अस्माकं यत् सर्वव्यापि अनुज्ञप्तिशासनम्(अनुज्ञप्तिप्रणाली) आसीत् तत् परिहर्तव्यमभवत् । अपि च भारतस्य अर्थव्यव्स्थां प्रशासनाधीनां कर्तुं यः प्रयत्नः आसीत् तस्यापि समाप्तिः आवश्यकी अभवत् । तदनुसृत्य एतावत्पर्यन्तं भारतस्य समाजोन्मुख अर्थव्यवस्थायाः अधिकतमः प्रभावी शिल्पी श्री मनमोहनमनमोहनसिंहमहोदयः शनैः विदेशीनिवेशार्थं व्यवसायक्षेत्रे स्पर्धायै च द्वाराणि उद्घाटितवान् [६]। श्रीनरसिंहरावमहोदयः, श्रीसिंहमहोदयश्च तादॄर्शीनां नीतीनां कार्यान्वयनमकुरुतां येन अर्थव्यवस्था निरर्गला अभवत् अस्माकं समाजोन्मुखी अर्थनीतिः धनिकानुकूलया नीत्या परिवर्तिता । एवं च एतावत्पर्यन्तं येन अनुज्ञाप्तिशासनेन वैयक्तिकव्यवसायानां समृद्धिः बाधिता आसीत् सा नष्टा । तौ उभौ विदेशीनिवेशस्य मार्गे ये विघ्नाः आसन् तान्दूरीकृत्य सार्वजनिक-उपक्रमानां निजीकरणस्य क्रमं प्रारब्धवन्तौ (प्रारभताम्)। एतेषु संशोधनेषु सत्सु अपि १९९६ मध्ये रावप्रशासनम् अन्येषु क्षेत्रेषु सम्यक् निष्पादनाभावे पराजितम् । चिरकालीनः केन्द्रीयमन्त्री श्री चिदम्बरं भारतस्य अर्थव्यवस्थां विपणोन्मुखार्थिकनीत्यां परिणमयितुं श्री मनमोहनसिंहः प्रचोदितवान् इति। तं भारतस्य 'डेङ्ग क्झिआओपिङ्ग 'इति प्रशंसया सम्बोधितवान् । १९९३ मध्ये १.८ अर्बुद यू एस् डालर्स् प्रतिभूत्याः अपवादं प्रागेव अपेक्षितुं वित्तमन्त्रालयः असमर्थः अभवत् इति संसदीयान्वेषणसमितेः अभिवेदने वित्तमन्त्रालयस्य भर्त्सना कृता। अतः श्री मनमोहनसिंहमहोदयः वित्तमन्त्रीपदस्य त्यागपत्रं दातुमुद्युक्तः । तथापि प्रधानमन्त्री श्री रावमहोदयः तस्य त्यागपत्रं न स्वीकृतवान् प्रत्युत अभिवेदने येषामुपरि दोषारोपाः आसन् तान् व्याक्तिशः दण्डयितुमभिवचनं ददौ ।
राज्यसभायां चर्या
[सम्पादयतु]श्री मनमोहनसिंहमहोदयः आदौ १९९१ मध्ये संसदः वरिष्ठसदने राज्यसभायाः कृते निर्वाचितः । २००१, २००७ मध्ये च सः पुनर्निर्वाचितः । १९९८-२००४ पर्यन्तं यदा भारतीयजनतापक्षः सत्तारुढः आसीत् तदा श्री मनमोहनसिंहमहोदयः राज्यसभायां विपक्षस्य नेता आसीत् । १९९९ मध्ये सः लोकसभासदस्यत्वाय दक्षिणदेहलीतः प्रत्याशी आसीत् परं सः जेतुम् असमर्थोऽभूत्।
प्रधानमन्त्रीपदम्
[सम्पादयतु]आर्थिकनीतिः-
१९९१ मध्ये केन्द्रीयार्थमन्त्रिपदं धारयन् श्री मनमोहनसिंहमहोदयः यत् 'अनुज्ञप्तिशासनं’ भारतस्य मन्दार्थिकप्रगतेः तथा च दशकेभ्यः अर्थव्यवस्थां प्रविष्टस्य भ्रष्ट्राचारस्य कारणमासीत् । तस्मात् आन्तराष्ट्रियवित्तकोशस्य सूचनानुसारं, तस्य मोचनं कृतवान् । विकासस्य वेगं नाटकीयरीत्या वर्धयितुं सः अर्थव्यवस्थाम् अनर्गलामकरोत् । सः भारतीयविपण्याम् आर्थिकवृद्धिं प्रोत्साहयितुं यत्नशीलः आसीत्, एतेषु विषयेषु सः सर्वाधिकं यशः अपि समपादयत् । श्रीमनमोहनसिंहमहोदयः यदा भारतीयार्थव्यवस्था ८-९ प्रतिशतं आर्थिकवृद्धिम् प्राप्नोत् तदा, पूर्ववित्तमन्त्रिणा श्री चिदम्बरम् महोदयेन सह तस्याः साक्षीभूतः अभवत् । भारतेन स्थूलगृहोत्पादनस्य ७ प्रतिशतं प्रमाणेन उच्चस्तरः सम्पादितः । जगति वेगेन वर्धमानासु प्रमुखासु आर्थिकव्यवस्थासु भारतदेशस्य व्यवस्था अन्यतमा।
द्वितीयक्रमाङ्के स्थितः
[सम्पादयतु]जागतिकविपणीषु भारतीयवस्तूनां प्रवेशाय तथैव महतः दारिद्य्रात् मोचयितुम् अस्माकं विशाला श्रमिकक्षमतायाः उपयोगः एकः एव मार्गः (स एव अवलम्बनीयः) इति विचिन्त्य श्री मनमोहनसिंहः इदानीं जागतिकीकरणस्य बलवान् समर्थकः अस्ति । वाजपेयी प्रशासनेन प्रारब्धा सुवर्णचतुष्पथयोजना तथैव राष्ट्रियमार्गाणाम् आधुनिकीकरणकार्यक्रमः च सिंहप्रशासनेन प्रवर्तमानौ स्तः । श्री मनमोहनसिंहमहोदयः ब्याङ्किङ्ग(वित्तकोशक्षेत्रे) क्षेत्रे, आर्थिकक्षेत्रे तथैव सार्वजनिक-उपक्रमाणामक्षेत्रे अपि शोधनं कुर्वन्नस्ति । अर्थमन्त्रालयः कृषकान् तेषां ऋणात् मोचयितुं कार्यरतः अस्ति । उद्योगोन्मुखनीतयः कल्पयन् अस्ति । २००५ मध्ये सिंहसर्वकारेण विक्रयणकर- स्थाने मूल्यान्वितकरः प्रवर्तितः । २००७ तथा २००८ वर्षयोः पूर्वार्धे जागतिकमुद्रास्फितिसमस्यायाः परिणामः भारतस्योपरि सञ्जातः।
स्वास्थ्यरक्षणं एव शिक्षा
[सम्पादयतु]२००५ मध्ये प्रधानमन्त्री श्रीमनमोहनसिंहमहोदयः स्वास्थ्यमन्त्रालयः च सम्भूय राष्ट्रियग्रामीणस्वास्थ्य-अभियानम् आरब्धवन्तौ। तेन लक्षशः समाज(समुदाय)सेवकाः कार्यप्रवृत्ताः । जेफ्री साक्स् इति अमेरिकीयेन अर्थशास्त्रज्ञेन अयं ग्रामीणः स्वास्थ्य-उपक्रमः चालितः । २००६ मध्ये सिंहप्रशासनेन अन्य-अनुसूचितजातीनां कृते अखिल-भारत-आयुर्विज्ञान-संस्थायां, भारतीय-तंत्रज्ञान-संस्थासु, भारतीय-व्यवस्थापन-संस्थासु एवं च अन्यासु केन्द्रीय-उच्चशिक्षणसंस्थासु २७% प्रतिशतं आरक्षणस्य प्रस्तावस्य कार्यान्वयनं कृतम् । तेन २००६ मध्ये आरक्षणविरुद्धं निषेधपराणि आन्दोलनानि जातानि, आरक्षणस्य विरोधे निषेधः प्रकटितः। श्री मनमोहनसिंहमहोदयः घोषितवान् यत् 'आन्ध्रप्रदेश-बिहार-गुजरात-ओरिसा-पञ्जाब-मध्यप्रदेश-राजास्थान-हिमाचल-प्रदेशेषु अष्ट अतिरिक्ताः भारतीय-तंत्रज्ञान-संस्थाः स्थापयिष्यन्ते इति । तस्य पूर्ववर्तिना श्री अटलबिहारीवाजपेयीमहोदयेन प्रारब्धं सर्वशिक्षा- अभियानकार्यक्रमं सिंहप्रशासनं प्रवर्तमानम् अस्ति । निरक्षरतां दूरीकर्तुं, मध्याह्नभोजनस्य प्रवर्तनं, तस्मिन् संशोधनं, भारते सर्वत्र, विशेषरुपेण ग्रामीणक्षेत्रेषु नूतनानां पाठशालानां स्थापना इत्यादीनां समावेशः अस्मिन् कार्यक्रमे अस्ति।
सुरक्षा गृहव्यवहारः च
[सम्पादयतु]आतङ्कविरोधि-अधिनियमानां दृढीकरणाय सिंहप्रशासनमेव कारणीभूतम् । तदर्थं पोटा अधिनियमस्य प्रावधानाः UAPA अधिनियमे पुनः समाविश्य संशोधनं कृतम् । टीकाकारणां मतेन एतैः संशोधनैः अयम् अधिनियमः कठोरतरः अभवत् । नोवेमबर २००८ वर्षे मुम्बयीनगरे आतङ्ककवादीनाम् आक्रमणानि अभवन् तदा आतङ्कवादं प्रत्तिरोद्धुं (तेन प्रतियोद्धुं) केन्द्रीयव्यवस्थायाः आवश्यकताम् अवगम्य शीघ्रमेव NIA स्थापितः। अपि च २०००९ मध्ये राष्ट्रियसुरक्षाव्यवस्थां दृढीकर्तुं (वर्धयितुं), इ (इलेक्ट्रानिक) प्रशासनं सुकरं कर्तुं च बहूद्देशीय राष्ट्रिय-अभिज्ञानपत्रस्य कल्पनायाः कार्यान्वयनार्थं फेब्रुवरी २००९ मध्ये अपूर्वस्य भारतीय-अभिज्ञानप्राधिकरणस्य स्थापना कृता (Unique identification Authority of India)। एते उपायाः आरक्षकराज्यप्रतिष्ठापनाय साहाय्यकराः अनुकूलाः भवेयुः इति मानवाधिकारसंस्थाभिः सिंहप्रशासनस्य निन्दा कृता । पूर्वभारते तथा मध्यभारते ग्रामीण क्षेत्रेषु भयं जनयन्तं नक्सलानाम् आतङ्कं न्य़ूनीकर्तुम् असमर्थमभवदिति सिंहप्रशासनस्य भर्त्सनं कृतम् । सिंहप्रशासनेन तथापि इस्लामी आतङ्कवादीगणस्य निन्दापात्रमभवत्। विद्यार्थिनां भारतीय-इस्लामिक-आन्दोलन- सङ्घटनं प्रति निषेधादेशः विस्तारितः। काश्मीरप्रदेशे स्थैर्यं स्थापयितुं सिंहप्रशासनेन महान् पुनर्निर्माणकार्यक्रमः प्रारब्धः । परं यद्यपि आदौ किञ्चित् यशः प्राप्तं तथापि २००९ तः काश्मीरमध्ये राजद्रोहिणाम् आगन्तुकानाम् अनधिकृतप्रवेशः आतङ्कवादश्च वर्धितौ । तथापि उत्तरपूर्वभारते आतङ्कवादं न्यूनीकर्तुं सिंहप्रशासनं सफलीभूतमस्ति ।
सार्वजनिकी प्रतिमा
[सम्पादयतु]एतत् सदैव सर्वश्रुतं यत् श्री मनमोहनसिंहः स्वच्छचारित्र्यवान् उच्चप्रतिभावान् च अस्ति इति । सः मितभाषी इति ज्ञातमेव । भारतस्य विपणीषु उपलभ्यमानेषु भारतस्य सर्वेषु कारयानेषु अतिसामान्यं मारुति ८०० कारयानं सः चालयति इति दृष्ट्वा The Independent इति पत्रिकया श्री मनमोहनसिंहः एवं वर्णितः " अयं जगतः पूज्यतमेषु अन्यतमः नेता अस्ति " तथैव असामान्यतया सभ्यः शालीनः पुरुषः " इति । ख्यातनामः खुशवन्तसिंहः अपि 'जवाहरलालनेहरुमहोदयात् अपि श्रेष्ठतरः’ इति निरुपयन् मनमोहनसिंहमहोदयः अद्यपर्यन्तं भारतस्य श्रेष्ठतमः उत्तमः प्रधानमन्त्री इति तस्य प्रशंसामकरोत् । "Absolute Khushwant " The low Down on Life, Death and Most things in -between' इति।स्वस्य पुस्तके श्री खुशवंतसिंहः एकां घटनां वदति 'लोकसभायाः निर्वाचने पराजितः श्री मनमोहनसिंहः ट्याक्सीयानानां कृते यू एस डालर् ४५०० (लक्षद्वयरुप्यकाणि) ऋणं यत् स्वीचकार तत् तत्क्षणमेव सः न्यवर्तयत् । श्री खुशवतसिंहः श्री सिंहमहोदयं शुचिचारित्र्यस्य उत्तमम् उदाहरणम् इति अभिधाय प्रतिपादितवान् यत् 'यदा जनाः शुचित्वविषये वदन्ति तदा अहं यः देशस्य उच्चतमं पदं भूषयन्नस्ति स एव शुचित्वस्य उत्तमम् उदाहरणम् इति कथयामि 'इति । तथापि जून २०११ मध्ये तस्य प्रशासनं प्रति भ्रष्टाचारस्य आरोपानन्तरं तस्य लोकप्रतिमा मलिनीभूता ।
वैयक्तिकजीवनम्
[सम्पादयतु]श्री सिंह १९५८ मध्ये गुरुशरणकौरं परिणीतवान् । तयोः तिस्रः अपि पुत्र्यः निजक्षेत्रे स्वस्वचर्यासु यशस्विन्यः सन्ति । श्रीमती उपिन्दरसिंह देहलीविश्वविद्यालये इतिहासस्य प्राध्यापिका अस्ति । सा षट् पुस्तकानि लिखितवती । एतेषु पुस्तकेषु " Ancient Delhi (1999)" " A history of Ancient and early Medieval India (2008)" अपि समाविष्टे । श्रीमती दमन् सिंह देहली स्थितस्य सेण्ट स्टीफेन् महाविद्यालयस्य, गुजरातमध्ये आणन्द इत्यत्र स्थितस्य ग्रामीणव्यवस्थापनसंस्थायाः च स्नातका अस्ति । 'The last Frontier people and Forests in Mizoram' तथा 'Nine by Nine' इति कादम्बर्याः लेखिका अस्ति सा । श्रीमती अमृता सिंह 'ACLU इत्यत्र अधिवक्त्री अस्ति । सिंहमहोदयस्य बहवः हृदयशस्त्रक्रियाः संजाताः ।तासु जानेवरी २००९ मध्ये जाता चिकित्सा नूतनतमा अस्ति। श्री मनमोहनसिंहः तस्य पत्नी च उभावपि कोहलीजातीयौ। तथापि न कोऽपि तस्य नाम्नः प्रयोगं कुरुते ।
|
टिप्पणी
[सम्पादयतु]- ↑ Hindus Contribution Towards Making Of Pakistan 22 May 2010 Retrieved 28 January 2011
- ↑ "Detailed Profile: Dr. Manmohan Singh". आह्रियत 18 December 2011.
- ↑ "Curriculum Vitae" (PDF). Prime Minister's Office. आह्रियत 11 December 2008.
- ↑ "CIA – The World Factbook". Cia.gov. Archived from the original on 11 June 2008. आह्रियत 15 February 2011.
- ↑ "The India Report". Astaire Research.
- ↑ Friedman, Thomas L. (2008). The World is Flat – A brief history of the twenty-first century. Picador. p. 488. ISBN 0-374-29288-4.
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- फलकम्:Wayback official website
- Profile & फलकम्:Wayback
- List of current Union Ministers