अपामार्गसस्यम्
अपामार्गसस्यम् | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||||||||||||
| ||||||||||||||||
द्विपदनाम | ||||||||||||||||
Achyranthes aspera L. | ||||||||||||||||
इदम् अपामार्गसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं सर्वासु अपि भूमिषु वर्धते । अस्य पुष्पं मयूरपुष्पम् इव भवति । इदम् अपामार्गसस्यं १/२ तः १ मीटर् यावत् उन्नतं भवति । अस्य सस्यस्य मूलं, बीजं, पर्णं च औषधत्वेन उपयुज्यन्ते । अनेन अपामार्गेण क्षारं तैलं चापि निर्मान्ति । अस्य क्षारं ५ ग्रैन्स् यावत्, चूर्णं चेत् ५ – २० ग्रैन्स् यावत् सेवनीयम् । अस्मिन् “पोट्याश्” इत्यंशः विशेषरूपेण अस्ति ।
इतरभाषाभिः अस्य अपामार्गस्य नामानि
[सम्पादयतु]इदम् अपामर्गसस्यम् आङ्ग्लभाषया “प्रिक्लिच्याप् फ्लवर्स्” इति उच्यते । हिन्दीभाषया“चिडि, चिडी, जेचिर, चिटा” इति च, तेलुगुभाषया “अपामार्ग” अथवा “उत्तरेन” इति, तमिळ्भाषया “நாயுருவி nāyuruvi नायुरुवि” इति, मलयाळभाषया“കടലാടി कटलाटि kaṭalāṭi ” इति, बेङ्गालीभाषया “अपाड्” इति, गुजरातिभाषया “आघोडो” इति, कन्नडभाषया “ ఉత్తరేణి उत्तरेणि uttarēṇi” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य अपामार्गस्य प्रयोजनानि
[सम्पादयतु]अस्य अपामर्गस्य रुचिः कटुः, तिक्तः च । इदम् उष्णवीर्ययुक्तं, लघु, वृक्षं चापि । इदम् अपामार्गं विपाके कटुरेव भवति । अस्य पञ्च अङ्गानि औषधत्वेन उपयुज्यन्ते।
१. कफप्रकृतियुक्तानां, कफजन्यरोगैः पीड्यमानानां च अपामार्गस्य उपयोगः हितकरः।
२. अस्य उपयोगः वातरोगाणां निमित्तम् अपि हितकरः भवति।
३. अस्य उपयोगेन शोथः, वेदना च अपगच्छति।
४. व्रणेषु अस्य रसं लेपयन्ति ।
५. वृश्चिकदंशने, सर्पदंशने च दशनस्थाने अस्य रसः एव उपयोगकारी ।
६. कर्णवेदनायां सत्याम् अस्य क्षारेण निर्मितं तैलम् उपयोक्तुं शक्यते ।
७. अस्य अपामार्गस्य उपयोगः अरुचौ, अग्निमान्द्ये, वमने, उदररोगेषु च भवति ।
८. अस्य अपामार्गस्य बीजेभ्यः निर्मितं पायसं “भस्मक” नामके रोगे विशेषतया उपयुज्यते । (भस्मकरोगः नाम अतिबुभुक्षा)
९. इदम् अपामार्गं रक्तहीनतां (पाण्डुरोगः), रक्तविकारं, ह्द्रोगम्, आमवातं च निवारयति ।
बाह्यसम्पर्क्तन्तुः
[सम्पादयतु]- आफ्रीकायाम् अपामार्गसस्यम्