अद्य धारा निराधारा… निरालम्बा सरस्वती…

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

{{ Infobox settlement | name = अद्य धारा निराधारा… निरालम्बा सरस्वती… | image_skyline = Sri Sanjeevi Raya Hanuman Temple.jpg | image_caption = अद्य धारा निराधारा… निरालम्बा सरस्वती…


अद्य धारा निराधारा निरालम्बा सरस्वती’ इति इयं पङ्क्ति: प्राय: संस्कृतवाङ्मयस्य अध्येतॄणां सर्वेषामपि नितरां परिचितपूर्वा स्यादेव । यद्यपि बल्लालकृते: भोजप्रबन्धस्य इयं पङ्क्ति: तत्कालीना (भोजराजस्य अयं चरमश्लोक: कालिदासेन इत्थं गीत: इति उल्लेखपूर्वकं तस्मिन् ग्रन्थे उपलभ्यमाना) तथापि कालेऽस्मिन् नितराम् अन्वर्थतां भजते । यस्मिन् भारतवर्षे विद्यारम्भकाले - ‘सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ इति अधुनातनकालेऽपि गीयते तस्यैव भारतवर्षस्य मध्यभागे स्थितस्य, विद्याधिदेवताया: सरस्वत्या: मन्दिरस्य करुणापूर्णा गाथा इयम् !

प्रबन्धचिन्तामणि: इति जैनकृति: वदति - ‘परमारवंशीय: राजा भोज: देव्या: सरस्वत्या: उपासनार्थम् 1034 तमे क्रिस्ताब्दे अधुनातने मध्यप्रदेशराज्ये विद्यमाने धारानगरे (धार इति एतत्कालीनं नाम) भोजशालां निर्मापितवान्’ इति । भारतीयाध्यात्मिकताया: संस्कृतभाषायाश्च अध्ययनकेन्द्रत्वेन प्रथिता इयं भोजशाला सवसतिक: विश्वविद्यालय: एव आसीत् । चतुर्दशशताधिका: कवय: विद्वांस: तत्त्वज्ञाश्च इमां भोजशालाम् आश्रितवन्त: आसन् इति श्रूयते । तेषु माघ:, बाणभट्ट:, काालिदास:, भवभूति:, मानतुङ्ग:, भास्करभट्ट:, धनपाल: इत्यादय: प्रमुखा: । अस्यामेव भोजशालायाम् - अवनिकूर्मशतकं, सरस्वतीकण्ठाभरणं, राजमार्तण्ड:, तिथिसारणिका इत्याद्या: अमूल्या: कृतय: रचिता: । धारजनपदस्य देशविचारकोश: (Gazzetteer) ज्ञापयति यत् भोजशाला अत्यन्तं प्रसिद्धं शिक्षणकेन्द्रम् आसीत्, यत्र भारतस्य सर्वेषामपि मतधर्माणाम् अध्ययनम् अध्यापनं च प्रचलति स्म इति । स्वयं राजा भोज: चतुष्षष्ट्यां कलासु, षट्त्रिंशति युद्धविद्यासु च कुशल: आसीत् । राजा भोज: व्योमशास्त्रम्, आयुर्वेद:, व्याकरणं, राजनीति:, शिल्पशात्रं, वेदान्त:, वास्तुशास्त्रम् इत्यादीन् विषयान् अधिकृत्य 84 ग्रन्थान् रचितवान् इति उल्लेख: उपलभ्यते । एतस्य राज्ञ: शासनकाल: 1000 त: 1055 तमक्रिस्ताब्दपर्यन्तम् । एतावत्पर्यन्तम् अस्माभि: ज्ञात: अयं विषय: - सुवर्णमयस्य अध्यायस्य चित्ररूप: ।

किन्तु किं जातं तत: ? द्वादशे शतके चालुक्यवंशीया: सोलङ्किवंशीयाश्च राजान: धारानगरं वशीकृत्य तं सरस्वतीविग्रहम् अपहृत्य गुजरातराज्यं प्रति नीत्वा 1271 तमे वर्षे कञ्चन देवालयं निर्माय तत्र प्रतिष्ठापितवन्त: । एतावता न कापि महती हानि: जाता । तत: यवनानाम् आक्रमणम् आरब्धम् । यवना: तत्रत्यं ग्रन्थभाण्डागारं समग्रमपि नाशितवन्त: । देहलीराज्ञां वशं गता अभवत् भोजशाला । तादृशेषु नाशयितॄषु प्रमुख: आसीत् अल्लावुद्दीनखिल्जी । (शासनकाल: - 1305 तम: क्रिस्ताब्द:) तत: पश्चात् तत्र किञ्चन यवनानां प्रार्थनामन्दिरं निर्मितम् अभवत् । अद्यापि अयं प्रदेश: यवनप्रार्थनामन्दिरत्वेनैव सर्वत्र निर्दिश्यते ।

1902 तमे वर्षे केनचित् अनामिकेन छायाचित्रग्राहकेण अस्य यवनप्रार्थना-केन्द्रस्य छायाचित्रं स्वीकृतम् । 1903 तमे वर्षे श्रीमान् के.के.लेलेवर्य:, यश्च धारानगर्या: (धारप्रदेशस्य) अध्ययनाधीक्षक: (Superintendent Of Education) आसीत् स: - अर्जुनवर्मकालीनं संस्कृतप्राकृतमिश्रितं शिलालेखं दृष्टवान् ‘कमाल्मौलामस्जिद्’(भोजशाला)भित्तिषु । भोजराजस्य उत्तराधिकारी राजा अनुजवर्मा (1210 - 1215) आत्मानं भोजराजस्य अंशावतारं कथयति स्म । तत्सम्बद्धं सुचारुरीत्या उत्कीर्णं शिलाशासनम् अवलोकयितुं शक्यं भोजशालाया: प्रवेशसमनन्तरमेव । ‘बालसरस्वती’ इति ख्यात: कवि: मदन: ‘विजयश्रीनाटिका’ इति रूपकं रचयामास । ता: पङ्क्तय: तत्र उत्कीर्णा: सन्ति

एवम् अतिमहत्त्वं वहन् अयं सरस्वतीविग्रह: अधुना कुत्र वर्तते ? इति पृष्टे सति उत्तरं तु - ब्रिटिश् म्यूसियम् इत्यत्र इति !! अस्माकं दीर्घ-कालीनं दास्यं स्मारयन् अयं विग्रह: वर्तते लण्डन्नगरे !!!

मान्य: प्रफुल्लगोराडियावर्य: स्वीये लेखने लिखति - ‘‘2001 तमे वर्षे मया धारानगरस्य प्रवास: कृत: । भोजराजेन एकादशे शतके निर्मिता भोजशाला अवश्यं द्रष्टव्या इति मम तीव्रा इच्छा अवर्तत । किन्तु यदा अहं तत्र गत:, तदा मम प्रवेश: तत्रत्यै: आरक्षकै: निराकृत: । भूतपूर्व: सांसद: अहम् इति ज्ञात्वा अपि तै: एवम् आचरितम् । मया उर्दुभाषया व्यवहार: कृत: इत्यत: ‘शुक्रवासरे भवान् तत्र उपस्थाय प्रवेशं प्राप्तुम् अर्हति’ इति अकथयत् आरक्षकाधीक्षक: । तस्य एवं कथने इदं कारणम् आसीत् - प्रतिशुक्रवासरं यवनेभ्य: प्रवेश: कल्प्यते स्म प्रार्थना (नमाज्) निमित्तम् । किन्तु हिन्दूनाम् अन्या एव कथा । यदा मया उक्तं - ‘नाहं यवन:, अपि तु हिन्दु:’ इति, तदा तेन उक्तं - ‘तर्हि भवता आगामिवसन्तपञ्चमीपर्यन्तम् अवश्यं प्रतीक्षणीयम् । नान्य: पन्था:’ इति । 1997 तमे वर्षे दिग्विजयसिङ्गवर्यस्य सर्वकारेण घोषित: अयं पक्षपातपूर्ण: निर्णय: एव स्वस्य असहायकाताया: कारणम् इति विवृतवान् स: आरक्षकाधीक्षक: ।’’

अन्ताराष्ट्रियस्तरे ख्यात: इतिहासतज्ज्ञ: भूगर्भशास्त्रज्ञश्च डा विष्णु-श्रीधरवाकणकरवर्य: 1961 तमे वर्षे लण्डन्नगरं गत्वा तत्रत्यस्य सरस्वतीविग्रहस्य विषये अध्ययनं कृतवान् । तस्य विग्रहस्य प्रत्यानयनाय तेन प्रयत्न: अपि विहित: । एतत्सम्बद्धतया स: प्रधानमन्त्रिणं नेहरूवर्यं, 1977 तमे वर्षे इन्दिरागान्धिवर्यां च सन्दृष्टवान् । किन्तु तेन न किमपि फलं सिद्धम् ।

एषु दिनेषु तन्नाम सप्टम्बर्मासस्य 25 तमे दिनाङ्के जनतापक्षस्य अध्यक्ष: सुब्रह्मण्यस्वामिवर्य: भोजशालां प्रति सन्दर्शनाय गत: आसीत् । स्वयं सर्वमपि प्रत्यक्षं दृष्ट्वा तेन लण्डन्नगरस्य न्यायालये अस्य सरस्वती-विग्रहस्य प्रत्यानयनाय अभियोग: कृत: वर्तते । किं ब्रिटिश्सर्वकार: एनं विग्रहं प्रतिदद्यात् ? तत्रत्या: भक्ता: तु सरस्वत्या: मूलविग्रहस्य प्रत्यागमनमेव प्रतीक्षमाणा: पूजादिकं निर्वर्तयन्त: वर्तन्ते । प्रति-शुक्रवासरं यवना: तत्र प्रार्थनां कुर्वन्ति । प्रतिमङ्गल-वासरं हिन्दव: पूजां कुर्वन्ति । अवशिष्टेषु दिनेषु कस्यापि प्रवेश: नास्ति तत्र । यदि सुब्रह्यण्य-स्वामिवर्यस्य अभियोग: फलप्रद: स्यात्, तर्हि विदेशे विद्यमाना: सर्वेऽपि भारतमूला: विग्रहा: अवश्यं प्रत्यागच्छेयु: । मुख्यमन्त्रिणि शिवराजे शासति - ‘अद्य धारा सदाधारा सदालम्बा सरस्वती’ इति कालिदासस्य श्लोकपङ्क्ति: किम् अन्वर्थतां प्राप्नुयात् इत्यस्य तु काल: एव उत्तरं दातुं प्रभवेत् ।

ज्ञानपीठपुरस्कारम् अलङ्करोति सरस्वतीज्ञानपीठप्रशस्ति: विविधासु भारतीयभाषासु, भाषासाहित्य-क्षेत्रे कृतभूरिपरिश्रमेभ्य: प्रतिभावद्भ्य: श्रेष्ठविद्वद्भ्य: प्रदीयते इति तु सर्वै: ज्ञातपूर्व: विषय: । प्रशस्तिविजेतृभ्य: विद्वद्भ्य: वाग्देव्या: सरस्वत्या: विग्रह: प्रदीयते । अयं च विग्रह:, एकादशे शतके धारा-नगरे भोजराजेन विनिर्मितस्य सरस्वती-मन्दिरस्य सरस्वतीविग्रहम् आधारीकृत्य उत्कीर्ण: । तथैव तेभ्य: दीयमाने कांस्य-फलके अपि अस्या: एव रूपम् उत्कीर्णं वर्तते । वाग्देव्या: सरस्वत्या: चतुर्षु हस्तेषु कमण्डलुग्रन्थकमलादिकं स्फुटम् अवलोकयितुं शक्यम् । सर्वेऽप्येते सङ्केता: ज्ञानस्य आध्यात्मिकदृष्टेश्च प्रतिबिम्बत्वेन परिगण्यन्ते ।

(सम्भाषणसन्देशः - डिसेम्बर् २०११