अन्नपूर्णेश्वरी मन्दिरं, होरनाडु
अन्नपूर्णेश्वरीमन्दिरं, देवीं अन्नपूर्णेश्वरीं ( अन्नपूर्णा ) समर्पितम्। चिक्कमगलूरस्य बहिर्भागे, प्रायः १०० किलोमीटर् दूरे मन्दिरं स्थितमस्ति । कर्नाटकस्य पश्चिमघट्टे सघनवनेषु, उपत्यकेषु च मन्दिरमिदं स्थितं वर्तते | [१] [२] [३] मन्दिरमिदं भद्रा नदीतीरे स्थितमस्ति।
मन्दिरोयम् आदिशक्ति अन्नपूर्णेश्वरी देव्याः मन्दिरम् अथवा श्रीक्षेत्रहोरनाडुमन्दिरम् इति विख्यातमस्ति।
आख्यायिकानुसारं भगवतः शिवस्य तथा अन्नदेव्योर्मध्ये विवादः अभवत् । शिवः जगदिदं मायास्वरूपम् इति प्रोक्तवान् । अन्नं भ्रमः नास्ति इति साधयितुं देवी पार्वती भूलोके अवतारं चकार। तस्य परिणामेण प्रकृतेः स्थिरीकरणं जातम् । जलवायुः न परिवर्तितम्। वनस्पत् न वर्धते स्म, यस्य परिणामेण विश्वे अनावृष्टिः अभवत् । जगतः उपरि दयां प्रदर्श्य पार्वती प्रकटीभूय सर्वेभ्यः भोजनं वितीर्णवती ।
अन्यकथानुसारं शिवः भगवतः ब्रह्मणः शिरच्छेदं कृतवान् । ब्रह्मकपालः शिवस्य हस्ते संलग्नः अभवत्। तस्य शापः आसीत् यत् कपालः यावत् अन्नेन वा धान्यैः वा पूरितः न भवति तावत् तस्य हस्ते एव लिप्तः भवति इति। शिवः सर्वत्र गत्वा भोजनं याचते स्म, किन्तु तस्य कपालः अपूर्णः एव आसीत्। अतः सः अन्ते मन्दिरं गत्वा, तत्र याचनां कृतवान्। देवी कपालं धान्यैः पूरितवती। तदा शिवस्य शापं दूरमभूत्।
इतिहासः
[सम्पादयतु]अस्मिन् मन्दिरे ,ये याजकाः तथा "वंशानुगत याजकाः" सन्ति ते विगत ४०० वर्षेभ्यः मन्दिरस्य सेवां कुर्वन्ति, परिपालनं च कुर्वन्ति । अत्र मन्दिरस्य नवीनीकरणे, धार्मिककर्मणि च धर्मकर्तृणां महती भूमिका आसीत् । लघुमन्दिरपरिसरः ,अनेकेषां कृते अज्ञातः आसीत्। पञ्चमधर्मकर्ता श्री डी.बी.वेङ्कटसुब्बा जोइस् इत्यनेन मन्दिरस्य पूर्णॊद्धारः पुनरुत्थानं च कृतम् ।१९७३ तमे वर्षे अक्षयतृतीयस्य शुभदिने अस्य देव्याः मूर्ति पुनर्स्थापिता ।
देवता एवं संस्काराः
[सम्पादयतु]अन्नपूर्णा इत्यस्य अर्थः सम्पूर्णमथवा सिद्भोजनम् । श्री अन्नपूर्णेश्वरीदेवी भगवान् शिवपत्नी पार्वतीदेव्याः अवतारः इति मन्यते ।
अन्नपूर्णा देवी रुद्रयामला, अन्नपूर्णमालिनीनक्षत्रमालिका, शिवरहस्यम्, अन्नपूर्णाकवच इत्यादिषु अनेकेषु प्राचीनग्रन्थेषु प्रशंसिता अस्ति ।
अत्र अन्नपूर्णेश्वरी देव्याः पादपीठः स्थितमुद्रायां दृश्यते। शिरसापाद पर्यन्त्यं सुवर्णेन आवृता मूर्तिः अत्र दृष्यते। भक्ताः जीवने कदापि अन्नं विना न गमिष्यन्ति इति विश्वासः अस्ति ।
अक्षतृतीयायां विशिष्टपूजादिकं कुर्वन्ति । अस्मिन् दिनेअन्नपूर्णादेव्याः जन्मदिवसः इति मन्यते | अयं दिवसः त्रेतायुगस्य आरम्भः, शिशिरस्य समाप्तेः, ग्रीष्मकालस्य च आरम्भः इति मन्यते । अस्मिन् मन्दिरे फरवरीमासे ५ दिवसीयः रथोत्सवः, सितम्बरमासे ९ दिवसीयः नवरात्रिः , दीपोत्सवः, च अतीव उत्साहेन आचर्यते ।
संरचना
[सम्पादयतु]मुख्यमन्दिरसङ्कुलं प्राप्तुं उपासका: सोपानम् आरुह्य गन्तव्यम् । मन्दिरस्य प्रवेशगोपुरे अनेकहिन्दुदेवतानां शिल्पैः अलङ्कृः अस्ति । मुख्यमन्दिरप्रवेशद्वारस्य वामपार्श्वे मण्डपम् अस्ति । मन्दिरस्य छदस्योपरि सुन्दराणि उत्कीर्णानि दृश्यन्ते । आदिशेषः मन्दिरगर्भगृहस्य परितः अस्ति । पद्मपीठः कुर्मः, अष्टगजाः अपि वर्तन्ते।
भक्ताः, तीर्थयात्रिणः
[सम्पादयतु]होरनाडु-नगरं चिकमगलूर् -मण्डलस्य मुदिगेरे- उपमण्डले स्थितम् अस्ति। होरनाड-नगरस्य अन्नपूर्णेश्वरी-मन्दिरम् अधुना सम्पूर्णे कर्नाटकराज्ये प्रसिद्धम् अस्ति । अस्य मुख्यकारणम् अस्ति यत् १९८०-१९९० तमे दशके अत्र बहवः वाहनानि आगच्छन्ति स्म। तस्मात् शृङ्गेरी-नगरम् आगच्छन्तः पर्यटकाः ततः ८० कि.मी. दूरविदेशेषु अपि आगन्तुम् आरब्धवन्तः । पूर्वम् अत्र अन्नपूर्णेश्वरीमन्दिरस्य वैशिष्ट्यं आसीत् यत्, जनानां कृते मध्याह्नभोजनं, अल्पाहारं प्रदातुं व्यवस्था आसीत्। रात्रौ ये आगच्छन्ति, तेभ्यः भोजनं प्रदातुं व्यवस्था अपि आसीत्। क्रमेण यथा यथा अत्र जनानां संख्या वर्धितः, तथा आवासादिसुविधानां वर्धनं जातम्, । यद्यपि वर्षस्य सर्वेषु ऋतुषु अस्य भ्रमणं कर्तुं शक्यते तथापि वर्षाकाले यदा अधिका वृष्टिः भवति इति कारणेन किञ्चित् असौकर्यं भवितुम् अर्हति ।
इदमपि द्रष्टव्यम्
[सम्पादयतु]सन्दर्भाः
[सम्पादयतु]- ↑ "Temples:Annapoorneshwari temple - Horanadu, Karnataka". indian-heritage.org. Indian Heritage.
- ↑ "Horanadu Annapoorneshwari Temple". timesofindia.indiatimes.com. Times of India: Times Travel.
- ↑ "Horanadu Annapoorneshwari Temple". karnatakaholidays.com. Karnataka Holidays. Archived from the original on 2013-05-30. आह्रियत 2021-08-07.