अजमेर

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(अजमेर् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
अजमेर
—  नगरम्  —
मेयो कालेज्
अजमेर is located in Rajasthan
अजमेर
Coordinates: 26°27′N 74°38′E / 26.45°N 74.64°E / 26.45; 74.64
देशः भारतम्
राज्यम् राजस्थानम्
मण्डलम् अजमेर
औन्नत्यम् ४८६ मी (१,५९४ फिट)
जनसङ्ख्या (2011 census)
 • सम्पूर्णम् ५,४२,५८०
Languages
 • Official हिन्दी, आङ्ग्लभाषा
 • Regional हिन्दी, राजस्थानी
IST (UTC+5:30)
PIN 3050 xx
Telephone code +0145
वाहनपञ्जीकरणम् RJ01
Nearest city जयपुरम्, उदयपुरम्, देहली
जालस्थानम् www.ajmer.nic.in

अजमेर ( ( शृणु) /ˈəəmɛrə/) (हिन्दी: अजमेर, आङ्ग्ल: Ajmer) राजस्थानराज्ये स्थितस्य अजमेरमण्डलस्य केन्द्रम् अस्ति । पूर्वम् एतत् नगरम् अजयमेरुः इति नाम्ना ख्यातम् आसीत् । एतन्नगरं हिन्दूनां, यवनानाञ्च यात्रास्थलमस्ति । इतिहासानुसारम् आङ्ग्लराजदूतः सर् थामस् मन्रो मुघलवंशीयं जहाङ्गीरनामकं राजानं क्रिस्ताब्दे १६१६ तमे वर्षे अत्रैव मिलितवान् आसीत् । क्रिस्ताब्दे १८१८ तमे वर्षे प्रशासनम् आङ्ग्लानां वशे अभवत् ।

अजमेरसमीपे पुष्करतीर्थे (११कि.मी) हिन्दूजनाः पवित्रस्नानं कुर्वन्ति । पुष्करतीर्थे चतुर्मुखब्रह्मदेवालयः अपूर्वः अस्ति । तारागढपर्वततले ख्वाजा मोयिनुद्दीन् दरगाह अस्ति । एतत् अमृतशिलया निर्मितमस्ति । अकबरनामकस्य मुघलराज्ञः राजगृहम् इदानीं वस्तुसङ्ग्रहालयत्वेन उपयुज्यमानः अस्ति । नासियान् जैनमन्दिरम्, आनासागरतडागः, तारागढदुर्गः (१३०० पादोन्नतः) इत्यादीनि आकर्षणीयस्थलानि नगरेऽस्मिन् सन्ति ।

 अजयमेरुः

चौहानवंशस्य उत्कर्षस्य, पराभवस्य च जीवन्तसाक्षी अजयमेरुः वर्तते । यतो हि अजयराजस्य काले अजयमेरोः राजधानीत्वेन घोषणाोत्तरं पृथ्वीराजतृतीयस्य नरायनस्य द्वितीये युद्धे पराजयं यावत् अजयमेरुः चौहानवंशस्य राजधानी आसीत् । पृथ्वीराजतृतीयस्य मृत्युः अपि अजयमेरौ एवाभवत् [१] [२] । अजयमेरुः एव अरावल्याः विशालपर्वतमालायां स्थितः चौहानवंशस्य केन्द्रियशक्तेः विराट् स्वरूपः आसीत् । द्वादश्यां शताब्द्यां भारतीयत्वस्य रक्षणं यः कृतवान्, सः अजयमेरुः एव आसीत् । अजयमेरोः हुङ्कारेणैव गोर-गझनी-बसरा-बगदाद इत्यादयः प्रदेशाः भयभीताः भवन्ति स्म । अजयमेरौ एव विग्रहराजेन शपथः स्वीकृतः आसीत् यत्, "अहं भारतवर्षं म्लेच्छमुक्तं (यवनमुक्तं) करिष्यामि" इति । सः अजयमेरुः अद्यापि अजमेर इति नाम्ना जीवन्तः अस्ति ।

इतिहासः[सम्पादयतु]

अजयमेरोः दुर्गस्य अजयगढ, अजयदुर्ग, अजयमेर, अजयपुरा, तारागढ इत्यादीनि नामानि प्रसिद्धानि सन्ति [३] । अजयमेरोः, अजयमेरुदुर्गस्य च स्थापना कदा अभवत् इत्यस्य अनेकानि प्रमाणानि उपलभ्यन्ते । चौहावंशीयेन अजयपालेन सप्तम्यां शताब्द्याम् अजयमेरोः स्थापना कृता [४] । उक्तं मतं डॉ. दीवान बहादुर हरविलास सारदा इत्येतस्य अस्ति । हरविलासमहोदयस्य मतस्य आधारः प्रबन्धकोशः अस्ति [५] । हरविलासमहोदयस्य मतस्य अन्ये आधाराः अपि सन्ति । यथा – अजयमेरोः प्राप्ताः शिलालेखाः । तेषु शिलालेखेषु यतेः रत्नकीर्तिमहाराजस्य हेमराजाख्येन शिष्येन ८१७ (ई. ७६०) तमे विक्रमसंवत्सरे प्रस्थापितः शिलालेखः अपि अन्तर्भवति । अन्ये शिलालेखाः अपि अजयमेरोः प्राप्ताः । तेषां प्रस्थापनकालः क्रमेण ई. ८४५, ८५४, ८७१ मन्यते [६] [७] [८]

अजयमेरुस्थानन्तरणस्य कारणम्[सम्पादयतु]

७१२ ई. मध्ये अरब-देशीयः सेनापतिः मुहम्मद बिन कासिम इत्यस्य नेतृत्वे सिन्धप्रदेशस्योपरि आक्रमणम् अभवत् । अबर-देशस्य लुण्ठकैः सिन्धप्रदेशस्य अनेकेषां प्रदेशानां धनं लुण्ठितम् । तस्मिन्नेव काले अरब-देशीयानाम् उत्पातैः स्वाराज्यस्य धनकोशस्य रक्षणं कर्तुं मण्डोरप्रदेशस्य शासकेन नागभट्टेन (ई. ७३०-७५६) स्वराजधानी मण्डोर-प्रदेशात् मेडान्तक-प्रदेशे (मेडता) स्थानन्तरिता [९] । इतिहासविदानां मतानुसारं मण्डोर-प्रदेशस्य शासकः चौहानवंशीयानां प्रबलप्रतिद्वन्द्वी आसीत् । अतः स्वराज्यस्य सुरक्षायै तत्कालीनः राजा अजयराजः भारतस्य प्राचीनतमतीर्थक्षेत्रस्य पुष्करस्य रक्षायै सैन्यशिबिराणि प्रास्थापयत् । अजयराजस्य पितुः पृथ्वीराजप्रथमस्य कालयेव शाकम्भरीप्रदेशस्योपरि तुर्कजनानाम् आक्रमणे वेगः आसीत् । अपरत्र चालुक्यवंशीयाः अपि पुष्करतीर्थस्योपरि आक्रमणानि अकुर्वन् [१०] । अतः अजयराजः स्वपुरातनसैनिकस्थलाय एव विराड्रूपं दत्त्वा तस्मिन् स्थले एकस्य विशालस्य दुर्गस्य स्थापनाम् अकरोत् । अजयमेरुः राजपूतानां हृदयस्थलवत् आसीत् । यतो हि तत् स्थलं प्रमुखमार्गैः सँल्लग्नम् आसीत् । अजयमरोः गुजरातराज्यस्य, दक्षिणभारतस्य, पश्चिमराजस्थानस्य, पञ्चनद्यस्य कृते साक्षात् मार्गाः आसन् । अतः अजयराजः स्वनाम्ना अजयमेरोः स्थापनम् अकरोत् [११]

अजयमेरुदुर्गम्[सम्पादयतु]

अजयमेरुदुर्गं तारागढ इत्यपि प्रसिद्धम् अस्ति । लोकगीतेषु अजयमेरुदुर्गस्य 'गढ बीठली', अजयगढ इत्येते नामनी प्राप्येते । समुद्रतलात् २८५५ फीट्, पृथ्वीतलात् ८०० फीट् च उन्नते गिरिमालिकाभिः आच्छादितं गिरिदुर्गम् अजयमेरुदुर्गं ८० एकड् भूमौ विस्तृतम् अस्ति । चतसॄषु दिक्षु विशालप्रस्तरैः निर्मिताः प्राचीराः सन्ति । ते प्राचीराः २० फीट् लम्बमानाः सन्ति । कुत्रचित् गिरिकायाः भागः अनुन्नतः अस्ति, तत्र प्राचीराणां वर्तुलाकारस्य सुदृढस्य अट्टालस्य (watchtower) निर्माणं कृतम् अस्ति । अजयमेरुदुर्गस्य सुदृढां सुरक्षाव्यवस्थां दृष्ट्वा पादरी हेबर् इत्याख्यः (१८२५ तमे वर्षे अजयमेरुदुर्गस्य यात्राम् अकरोत् सः ।) प्रवासी अवदत्, अजयमेरोः दुर्गं द्वितीयं 'जिब्राल्टर्' अस्ति इति [१२]

अजयमेरोः दुर्गं प्रवेशं कर्तुं त्रयः मार्गाः सन्ति । दुर्गस्य अग्रे, पृष्ठे च एकैकं द्वारम् अस्ति । अपरं मुख्यद्वारम् अस्ति । तद्द्वारं 'लक्ष्मीपोल' इति प्रसिद्धम् अस्ति । तस्य द्वारस्य निर्माणं प्राचीनपद्धत्या अभवत् । लक्ष्मीपोल-द्वारम् उभयतः अट्टालौ स्तः । तयोः अट्टालयोः मध्ये एका भित्तिका अस्ति । तस्याः भित्तिकायाः अध एव द्वारम् अस्ति । लक्ष्मीद्वारात् तसृषु दिक्षु प्राचीराणां पङ्क्तयः विस्तृताः सन्ति । लक्ष्मीद्वारात् यः गोलाकारमार्गः निर्गच्छति, सः १०० फीट् दूरे अपरं द्वारं प्रति नयति ।

अजयमेरुदुर्गे १४ विशालाः अट्टालकाः सन्ति । तेषां सर्वेषां नामानि क्रमेण अधः सन्ति ।

१. घूङ्घट-अट्टालकः

२. गुगडी-अट्टालकः

३. फूटा-अट्टालकः

४. नक्कार्ची-अट्टालकः

५. शृङ्गार-अट्टालकः

६. अर्पर्कात्रा-अट्टालकः

७. जानूनायक-अट्टालकः

८. पिप्पली-अट्टालकः

९. हुतात्मा-अट्टालकः

१०. दुराई-अट्टालकः

११. मर्कट-अट्टालकः

१२. इमली-अट्टालकः

१३. खिडकी-अट्टालकः

१४. फतेह-अट्टालकः

अजयमेरुदुर्गे पञ्च विशालजलाशयाः सन्ति । तेषां नामानि क्रमेण 'नाना साहब'-जलाशयः, गोल-जलाशयः, इब्राहीम-जलाशयः, बडा-जलाशयः, कर्बला-जलाशयः च ।

अजयमेरुदुर्गस्य सामरिकेतिहासः[सम्पादयतु]

नरायनस्य द्वितीये युद्धे पराजयोत्तरम् अजयमरुदुर्गे कुतुबुद्दीन ऐबक् इत्यस्य प्रभुत्वम् अभवत् । युद्धानन्तरम् अजयमेरुदुर्गे कानिचन दिनानि पृथ्वीराजतृतीयस्य पुत्रः गोविन्दः सामन्तत्वेन शासनम् अकरोत् । परन्तु ततः पृथ्वीराजतृतीयस्य भ्रातुः कृते दासत्वस्य स्थितिः असह्या अभवत् । अतः तेन अजयमेरौ स्थिताः सर्वे तुर्कजनाः निष्कासिताः । ततः ११९४ तमस्य वर्षस्य अन्ते उत ११९५ तमस्य वर्षस्य आरम्भे कुतुबुद्दीन ऐबक् इत्येषः पुनः अजयमेरुदुर्गे अधिकारम् अस्थापयत् ।

१५०५-३५ मध्ये अजयमेरुदुर्गं देहलीशासकानां, मेवाडप्रदेशीयानां महाराजानां च आधिपत्ये आसीत् । १४५५ मध्ये माण्डू-प्रदेशस्य राजा महमूद खलजी इत्येषः अजयमेरुदुर्गम् अजयत् । परन्तु बहुस्वल्पेषु दिनेषु एव माहाराणा कुम्भा इत्यस्य आक्रमणानन्तरम् अजयमेरुदुर्गस्योपरि मेवाडदेशीयानां शासनं स्थिरम् अभवत् । ततः अजयमेरुदुर्गं ११३३-३५ मध्ये गुजरातराज्यस्य बहादुर शाह इत्याख्यस्य शासने आसीत् । मेडता-प्रदेशस्य वीरमदेवः अजयमेरौ स्थितान् बहादुर शाह इत्यस्य जनान् उच्चाटितवान् (driven away, भगा दिया) । वीमरदेवस्य अजयमेरौ आधिपत्यं दृष्ट्वा जोधपुरस्य मालदेवः वीरमदेवस्योपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे पराजितः वीरमदेवः देहलीम् अगच्छत् । तत्र देहल्याः शासकाय शेरशाह इत्यस्मै साहाय्यार्थं विप्रालपत् (न्यवेदयत्) । शेहशाह इत्येषः १५५६ ई. मध्ये स्वसेनापतिं हाजी खाँ इत्येनम् अजयमेरौ आक्रमणाय प्रैषयत् । तस्मिन् युद्धे शेरशाह इत्यस्य सेनापतेः विजयत्वात् अजयमेरुदुर्गं देहलीशासनस्य भागम् अभवत् । ततः मुघलशासनकाले अकबर इत्यस्य सेनापतिना कासिम खाँ निशापुरी इत्यनेन अजयमेरौ आधिपत्यं प्रस्थाप्य तुर्कजनानां वर्चस्वस्य अन्तः कृतः ।

अजमेरुदुर्गादेव अकबर इत्येषः राजस्थानस्य विभिन्नेषु भागेषु, गुजरातराज्ये च आक्रमणाय स्वसेनां प्रेषयति स्म । १७२० पर्यन्तं मुगलसाम्राज्यस्य आधिपत्ये अजमेरुदुर्गं मुख्यसैनिकशिबिरत्वेन आसीत् । ततः मुगलसाम्राज्यस्य पराभवेन ग्वालियर-प्रदेशीयानां सिन्धियावंशीयाः अजयमेरुदुर्गे आधिपत्यम् अस्थापयन् । ततः १८१८ मध्ये आङ्गलसर्वकारस्य आधिपत्यानन्तरं १९४७ मध्ये अजयमेरुदुर्गं भारतसर्वकारस्य अधिकारक्षेत्रे सामाहितः ।

अजयमेरुदुर्गस्य प्राकृतिकसौन्दर्यम् [१३][सम्पादयतु]

प्राचीनकालादेव अजयमेरुदुर्गं परितः प्रकृतिः देदीप्यमाना आसीत् । आक्रान्तानां शासनकालेऽपि दुर्गं परितः प्राकृतिस्थितिः सातत्यपूर्णा आसीत् । १२१० (ई.) तः १२२५ पर्यन्तम् अजयमेरुदुर्गे अल्तमश इत्याख्यस्य यवनशासकस्य परमेष्ठिता (आधिपत्यम्) आसीत् । ताजुल मासिर इत्याख्यस्य ग्रन्थस्य रचयिता हसन निजामी इत्येषः अजयमेरौ कानिचन दिनानि अयापयत् । हसन निजामी इत्येषः अजयमेरुदुर्गं परितः स्थितायाः प्राकृतिकसुन्दरतां वर्णयन् अलिखत्, अजयमेरोः उद्यानानि सप्तरङ्गिपुष्पैः उत्सङ्गिताः (युक्ताः) सन्ति । उद्यानात् दृश्यमानानि गिरिकाणां, वनमालिकानां च दृश्यानि चीन-देशस्य प्रसिद्धचित्रशालायाः अपेक्षा अतिरमणीयानि (मनोहराणि) सन्ति । उद्यानस्य दृश्येन प्रतीतिः भवति यत्, कदाचित् एतत् उद्यानं स्वर्गात् अवतरितम् इति । प्रातःकालीनवायुः वातावरणे सौरभं (सुगन्धं) प्रसारयति । उषायाः वक्षस्थलं पाटलपुष्पैः आच्छादितं भवति । अजयमेरोः धूलिकायां मृगकस्तूरीणां सुवासः विद्यते । अजयमेरुदुर्गस्य जलाशयानां जलम् एतावत् स्वच्छम् अस्ति यत्, अमावास्याः रात्रौ अपि जलाशयस्य तले स्थितं लघुं पाषाणम् अपि स्पष्टतया द्रष्टुं शक्यते । जलाशयस्य मधुरं जलम् अमृततुल्यम् एवम् आरोग्यप्रदम् अस्ति । पुष्पाणां सुन्दरतायाः, वायुपृथ्व्योः स्वच्छतायाः, जलवृक्षाणां बाहुल्यतायाः च कारणेन सुखकरः अजयमेरुः अत्यन्तं रणयीस्थलम् अस्ति इति ।

वाहनमार्गः[सम्पादयतु]

जयपुर-तः १३८ कि.मी दूरे, उदयपुर-तः ३०२ कि.मी दूरे इदं नगरं तिष्ठति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. इलियट् एण्ड् डाउसन्, (प्रो. हबीब संस्कररणम्), भागः २, पृ. ६६४-६५
  2. स्टडीज् इन् इन्डो मुस्लिम् हिस्ट्री, भागः १, पृ. १७९-१८०
  3. डॉ. के सी जैन, एन्सियेन्ट् टाउन्स् एण्ड् सिटीज् ऑफ् राजस्थान, पृ. ३०१
  4. अजमेर – हिस्टोरिकल एण्ड् डिस्क्रिप्टिव्, पृ. २९
  5. स. आचार्य जिनविजय, पृ. १३३
  6. डॉ. जैन, एन्सियन्ट् सिजीज् एण्ड् टाउन्स् ऑफ् राजस्थान, पृ. ३०१
  7. डॉ. जैन, वीरवाणी (ई. १९५४)
  8. लहरें (ई. १९५७) अजमेर की छतरियाँ
  9. वि. ८९४ (ई. ८३२) मध्ये लिखितः बाउक-आख्यः जोधपुरस्य शिलालेखः, एपिग्राफिया इण्डिका, भागः १८, पृ. ८७-९९
  10. पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. ८६-९२, पृ. १९१-९२
  11. पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. १९२, पृ. १४६
  12. हेबर्स् जर्नल्, भागः २, पृ. ४८, सारदामहोदयद्वारा उल्लेखः पृ. ६
  13. ताजुल मासिर, पृ. २९-३०
"https://sa.wikipedia.org/w/index.php?title=अजमेर&oldid=303035" इत्यस्माद् पुनः प्राप्तिः