अफगानिस्थाने हिन्दूधर्मः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
एकमुखि लिङ्गम् (शिवलिङ्गेन सह एकं मुखम्), अफगानिस्थान
काबुलसङ्ग्रहालये मूर्तिः

अफगानिस्थान-देशे हिन्दूधर्मस्य पालनं लघुना अल्पसङ्ख्याक-अफगानी-दलेन भवति। हिन्दूधर्मे विश्वस्यमानाः उपसहस्राः जनाः सामान्यतः काबुल -नगरे,  देशस्य अन्यप्रमुखेषु नगरेषु च निवसन्ति।[१][२][३][४]

अफगानिस्थान-देशस्योपरि म्लेच्छानां विजयात् प्राक् अफगानिस्थानस्य जनता बहुधार्मिकी आसीत्। हिन्दूधर्मस्य, बौद्धधर्मस्य च अनुयायियनः बहुसङ्ख्याकायाः आसन्।[५] एकादश्यां शताब्द्याम् अनेकानि हिन्दूमन्दिराणि ध्वस्थानि कृतानि उत तेषां स्थाने म्लेच्छप्रार्थनागृहस्य निर्माणम् अभवत्।

इतिहासः[सम्पादयतु]

कुषाणस्य राज्ञ्या कनिष्क-द्वितीयेन सह भगवतः शिवस्य सुवर्ण-दिनार-मुद्रा (200-220 AD)

हिन्दूधर्मस्य अफगान-देशे कदा आरम्भः अभवत् इत्यस्य न कापि विश्वसनीया सूचना अस्ति, परन्तु इतिहासकाराणां मन्तव्यम् अस्ति यत्, प्राचीने काले दक्षिणहिन्दूकुशस्य क्षेत्रं सांस्कृतिकरूपेण सिन्धूसंस्कृतिना सह संल्लग्ना आसीदिति। पक्षान्तरे, अधिकांशाः इतिहासकाराः वदन्ति यत्, वंशपरम्परया अफगानिस्थानं प्राचीनार्याणां निवासस्थानम् आसीद्, यत् 330 ई. पू. अलक्ष्येन्द्रस्य, ग्रीक-सेनायाः च आगमनात् प्राक् हख़ामनी-साम्राज्यस्य अधीने आसीत्। तत्स्थानं त्रयाणां वर्षाणाम् अनन्तरं अलक्ष्येन्द्रस्य प्रस्थानोत्तरं सेलयूसिद-साम्राज्यस्य अङ्गम् अभवत्। 305 क्रैस्टपूर्वं, यूनानी-साम्राज्येण भारतस्य मौर्यसाम्राज्येन सह सन्धिं कृत्वा दक्षिणहिन्दूकुशस्य नियन्त्रणं समर्पितम्।

पञ्चम्यां, सप्तम्यां च शताब्द्यां मध्ये यदा चीनदेशीयाः यात्रिणः फाहियान, गीत यूं, ह्वेन त्सांग च अफगानिस्थानस्य यात्रां कृतवन्तः, तदा तैः अनेके यात्रा वृत्तान्ताः लिखिताः, तेषां वृत्तान्तानां साहाय्येन अफगानिस्थानस्य सन्दर्भे अनेकानां विश्वसनीयानां सूचनानां सङ्कलनम् अभवत्। ते उक्तवन्तः यत्, उत्तरदिशायां अमू-नद्याः (ऑक्सस् नदी), सिन्धूनद्याः च मध्ये विभिन्नेषु प्रान्तेषु बुद्धधर्मस्य अनुसरणं भवति।[६] यद्यपि तैः हिन्दूधर्मस्य विषये अधिकं किमपि नोल्लेखितं, तथापि गीत यूं इत्येषः उल्लेखिकवान् यत्, हेफथलाइट् (Hephthalite) इत्येतैः शासकैः कदापि बौद्धधर्मस्य मूलतत्त्वं न ज्ञातं, किन्तु "ते छद्मदेवतानां प्रचारं, पशूनां मांसं प्राप्तुम् आखेटं च कृतवन्तः"।[६] चीनदेशीयः भिक्षुगणः बौद्धधर्मस्य अनुयायी आसीत्। अतः सम्भवतः कस्यचिद् अन्यधर्मस्य विषये लेखितुं तेषां भिक्षूणां रुचिः न स्यात्। ततोधिकं, युद्धनायकानां, दस्यूनां (डाकु, bandit) च आतङ्कत्वाद् अफगानिस्थान-क्षेत्रस्य यात्रा तेभ्यः अतीव सङ्कटपूर्णा आसीत्।[६]

काबुल-शाही-राजवंशः, झूनबिल-राजवंशश्च[सम्पादयतु]

पञ्चम्यां शताब्द्यां मारबल-प्रस्तरसैः निर्मिता गणेशमूर्तिः। अफगानिस्थान-देशस्य गरदेज-प्रदेशात् सा प्राप्ता। सद्यः सा मूर्तिः काबुल-प्रदेशस्य दरगाह-पीर-रतन-नाथ-नामके स्थले वर्तते। शिलालेखानाम् अनुसारं एषा "महागणेशस्य उत्कृष्टा, सुन्दरमूर्तिः" हेफथलाइट् (Hephthalite)वंशस्य शासकेन खिंगल इत्यनेन प्रस्थापिता आसीत्।

म्लेच्छानाम् (मुस्लिम) अफगानिस्थान-विजयात् पूर्वं तत्र विभिन्नाः धार्मिकपरम्पराः आसन्, यासु पारसी-धर्मपरम्परा (उत्तरपूर्वस्य क्षेत्रे), पेगन-मतपरम्परा (मूर्तिपूजापद्धतिः) (दक्षिणे, पूर्वभागे च), बौद्धधर्मपरम्परा (दक्षिणपूर्वक्षेत्रे), हिन्दूधर्मपरम्परा (काबुल-नगरे, अन्येषु विभिन्नेषु स्थानेषु) च अन्तर्भवन्ति। फारसी, खलजी, तुर्की, अफगानी इत्येतेषां जनानां निवासस्थानम् अपि अफगानिस्थानम् आसीत्। दक्षिणक्षेत्रस्य हफखाली-वंशीयैः झूनबिल्, एपिगोनी जनैः दक्षिणहिन्दूकुश-प्रदेशे शासनं कृतमासीत्। पूर्वभागे काबुल-शाह-वंशीयानां वर्चस्वम् आसीत्। झूनबिल, कालुल-शाह इत्येतेषां सम्बन्धः अपि भारतीयोपमहाद्वीपीयया संस्कृत्या सह आसीत्। झूनबिल्-वंशीयाः राजानः भगवतः सूर्यस्य पूजां कुर्वन्ति स्म; भगवन्तं सूर्यं ते 'झून' इत्यनेन नाम्ना जानन्ति स्म। तस्मात् 'झून' इत्यस्मात् शब्दात् एव तस्य वंशस्य नाम व्युत्पन्नम्। वर्तमानकालिकानां केषाञ्चन इतिहासविदाम् अनुचितं अनुमानम् अस्ति यत्, ये जनाः मूर्तिपूजां कुर्वन्ति, ते सर्वेऽपि हिन्दवः इति। उदाहरणार्थं आन्द्रे विन्क् इत्याख्यः लेखकः अलिखत्, "झून-जनानां सम्प्रदायः मूलतः हिन्दूः आसीत्; न तु बौद्धः, फारसी वा।" [७] सर्वान् मूर्तिपूजकान् हिन्दूधर्मस्य भागत्वेन स्वीकारः अयोग्यः। सम्पूर्णे विश्वे मूर्तिपूजा व्याप्ता अस्ति, येषु मक्का, साउदी अरब इत्यादयः अपि अन्तर्भूताः। [७]

६५३-४ AD मध्ये अब्दुल्-रहमान्-बिन्-समारा इत्येषः ६,००० अरबी-मुस्लिम-सैनिकैः सह झूनबिल-वंशीयानां सीमायाः अतिक्रमणम् अकरोत्, झमिनदवार-क्षेत्रे स्थितं झून-मन्दिरं (सूर्यमन्दिरं) यावत् गतवान् च। अफगानिस्थाने स्थिताः समकालीनः हेलमन्दप्रान्तः, यः प्राचीने काले मुसा-कुला (अद्यत्वे किञ्चन मुसा-कुला-नगरम् अपि तत्र वर्तते) इत्यनेन नाम्ना प्रसिद्धः आसीत्, तस्मात् क्षेत्रात् त्रीणि माइलपरिमितं दूरे झमिनदवार इति क्षेत्रम् आसीदिति मन्यते। अरब-सेनायाः सेनापतिः तस्य मन्दिरस्य "सूर्यमूर्तेः हस्तम् अखण्डयत्, मूर्तेः अक्ष्णोः स्थितौ कुरुविन्दौ (ruby) च निषकासयत्। सिस्थान इत्यस्य क्षेत्रस्य मर्झबान् इत्यस्य भगवतः अनुपयोगितां सिद्धयितुं एवं कृतम् आसीत्"।[८]  काबुल-शाही-शासकाः उत्तरीय-झूनबिल-क्षेत्रे शासनं अकुर्वन्। तस्मिन् क्षेत्रे काबुलिस्थानं, गान्धारजनपदः चापि अन्तर्भवतः। अरबी-जनाः काबुल-नगरं यावत् इस्लाम-धर्मस्य सन्देशेन सह प्राप्तवन्तः, परन्तु ते तत्र अधिकं शासनं कर्तुम् असक्षमाः। काबुल-शाह-वंशीयाः नगरं परितः उन्नतां भित्तिं (wall) निर्मातुं निश्चयं कृतवन्तः, येन अरब-देशीयैः जायमानेभ्यः आक्रमणेभ्यः स्वराज्यस्य रक्षा भवेत्। सा भित्तिः अद्यापि तत्र दरीदृश्यते। [९]2002 नामकं काचित् पुस्तकम् अस्ति, तस्य पुस्तकस्य लेखकः विलियम् वोगेल्सन्ग् इत्येषः अलिखत् यत्, "अष्टम्यां, नवम्यां च शताब्द्यां आधुनिक-अफगानिस्थानस्य पूर्वक्षेत्रीयप्रान्तेषु अम्लेच्छानां (ये मुस्लिमाः न ते अम्लेच्छाः) शासकानां शासनम् आसीदिति। यद्यपि तेषु अनेके स्थानीयशासकाः हुन्निक-वंशीयाः, तुर्की-वंशीयाः च आसन्, तथापि मुसलमानाः तान् हिन्दूत्वेन एव परिगणयन्ति स्म। पूर्वीयाफगानिस्थानीयानां सन्दर्भे तेषां मुसलमान-जनानाम् अनुमानम् उचितम् आसीदिति अद्यत्वे सिद्धं भवति। यतो हि ते सर्वे अम्लेच्छाः सांस्कृतिकदृष्ट्या दृढतया भारतीयोपमहाद्वीपीयसंस्कृतेः प्रभाविताः आसन्। तेषु अधिकतराः हिन्दवः, बौद्धाः वा आसन्।"[१०] ८७० AD मध्ये सफ़्फ़ारी-राजवंशात् ज़ारंज-वंशपर्यन्तम् अफगानिस्थानस्य विशालक्षेत्रस्योपरि म्लेच्छानां विजयपताकाः आसन्; मुस्लिम-राज्यपालावीम सम्पूर्ण-देशे नियुक्तिः भवति स्म। काचित् सूचना उपलभ्यते यत्, दशम्यां शताब्द्यां गझनवी इत्यस्य अतिक्रमणं यावत् मुसलमान-जनाः, हिन्दवः च प्रतिवेशिधर्मानुसारं निवासं कुर्वन्ति स्म।

हिन्दू -शब्दस्य अफगानिस्थाने प्रथमवारं ९८२ तमे वर्षे प्रकटः उपयोगः अभवदिति प्रमाणाः प्राप्यन्ते। हुदौद-अल-आलम् इत्यस्य नाङ्गरहार-प्रदेशस्य राज्ञ्या सह जाते संवादे 'हिन्दू'-शब्दस्य उपयोगः वर्तते। हुदौद-अल-आलम् इत्यस्य तस्मिन् सम्बोधने इस्लाम-धर्मे सर्वेषाम् अन्तर्भवनस्य सार्वजनिकः अप्रत्यक्षः सन्देशः आसीत्। हुदौद-अल-आलम् इत्यस्य ३० अधिकाः पत्न्यः आसन्। तासां सर्वासां " 'मुस्लिम', 'अफगान', 'हिन्दूः' " इति वर्णनं भवति स्म। [११] सामान्यतः भौगोलिकदृष्ट्या जनानां नामकरणं भवति स्म। उदाहरणतया, हिन्दूः (उत हिन्दूस्थानी) इत्यस्य शब्दस्य ऐतिहासिकदृष्ट्या भौगोलिकशब्दत्वेन वर्णितः आसीत्। अर्थात्, ये हिन्दूस्थानस्य (भारतीयोपमहाद्वीपस्य) मूलनिवासिनः आसन्, ते हिन्दवः इति। तथा च अफगान  इत्यस्य शब्दस्यापि। अफगानिस्थानदेशस्य मूलनिवासिनः इति। [१२]

Kabul Museum statue 2.jpg

दशम्यां शताब्द्यां यदा महमूद गजनी इत्येषः सिन्धूनदीं लङ्घयित्वा हिन्दूस्थानं (हिन्दूनां भूमिः) प्रवेशाय यतमानः आसीत्, तदा तेन सह आगताः गझनवी-देशीयाः मुसलमान-जनाः हिन्दून् बन्दिनः कृत्वा तेषां दासत्वेन उपयोगं कुर्वन्तः आसन्। ते दासाः एव अद्यत्वे अफगानिस्थान-देशीयाः। अल-इदरीसी इत्येषः प्रमाणीकरोति यत्, द्वादश्यां शताब्द्यां यावत् सर्वैः शाही-राजभिः राज्याभिषेकावसरे कश्चन अनुबन्धः (contract) पालनीयः भवति स्म। सः अनुबन्धः काबुल-क्षेत्रे प्रवृत्तः आसीत् । तस्मिन् अनुबन्धे केचन परम्परागताः अभिसन्धयः आसन्, तेषां स्वीकारः तेभ्यः अनिवार्यः आसीदिति। [१३] गझनवी-देशीयानां सैनिकानां पदाक्रान्ततायाः कारणेन सुन्नी-इस्लाम इत्यस्य वर्चस्वं स्थिरम् अभवत्। ते अद्यत्वे अफगानिस्थाने, पाकिस्थाने च सन्ति। विभिन्नेषु ऐतिहासिकेषु स्रोतस्सु, यथा मार्टिन एवन्स्, इ. जे. ब्रिल्, फरिश्ता इत्यादिषु पुस्तकेषु काबुल-तः अफगानिस्थानस्य अन्यभागेषु इस्लाम-विस्तारस्य, महमूद इत्यस्य विजयस्य घटनाः उल्लिखिताः सन्ति ।

घोरी-राजवंशेन घझनवी-राज्यस्य अधिकः विस्तारः साधितः। खिलजी-राजवंशीयानां काले भारतीयैः, अफगानिस्थानिभिः च स्वातन्त्र्यान्दोलनानि भवन्ति स्म। मुघल-वशं यावत् तानि आन्दोलनानि अभूवन्।

हिन्दूधर्मस्य अफगानिस्थान-देशे आरम्भः कदा अभवत् इत्यस्य विश्वसनीयाः सूचनाः न प्राप्यन्ते, परन्तु इतिहासविदां मन्तव्यम् अस्ति यत्, प्राचीने काले दक्षिणहिन्दूकुशस्य क्षेत्रं सांस्कृतिकदृष्ट्या सिन्धूसंस्कृत्या सह संल्लग्नम् आसीदिति। पक्षान्तरे, अनेके इतिहासविदां कथनम् अस्ति यत्, वंशपरम्परया अफगानिस्थानं प्राचीनार्यणां निवासस्थानम् आसीदिति। तत् स्थानं ३३० ई. पू अलक्ष्येन्द्रस्य, तस्य ग्रीक-सेनायाः आगमनात् प्राक् हख़ामनी-साम्राज्यस्य अधीनम् आसीत्। त्रिषु वर्षेषु अलक्ष्येन्द्रः इतः प्रस्थानम् अकरोत्, ततः सेलयूसिद-साम्राज्यस्य अङ्गम् अभवत् तत् स्थानम्। ३०५ क्रैस्तपूर्वं, यूनानी-साम्राज्यं भारतस्य मौर्यसाम्राज्येन सन्धिं कृत्वा दक्षिणहिन्दूकुशस्य नियन्त्रणं समार्पयत्।

अफगानिस्थाने ये मुख्यजाती स्तः, ये अद्यापि हिन्दूधर्मस्य अनुसरणं कुरुतः, ते पंजाबी, सिंधी च। ते सर्वेऽपि जनाः सिखजनैः सह व्यापारं कर्तुं एकोनविंशत्यां शताब्द्याम् अफगानिस्थानं गताः आसन्।[१४] अफगानिस्थानदेशे सोवियतयुद्धात् पूर्वम् अफगानिस्थाने सहस्रशः हिन्दवः निवसन्ति स्म। परन्तु अद्यत्वे तत्र केवलं १००० हिन्दवः एव निवसन्ति। [१] अधिकांशा हिन्दवः विस्थापिताः भूत्वा भारते निवसन्ति। बहवः जनाः यूरोपीयसङ्घम्, उत्तर-अमेरिकां च प्रति गतवन्तः।

अफगानिस्थाने ये मुख्यजाती स्तः, ते एकवारम् अफगान-देशस्य अर्थव्यवस्थायाम् अपि नियन्त्रणम् अस्थापयेताम्। सिख इत्यादिनः जनाः तत्र 'हिन्दकोवंशी' इति सम्बोधिताः भवन्ति।[१५] भाषा-जनसाङ्ख्यिक्यानुसारं हिन्दू-समुदायः विविधेषु स्थानेषु सामान्यतः क्षेत्रीयां भाषां वदन्ति। ये जनाः पंजाब-तः सन्ति, ते पंजाबी-भाषां, सिंधतः सन्ति, ते सिंधीभाषां च वदन्ति। काबुली, कान्धरी च समुदायः पश्तोभाषां, हिन्दकोभाषायाः विभाषाः (dialects) च वदन्ति। स्थानीयहिन्दू-समुदायः मुख्यतया अफगानिस्थानस्य काबुल-नगरे एव निवसति। '२००२ लोया जिरगा'-राजकीयपक्षे द्वे मतक्षेत्रे हिन्दूभ्यः आरक्षिते आस्तां,[१६] पूर्वराष्ट्रपतिनः हामिद करजई इत्यस्य आर्थिकपरामर्शकः अफगान-देशीयः हिन्दूः आसीत्।

१९९६ तः २००१ यावत् तालिबान-शासकानां शासनकाले हिन्दूभ्यः आदेशः आसीत् यत्, तैः अनिवार्येण पीतवर्णीयं चिह्नं धरणीयम् इति। ते कारणं दत्तवन्तः यत्, प्रार्थना-काले मस्जिद-स्थले प्रार्थनां कर्तुं ये मुस्लिम-जनाः न गच्छन्ति, तेभ्यः दण्डं दातुं सारल्यं भवेदिति। हिन्दूमहिलाभिः तु सर्वदा अनिवार्येण बुर्का इति वस्त्रं धरणीयम् एव। अन्यथा सार्वजनिकस्तरे तासां "रक्षायाः", उत्पीडनस्य च घटनासु नियन्त्रणं भवेत् । परन्तु एतादृशं तालिबान-शासकानां योजनायाः भागः आसीत्, येन ते "म्लेच्छभिन्नान्", "मूर्तिपूजकान्" च सारल्येन पृथक् द्रष्टुं शक्नुयुः।[१७]

तस्य निर्णयस्य निन्दां भारतीयः, अमेरिक-देशीयः सर्वकारः च धार्मिकस्वतन्त्रतायाः उल्लङ्घनस्य आधरेण अकरोत्। भोपाल-नगरे (भारत) तस्य तालिबान-शासनस्य निर्णयस्य व्यापकः विरोधः अभवत्। संयुक्त-राज्य-अमेरिका-देशे मानहानि-विरोधि-लीग-संस्थायाः अध्यक्षेण इब्राहीम फोक्समन इत्यनेन तालिबान-शासकानां तस्याः आज्ञायाः तुलना नाजी जर्मनी-प्रथाभिः सह कृता। तत्रापि यहूदी-जनैः अनिवार्यत्वेन परिचयपत्रं धारणीयं भवति स्म। [१८] अनेके प्रभावशालिनः संयुक्त-राज्य-अमेरिका-देशस्य सांसदैः पीतवर्णीयं चिह्नं धृत्वा "अहम् अपि हिन्दूः अस्मि" इति मन्त्रिमण्डलस्य सभायाम् उद्घोषितम्। एवं कृत्वा ते अफगानिस्थाने स्थितैः हिन्दूभिः सह स्वस्य ऐक्यं प्रदर्शितवन्तः।[१९][२०][२१][२२]

भारतीयविश्लेषकः राहुल बनर्जी इत्येषः लिखति यत्, अफगानिस्थाने राज्य-प्रायोजिता उत्पीडनस्य प्रथमा घटना नासीत्। वर्षेभ्यः हिन्दू-समाजस्य विरुद्धं हिंसायाः कारणेन शीघ्रतया हिन्दू-जनसङ्ख्यायां पतनं दरीदृश्यते। [२३] १९९० पश्चात्, अनेके अफगान-हिन्दवः विस्थापिताः। ते अन्यदेशं प्रति गताः च। ते अद्यत्वे भारतं, जर्मनी, अमेरिकासंयुक्तराज्यम् इत्येतादृशेभ्यः राष्ट्रेभ्यः आश्रयस्य आशां कुर्वन्तः सन्ति।[२४]

जुलाई २०१३ मध्ये, अफगान-संसदि अल्पसङ्ख्याक-समूहाय आरक्षितस्थानानां विधेयकः (bill) अस्वीकृतः अभवत्; तस्य विधेयकस्य विरुद्धं मतदानं जातम् आसीत्। तत्कालीनेन राष्ट्रपतिना हामिद करजई इत्यनेन उपस्थापिते तस्मिन् विधेयके जनजातीय-जनेभ्यः, "महिलाभ्यः", "असक्षमवर्गाय" च आरक्षणं स्वीकृतम् आसीत्, परन्तु धार्मिकाधारेण अल्पसङ्ख्याकेभ्यः समानतायाः अनुच्छेदः संविधाने नास्ति इति कारणं दत्तम्। [२५]

प्राचीनहिन्दूमन्दिराणि[सम्पादयतु]

स्थानम् विवरणम् अन्यसूचनाः
शकवदमन्दिरम् [२६] लोगरराज्यम् [२६]
पोलुशा [२७] भीमादेवी (दुर्गा), महेश्वरमन्दिरं च [२७] ह्वेन त्सांग इत्यषः अत्र यात्रां कृतवान् [२७]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. १.० १.१ Sikhs struggle for recognition in the Islamic republic, by Tony Cross.
  2. Minority Hindu and Sikh population shrinking in Afghanistan:US
  3. Legal traditions of the world: sustainable diversity in law, H. Patrick Glenn Edition 3, Oxford University Press, 2007
  4. "Dark days continue for Sikhs and Hindus in Afghanistan".
  5. Al-Hind, the Making of the Indo-Islamic World: Early medieval India and the expansion of Islam, 7th-11th centuries, Volume 1 of Al-Hind, the Making of the Indo-Islamic World, André Wink, ISBN 90-04-09509-8, Publisher BRILL, 1990.
  6. ६.० ६.१ ६.२ "Chinese Travelers in Afghanistan".
  7. ७.० ७.१ André Wink, "Al-Hind: The Making of the Indo-Islamic World", Brill 1990. p 118
  8. André Wink, "Al-Hind: The Making of the Indo-Islamic World", Brill 1990. p 120
  9. "The Kabul Times Annual".
  10. by Willem Vogelsang, Edition: illustrated Published by Wiley-Blackwell, 2002 Page 188
  11. Vogelsang, Willem (2002).
  12. David Lorenzen.
  13. Al-Idrisi, p. 67, Maqbul Ahmed; Al-Hind, the Making of the Indo-Islamic World, 1991, p. 127, Andre Wink.
  14. Majumder, Sanjoy (2003-09-25).
  15. "Hindki".
  16. Afghanistan's loya jirga BBC 0- June 7, 2002
  17. Taliban to mark Afghan Hindus,CNN
  18. Taliban: Hindus Must Wear Identity Labels,People's Daily
  19. WorldWide Religious News - U.S. House condemns Taliban over Hindu badges; Reuters, June 13, 2001
  20. CNSNEWS - US Lawmakers Condemn Taliban Treatment Of Hindus
  21. US Lawmakers say: We are Hindus, Rediff News
  22. Afghanistan News Center
  23. US Lawmakers Condemn Taliban Treatment Of Hindus,CNSnews.com
  24. Immigrant Hinduism in Germany: Tamils from Sri Lanka and Their Temples,pluralism.org
  25. "We condemn the discrimination against Sikhs and Hindus of Afghanistan".
  26. २६.० २६.१ Buddhist caves of Jāghūrī and Qarabāgh-e Ghaznī, Afghanistan By Giovanni Verardi, Elio Paparatti Page 102
  27. २७.० २७.१ २७.२ A History of civisalition of Ancient India Vol 11, by Romesh Chander Dutt, p. 135

बाह्यसम्पर्कतन्तुः[सम्पादयतु]