आख्यानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

आख्यानस्य उद्गमभूमिर्भारतवर्षम्। षष्ठशताब्द्यां भारते तान्युपाख्यानानि प्रसिद्धानि आसन्, येषामुपलब्धिरस्माभिः पञ्चतन्त्रे क्रियते। वेदादेव प्रवहन्ती पुराणेषु रवरस्रोतस्त्वमागतोपाख्यानधारा नानारूपाऽजायते।

संहिताऽध्ययनेन, इतिहासस्याऽऽख्यानस्य चास्तित्वस्य ज्ञानं भवति। अथर्ववेदे इतिहासपुराणस्य उल्लेखो लभते। छान्दोग्योपनिषदि[१] अध्ययनाध्यापनस्य मुख्यविषयः इतिहासपुराणमेवासीत्। विक्रमपूर्वतृतीयशतके कौटिल्येनेतिहासान्तर्गते 'पुराण'(प्राचीनाख्यानानि)-इतिवृत्त(इतिहासः )- ' आख्यायिका( कथा )-उदाहरण-धर्मशास्त्र-अर्थशास्त्रादीनां गणना कृताऽस्ति। अपराह्णकाले ज्ञानवर्द्धनाय नृपेण ताः अवश्यमेव श्रोतव्याः इति। इतिहासस्येयं परिबूंहितकल्पना अवान्तरकालेन सह सम्बन्धं स्थापयति। प्राचीनकालेऽपि एवंविधस्य साहित्यस्य स्थितिरवश्यमेव विद्यमानाऽऽसीत्।

वेदानां व्याख्याप्रणाल्याः अन्यतमप्रकार ऐतिहासिकानाम् अप्यासीत्, यस्योल्लेखः यास्केन अनेकशः कृत:। वृत्रस्य व्याख्यायाम् ऐतिहासिकानां कथनमासीत् यद्, अयं ‘त्वाष्ट्रः' असुराणां संज्ञाऽस्ति। अनेन प्रकारेण एतेषां व्याख्याकाराणां सम्मतौ वेदेषु अनेकानि महत्त्वपूर्णानि आख्यानानि सन्ति। ऋग्वेदेऽपि आख्यानानां सङ्ख्या महती वर्तते। एतेषु कानिचिद् आख्यानानि वैयक्तिकदेवताविषयकानि सन्ति, कानिचिच्च आख्यानानि कासाञ्चन सामूहिकघटनाम् अभिलक्ष्ये प्रवृत्तानि भवन्ति। तथ्यमिदमस्ति यद्, एतेषामाख्यानानां मूलरूपस्य अभिव्यक्तिः ऋग्वेदीयमन्त्रेष्वेव प्राप्यते। अनन्तरयुगेषु एव आख्यानं परिस्थित्याः परिवर्त्तनेन अथवा अभिनवयुगस्य अभिनवकल्पनायाः प्रभावेण परिवत्तितं परिबृंहितश्च भूत्वा दृग्गोचरं भवति। अनेन प्रकारेण ऋग्वेदस्य आख्यानानि ब्रह्मसु, उपनिषत्सु, सूत्रग्रन्थेषु, रामायणे, महाभारते तथा विभिन्नपुराणेषु स्वकीयाः घटनायाः स्थितिवेषये विशेषरूपेण विकसितानि परिवर्तनानि च भूत्वा उपलब्धानि भवन्ति। अस्य विकासस्योपरि तत्तद्युगस्य धार्मिकस्य सामाजिकस्य च परिस्थितिजन्यप्रभावस्य स्वरूप स्पष्टरूपेण दृग्गोचरो भवति। ऋग्वेदे इन्द्रस्य तथा अश्विनिकुमारयोः विषयेऽपि अनेकानि आख्यानानि सन्ति। एतेषु आख्यानेषु देवानां वीरता-पराक्रम-उपकारादीनां भावना स्पष्टरूपेण अङ्किताऽस्ति। ऋग्वेदाभ्यन्तरे त्रिंशद् आख्यानानां स्पष्टनिर्देशोऽस्ति -

शुनिःशेपः (१।२४), अगस्त्यः, लोपामुद्रा च ( १॥१७९ ), गृत्समदः(२/१२), वसिष्ठः विश्वामित्रश्च (३५३, ७॥३३ प्रभृतयः), सोमस्यावतरणम् ( ३॥३३ ), वरुणः वृषजानश्च (५॥२), अग्नेरुत्पत्तिः ( ५॥११ ), श्यावाश्वः (५॥३२ ), बृहस्पतेर्जन्म ( ६॥७१ ), राजा सुदासः (७॥१८), नहुषः ( ७॥९५ ), अपाला ( ८॥९१ ), नाभानेदिष्टः ( १०॥६१-६२ ), वृषाकपिः ( १०॥८६ ), उर्वशी तथा पुरूरवा ( १०॥९५ ), सरमा एवं पणिः ( १०॥१०८ ), देवापिः, शन्तनुः च ( १०॥९८ ), नचिकेता ( १०॥१३५ ) इति।

शुनःशेपोपाख्यानम्[सम्पादयतु]

शुनःशेपोपाख्यानम् ऋग्वेदस्य अनेकेषु सूक्तेषु प्राप्यते ( १॥२४-२५ )। ऐतरेयब्राह्मणे ( ७॥३ ) इदमाख्यानं विस्तरेण वर्णितमस्ति। अस्य उपाख्यानस्य आदौ हरिश्चन्द्रस्य अन्ते च विश्वामित्रस्य सम्बन्धं परिकल्प्य परिवर्धितं कृतमस्ति। वरुणस्य कृपातः ऐक्ष्वाकुनृप-हरिश्चन्द्रस्य गृहे पुत्रोत्पन्नः अभवत्। समर्पणसमये अरण्ये तस्य पलायनं, हरिश्चन्द्रम् उदरजन्यरोगत्पतौ, मार्गे अजीगर्त्तस्य मध्यमपुत्रशुनःशेपस्य क्रयणं, देवतायाः कृपातः तस्य वध्यपशुत्वात् मुक्तिः, विश्वामित्रद्वारेण तं कृतक-पुत्रकारणादीनां घटनायाः आख्यानम् इति प्रसिद्धम् अस्ति।

उर्वशी-पुरूरवसोः उपाख्यानम्[सम्पादयतु]

वैदिकयुगस्य इयमेका रोमाञ्चकारिणी प्रणयगाथा अस्ति। देव्युर्वशी नरपतिना पुरूरवसा सह प्रणयपाशे आबद्धा भवति। एतदर्थं पणत्रयम् आसीत्। तद्यथा -

( १ ) सा सदैव घृतस्य आहारं करिष्यति।

(२) तस्याः द्वौ प्रियौ भेडको सदैव तस्याः पर्यङ्किकस्य पार्श्वे रज्जुभ्यां बद्धौ भविष्यतः, येन कोऽपि तौ आहत्तुं न शक्ष्यति किंवा न चोरयिष्यति।

( ३ ) कस्याप्यवस्थायां सा राजानं नग्नं द्रष्टं न शक्ष्यति, यदि क्षणमप्येवं भवेत्, तर्हि सा तं त्यक्त्वा गमिष्यति।

राजा उर्वश्याः पणत्रयं सहर्षं स्वीचकार। तया सह सानन्दं समयं यापयन् विचचार। किञ्च उर्वशीं विना गन्धर्वान् स्वर्गः नीरसः निर्जीवश्च प्रतीतो भवति। ततस्ते कपटप्रबन्धेन ग्लहभङ्गं कर्तुं समुद्यताः। रात्रौ एकदा ते मेषम् एकम् उर्वश्याः पार्श्वे अचोरयन्। मेषस्य कारुणिकनादं श्रुत्वैवोर्वशी राजानं चौरेण सह योद्धुं प्रेरयामास। राजाऽपि शीघ्रमेव मेषं चौरात् त्रातुम् आकाशम् अधावत्। तदैवाकाशे विद्युत्प्रकाशे गन्धर्वाः कपटेन राज्ञो नग्नस्वरूपमुर्वशीम् अदर्शयन्। राजानं नग्नं दृष्ट्वा साऽपि तदैव बहिः अगच्छत्। राजा तां विना विरहातुरो भूत्वा उन्मत्त इव भूमण्डले विचचार।

एकदा कुरुक्षेत्रस्य एकस्मिन् जलाशये हंसी-स्वरूपे स्वप्रियाम् अपश्यत्। परावर्त्तनाय तां स राजा अनेकशः प्रार्थयामास। किञ्च सा राज्ञः पार्श्वे पुनरागमनाय समुद्यता न बभूव। राज्ञः दयनीयां दशां दृष्ट्वा गन्धर्वाणाम् अपि हृदये सहानुभूतिः उत्पन्ना बभूव। सोऽपि तस्मै अग्निविद्यायाः उपदेशम् अददात्। तस्य अनुष्ठानेन सः उर्वश्याः अविच्छिन्नसमागमम् अलभत।

ऋग्वेदस्य प्रख्यातसूक्ते ( १०॥९५) उभयोः कथोपकथनमात्रम् एवाऽस्ति। शतपथब्राह्मणे ( १॥१॥५॥१ ) कथानकमिदं रोचकं विस्तरेण सह वर्णितमस्ति। तत्रास्य कथानकस्य अङ्कने साहित्यिकसौन्दर्यस्यापि परिचयं प्रदत्तमस्ति। विष्णुपुराणे ( ४॥६), मत्स्यपुराणे (अ० २४), भागवतपुराणे ( ९॥१४) चास्य कथानकस्य रोचकं विवरणं वर्तते। महाकविना कालिदासेविक्रमोर्वशीयनाम्नि त्रोटके अस्मै कथानकाय नितान्तं मञ्जुलं नाटकीयरूपं प्रदत्तम्। अस्याख्यानस्य विकासे एकस्य विशेषतथ्यस्य सत्ता प्राप्यते। पुराणेषु कथानकमिदं प्रणयगाथारूपेण व्यक्तमस्ति। किञ्च वैदिकाऽऽख्याने पुरूरवा प्रथमो व्यक्तिरस्ति, यो हि श्रौताग्नेः अर्थाद् आहवनीयः, गार्हपत्यः, दाक्षिणाग्निश्च इत्येतस्य नामकस्य त्रेधाग्नेः स्थापनायाः रहस्यं ज्ञात्वा यज्ञसंस्थायाः प्रथमं विस्तारं कृतवान्। पुरूरवसः अस्य परोपकारीरूपस्य अभिव्यक्तिवैदकस्य आख्यानस्यास्य वैशिष्ट्यम् अस्ति।

च्यवनभार्गवस्य, मानवीसुकन्याऽख्यानम्[सम्पादयतु]

आख्यानमिदं भारतीयनारीचरित्रस्यैक नितान्तमुज्ज्वल दृष्टान्तं समुपस्थापयति। कथेयम् ऋग्वेदस्य अश्विनेन सम्बद्धाऽनेकेषु सूक्तेषु ( १॥११६, ११७ प्रभृतयः ) सङ्केतिताऽस्ति। इयमेव कथा ताण्ड्यब्राह्मणे ( १४॥६॥११ ), निरुक्ते (४॥१९), शतपथब्राह्मणे (का० ४), भागवतपुराणे (स्क०९ अ०३) च अपि विस्तरेण प्राप्यते। च्यवनस्य वैदिको नाम 'च्यवानः" इत्यस्ति। सुकन्यायाः वैदिककथा तस्याः पौराणिककथायाः पेक्षया अधिकोदात्ता आदर्शमयी चास्ति। पुराणेषु सुकन्या अपराधिनी स्वयमस्ति च्यवनस्य दिव्याक्ष्णोः स्फोटनं सा करोति। अस्मै कर्मणि तस्य दण्डविधानं स्वाभाविकमेवास्ति। किञ्च वेदे तस्याः त्यागः उच्चकोटेरस्ति। सैनिकबालकेभ्यः कृताऽपराधनिवारणाय वृद्धच्यवानस्य सम्मुखे आत्मसमर्पणं करोति। तस्याः दिव्येन प्रेम्णा प्रभावितो भूत्वा तं वार्द्धक्यात् मुक्तमकुरूतामश्विनौ तथा तस्मै नूतनं यौवनम् अदत्ताम्।

शुनःशेपस्य आख्यानम् ऋग्वेदस्य प्रथममण्डले ( सू० २४, २५ ) अस्ति। अस्यैव विस्तार ऐतरेयस्य समयपश्चिकायामुपलब्धो भवति। अत्र शुनःशेपस्य आख्यानमारम्भे राज्ञः हरिश्चन्द्रस्य पुत्रः रोहिताश्वेन सह तथा कथाऽन्ते मुनिना विश्वामित्रेण सह सम्बद्धो भूत्वा भव्यमेकं रूपं धारयति। कालान्तरेऽस्मिन् कथानके रोचकतावर्द्धनायैव तस्य भ्रातृद्वयस्य, पितुः दारिद्र्यस्य, तस्य विक्रयणस्य च परिकल्पना कृतेति दृश्यते। शुनःशेपस्य अप्यत्रार्थी न भवति 'कुक्कुर'। 'शुनः-शब्दस्यार्थों भवति 'सुखम्' कल्याणञ्चेति तथा 'शेप'-शब्दस्यार्थों भवति ‘स्तम्भः'। अतः शुनःशेपस्य अर्थो भवति ‘सौख्यस्य स्तम्भः’। अनेन प्रकारेण कथानकमिदं वरुणपाशाद्विमुक्तेः सन्देशं ददत् कल्याणस्य मार्गं प्रशस्तयति।

वसिष्ठविश्वामित्रयोराख्यानम्[सम्पादयतु]

ऋग्वेदे स्वतःसङ्केतितमिदम् आख्यानमस्ति। इमौ ऋषी सम्भवतो भिन्न-भिन्नकाले राज्ञः सुदासस्य पुरोहितावास्ताम्। चातुर्वर्ण्यस्य क्षेत्राद् बहिर्युगस्य इमौ ऋषी आस्तामिति स्वीक्रियते। उभयोर्मध्ये परमसौहार्दभावानाया: साम्राज्यमासीत्। उभौ तपःपूतौ, तेजःपुञ्जौ, अलौकिकगुणशालिनौ महापुरुषावास्ताम्। किञ्च अवान्तरग्रन्थेषु रामायण-पुराण-बृहद्देवतादिषु-उभयोर्मध्ये सङ्घर्ष-वैमनस्यविरोधादीनां कल्पनायाः उदयोऽभवत्। विश्वामित्रः क्षत्रियाद् ब्राह्मणत्वं प्राप्त्यर्थं लालायितोऽभवत्। वसिष्ठेन तमनङ्गीकृतम्। तेन क्रुद्धो भूत्वा विश्वामित्रो वसिष्ठस्य पुत्राणां संहारकोऽभवत्।

वैदिकाख्यानस्य तात्पर्यम्[सम्पादयतु]

वैदिकाख्यानानां तात्पर्यविषये चर्चायाः अमेरिका-देशीयः डॉ. ब्लूमफील्ड-महोदयः खण्डनम् अकरोत्। उदाहरणार्थम् — एते रहस्यवादिनो वैदिकपुरूरवसः आख्यानाऽभ्यन्तरे एकस्य गम्भीररहस्यस्य दर्शनं कुर्वन्ति। तेषां विचारे पुरूरवा तुर्यस्तथोर्वशी उषाऽस्ति। उषा-सूर्ययोः पारस्परिकसंयोगः क्षणिको भवति। तयोः वियोगकालः अतीव दीर्घो भवति। वियुक्तः सूर्यः उषान्वेषणे आदिवसं तत्पश्चात् भ्रमति। एतेषामाख्यानानामनुशीलनस्य विषये तथ्यद्वयस्य उदाहरणं भवति।

(क) ऋग्वेदीयाऽऽख्यानम् एवंविधान् विचारान् व्यापाराञ्च अग्रे सारयति, वर्णयति च यत्, मानव-समाज-कल्याण-साधनाय नितान्तमपेक्षितं भवति। अस्याध्ययनमपि तथैव मानवीयमूल्यदृष्ट्या कर्त्तव्यम्। ऋग्वेदीय-ऋषिः एतेष्वाख्यानेषु मानवानां कल्याणाय उपादेयतत्वानां समावेशं कृतवान्।

(ख) तस्यैव युगस्य वातावरणं स्मृत्वा तस्मिन्नेव परिवेशे एतेषामुपाख्यानानां मूल्यनिर्धारणं कर्त्तव्यम्। तस्मिन्नेव युगे एतेषामाख्यानानां मूल्यनिर्धारणं कर्त्तव्यम्, यस्मिन् युगे एतेषामाख्यानानामाविर्भावोऽभवत्।

एतेषां तथ्यानामाधारशिलायामुपरि आख्यानानां व्याख्या समुचिता वैज्ञानिका च भवति। वैदिकाऽऽख्यानानां शिक्षा मानवसमाजस्य सामूहिककल्याणाय विश्वमङ्गलस्य अभिवर्द्धनाय च भवति। भारतीयसंस्कृत्याः अनुसारेण मानवाः देवैः सह सम्बद्धाः सन्ति। मानवो यज्ञेषु देवेभ्यः आहुतिं ददाति। देवोऽपि प्रसन्नो भूत्वा तं प्रसादयति तस्याभिलाषं पूरयति च। इन्द्रविषयकः अश्विनीविषयकश्च आख्यानस्य कथनस्य विशदो दृष्टान्तोऽस्ति। यजमानैः प्रदत्तं सोमरसं पीत्वा इन्द्रो नितान्तं प्रसन्नो भवति। सः तस्य कामनां सफलयति। अवर्षणस्य वृत्राख्यं दैत्यं स्ववज्रेण भित्वा नदीः प्रवाहयति। वृष्ट्या मानवाः आप्यायिताः भवन्ति। संसारे शान्तिः विराजते। वैदिकतथ्यम् इदम् अल्पाक्षरेण एव महाकविकालिदासेन व्यक्तीकृतम्।[२]

प्रत्येकस्य आख्यानस्य अन्तराले मानवानां शिक्षणार्थं तथ्यम् अन्तर्निहितमस्ति। आत्रेयी-कपालयोः[३] आख्यानं नारीचरित्रस्य उदात्ततायाः तेजस्वितायाश्च विशदं प्रतिपादकमस्ति। राज्ञां त्र्यरुण-नैवृष्ण-वृषजानानामाख्यानं[४] वैदिककालिकस्य पुरोहितस्य महिम्नो गरिम्णाश्च सङ्केतं करोति। सोभरिकाण्वस्याख्यानं[५] सङ्गत्या महिम्नः प्रतिपादयति। उषस्तिचाक्रायणम्[६] इत्येतस्य आख्यानम् अन्नस्य सामूहिकप्रभावस्य तथा गौरवस्य कमनीया कथाऽस्ति। शुनःशेपस्य आख्याने देवतायाः अनुकम्पायाः उज्ज्वलः सङ्केतो लभते। देवानां कृपया शुनःशेपः स्वात्मानं त्रातुं समर्थोऽभवत्। वसिष्ठविश्वामित्रयोः आख्यानम् अप्युचितविश्लेषणाभावेन अनर्गलकल्पनायाः समुत्पादकमभवत्। वसिष्ठः शारीरिकतपस्यायाः प्रतिमूर्तिरस्ति। विश्वामित्रस्तु पुरुषकारस्य स्वरूपमस्ति। उभयोर्मध्ये प्रगाढा मैत्री आसीत्। वैदिकनृपस्य यज्ञसम्पादने समानरूपेण द्वावपि सहायकावास्ताम्। तयोवैरभावं सङ्घर्षञ्च क्षणिकमस्ति। श्यावाश्व-आत्रेयस्य कथा[७] ऋषेः गौरवं, प्रेम्णः महिमानं, कवेः साधनाच्च सुष्ठुरीत्या अभिव्यक्तं करोति। ऋग्वेदीययुगस्येयं प्रख्याता प्रणयकथाऽस्ति। यस्यां प्रेम्णः सिद्धये श्यावाश्वः एको मन्त्रद्रष्टा ऋषिर्बभूव। दध्यङ्गायर्णवस्य आख्यानं[८] राष्ट्रिय-मङ्गल-जीवनदानस्य शिक्षां दत्त्वा, क्षुद्रस्वार्थादुपर्युत्थानस्य जनकल्याणस्य चोपदेशं ददाति। पुराणे अस्यैव नाम ऋषिः दधीचोऽस्ति। अयमेव लोकहिताय वृत्रासुरवधाय सुरेन्द्राय स्वास्थिदानमकरोत्। वज्रनिर्माणार्थम् अस्थिदानं कृत्वा आर्यसभ्यतायाः रक्षामकरोत्। अनधिकारिणं रहस्य-विद्योपदेशस्य विषमपरिणामः अस्मिन् वैदिकाऽऽख्याने प्रदर्शितः अस्ति। एतेषाम् आख्यानानाम् अयमेव उपदेशोऽस्ति यद् - परमेश्वरं प्रति प्रगाढा श्रद्धा जीवात्मना सह प्रेम। विश्वकल्याणाय इदमेव मङ्गलमयः मार्गः अस्ति।

कतिपयानामृषीणां चारित्रिकदोषाणां तथा अनैतिकाचरणस्य अपि वर्णनं वैदिकाख्यानेषु उपलब्धं भवति। एतानि आख्यानानि अनैतिकताया गत्ते पतनात् त्राणार्थमेव निर्दिष्टानि सन्ति। तपसा पवित्रजीवनेऽपि प्रलोभनावसरे चारित्रिकपतनस्य सम्भावना भवति। कामिनीकाञ्चनयोः प्रलोभनं सामान्यजनस्य हृदयमाकर्षत्येव। फलतः ताभ्यां सदैव जागरूकेन भवितव्यम् इत्येतस्मिन् विषये उक्तञ्च -

'कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा।

न चरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत् ॥

अनमन्यैरुपालब्धैः कीतितैश्च व्यतिक्रमैः॥

पेशलं चानुरूपञ्च कर्त्तव्यं हितमात्मनः॥'[९]

वेदेष्वार्षम् आख्यानम्[सम्पादयतु]

मन्त्रद्रष्टृृणाम् ऋषीणाम् आख्यानानि अपि वैदिकवाङ्मये बहुशः उपलब्धानि भवन्ति। एतेषाम् आर्षाऽऽख्यानानां माध्यमेन वैदिकऋषीणां जीवनपरिचर्या आध्यात्मिकोन्नतिसाहित्य-सृष्ट्यादिविषये आमूलचूलं ज्ञानं प्राप्यते। अस्मिन् सन्दर्भे प्रथमतः ऋषिभरद्वाजस्य चरितं प्राप्यते।

वैदिक-ऋषिर्भरद्वाजः[सम्पादयतु]

ऋग्वेदस्य षष्ठमण्डलं महषिणा भरद्वाजेन तथा तद्वंशजन्मना ऋषिभिः दृष्टानुभूतानां मन्त्राणां श्लाघनीयः सङ्ग्रहोऽस्ति। अस्मिन् मण्डले ७५ सूक्तानि सन्ति। एतासु ऋचासु कतिपयास्तु स्वयं मुनिना भरद्वाजेन दृष्टाः सन्ति, कतिपयाः अन्यास्तु तद्वंशीयैः गार्ग-पायु-ऋजिश्वादिभिर्ऋषिभिः दृष्टाश्चानुभूताः सन्ति । बृहद्देवताऽनुसारेण[१०] ऋषिर्भारद्वाजः आङ्गरसः पौत्रः, बृहस्पतेः पुत्रः चासीत्। सर्वानुक्रमणीद्वारेणापि कथनमिदं सम्पुष्टं भवति। अत एवास्य समग्राभिधानम् आङ्गरसबार्हस्पत्यभरद्वाजोऽस्ति । आङ्गरसः ऋग्वेदे बहुशः उल्लेखो लभते —

धन्या चिद्धि त्वे धिषणा वष्टि प्रदेवान् जन्म गृणते यजध्यै।

वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधुच्छन्दो भनतिरेभ इष्टौ।।[११]

अनेन मन्त्रेण ऋषिः आङ्गरसामृषीणां मण्डलीषु मेधावी, स्तुतिप्रेरकः, स्तवनकर्ता, मधुमच्छन्दसां वक्ता चासीत् इति ज्ञायते। अयं ह्युचथ्यपत्नी-ममता-गर्भाद् बृहस्पतिना वीर्येण प्रसूत आसीत् । शृयते, जन्मकाले एवामुं पितरौ अत्यजताम् । मरुताख्येन देवेनास्य भरणपोषणञ्चाभूत् । भरद्वाजाभिधानस्य तात्पर्यम् इनया घटनयैव सम्बद्धमस्ति । समुत्पन्नस्य पुत्रस्य भरणपोषणविषयकं प्रश्नं नीत्वा बृहस्पति-लतयोर्मध्ये विवादः अभवत् । तयोर्मध्ये न कोऽपि तस्य शिशोर्भारं वोढुं सन्नद्धोऽभवत् । तेनास्य नाम भरद्वाज इत्यभवत् । इयं कथा बहुत्र वर्णिता अस्ति।[१२]

मूढे भरद्वाजमिमं भरद्वाजं बृहस्पते।

यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम्॥

काशीराजवंशेन सह भरद्वाजस्य विशिष्टसम्बन्धं प्रकटयितुम् ऐतिहासिकतथ्यम् अपि प्राप्यते। काश्याः संस्थापको राजा दिवोदासः भरद्वाजं स्वकीयराजकुलपुरोहितपदे नियुक्तवान्। विपत्तिकाले तेनापि राजवंशस्य संरक्षणं कृतम्। श्रूयते चैकदा हैहयराजः काशीराज्यं जिगीषुः वीतहव्यः काशीम् आक्रम्य काशीनरेशं हर्यश्वं विजित्य सिंहासनासीनो बभूव। राज्याद्विभ्रंशितो निर्वासितश्च यत्र तत्र परिभ्रमन् सुजनैर्भूमिपालैः सत्कारेण मन्दिकृतराज्यविभ्रंशदुःखो मुनिर्भारद्वाजस्य आश्रमे न्युवास। अस्य उल्लेखः पञ्चविंशब्राह्मणे[१३] तथा अनुशासनपर्वणि[१४] लभते। भरद्वाजाश्रमे निवसतः एव स राजा पुत्रेष्टियत्रम् अकरोत्। मुनिकृपया सन्तानपरम्परया तस्य राज्ञः "प्रतर्दनो" नाम पुत्रः अभवत्। तं च भरद्वाजो वीतहव्यविजिगीषया जुगोप। अयमेव प्रतार्दनः भारद्वाजसाहाय्येन वीतहव्यं विजित्य काशीराज्यं शत्रु-मुक्तं कृत्वा सिंहासनारूढो बभूव । फलत: महर्षिभरद्वाजो न केवलं सामान्यतपस्वी आसीत्, अपि तु सः राजनीतिज्ञः, युद्धनीतिविशारदः, व्यावहारिकक्रियामण्डितः, समर्थः, कुशलराजपुरोहितश्चासीत् । ऐतरेयब्राह्मणेऽस्य व्यक्तित्वस्य सङ्केतः समुपलब्धो भवति । तदनुसारेणास्य शरीरं सुगठितं, सुविस्तृतं वक्षःस्थलम्, आयतं नेत्रं गौरवर्णञ्चासीत् । तपसा कृशकायोऽयं पुरुषो नितान्तोद्दीप्त आसीत् ।

तैत्तिरीयब्राह्मणे[१५] तत्त्वजिज्ञासाविषयकास्य एका रोचिका आख्यायिका वर्त्तते । समस्तवेदानां यथावदनुशीलनाय तत्परिज्ञानाय चायं दृढसङ्कल्पम् अकरोत् । तत्सम्पूर्त्यर्थम् इन्द्रस्यायं दीर्घोपासनामकरोत् । इन्द्रः प्रसन्नो भूत्वा तस्मै 'शतायुर्भव' इति वरं दतवान्। वरं लब्ध्वा भरद्वाजेन वेदानामनुशीलनं विधिवन्मननाच्च कृतम् । किञ्च एकस्मिन्नेव जन्मनि स्वसङ्कल्पं पूरयितुं नाशक्नोत् । पुनरप्ययं कठोरतपसा इन्द्रं प्रासादयत् । पुनरपि इन्द्रवरं लब्ध्वाऽप्यस्य वेदार्थजिज्ञासा निवृत्ता नाभवत् । यदाऽयं वेदार्थस्थातृप्तजिज्ञासानिवृत्त्यर्थं शतवर्षस्य तुरीयजन्म अयाचयत्, तदेन्द्रेण अस्य सम्मुखे त्रयो विशालाः पर्वताः प्रकटीकृतास्तथा मुष्टिमेयान् धूलिकणान् गृहीत्वा अवदत् यत्, पश्य, भरद्वाज ! शतत्रयवर्षाणामायुर्गृहीत्वाऽपि यज्ज्ञानं त्वया अर्जितं तन्मन्मुष्टिस्थितधूलिकणसममपि नास्ति । वेदार्थज्ञानं तव सम्मुखस्थितविशालपर्वतसमूहमिवोत्तुङ्गम् अलङ्घ्यञ्च अस्ति । दैव्याः अनुकम्पां विना मानवीयप्रयत्नेन कथमपि साध्यमिदं नास्ति - 'अनन्ताः वेदः'। ज्ञानस्य न काऽपि सीमा न चाप्यन्तोऽस्ति । इन्द्रेण उपदिष्टः सावित्र्याग्निचयनयज्ञेन भरद्वाजः वेदानां समग्रपारायणो वेदार्थस्य च पूर्णज्ञानं तथा तज्जन्यमोक्षस्य च प्राप्तिम् अकरोत् । वैदिकाख्यानमिदं भरद्वाजस्य दृढनिष्ठायाः तस्य चातृप्तज्ञानपिपासायाः यावत्परिचायकमस्ति, तावदेव इदं वेदस्य अनन्ततायाः ज्ञानविज्ञानस्य निःसीमतायाश्च द्योतकमस्ति ।

'अनन्ता वै वेदा:' - भरद्वाजस्य गम्भीरानुभूत्या विशदाविष्कारकतथ्यानां कथनमस्ति यद्, गुरुं विना तपसा बलेन वेदज्ञानस्य विषये एका महनीयाऽऽख्यायिका महाभारते प्रदत्ताऽस्ति।[१६] आख्यायिकेयं यवक्रीतोपाख्याननाम्ना प्रख्याताऽस्ति । भरद्वाजपुत्रो यवक्रीतः केवलं तपसा बलेनैव ज्ञानप्राप्त्यर्थं तपः कृत्वा इन्द्रं प्रासादयत् । किञ्चेन्द्रः ‘गुरुमुखादेव वेदस्योपलब्धिर्भवेत् न तु तपसा बलेन' एवमुक्त्वा तं तपसा विरतमकरोत् । सोऽपि स्वपितुर्मित्रस्य रैभ्यमुनेः च आरित्रिकदोषेण रक्षसा हतः । रैभ्यस्यैव पुत्रेण अर्वावसुना सः पुनरुज्जीवितः।[१७]

भरद्वाजोऽयम् आत्मविद्यायाः यादृशो विख्यातपण्डित आसीत्, तथैव रणविद्यायामपि प्रकाण्डपण्डितश्चासीत् । अस्याऽपूर्वसामञ्जस्यस्य सङ्केतः ऋग्वेदादारभ्य महाभारतपर्यन्तं लभते। ऋग्वेदस्य षष्ठमण्डलस्यान्तिमसूक्तं वेदस्य कतिचनेषु सामरिकसूक्तेषु अन्यतममस्ति । अस्मिन् सन्दर्भे मन्त्रद्वयं प्रसिद्धम् —

‘रथे तिष्ठन् नयति वाजिनः पुरो यत्र यत्र कामयते सुसारथिः।

अमी शूनां महिमानं पनायत मनः पश्चादनुयच्छन्ति रश्मयः।।'

धनुषः स्तुतिपरका ऋगिति -

‘धन्वना गा धन्वनाऽजिं जयेम धन्वना तीव्राः समदो जयेम।

धनुः शत्रोरप कामं कृणोति धन्वना सर्वा विदिशो जयेम।।'

हस्तघ्न ऋग्यथा -

'अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः।

हस्तघ्नो विश्वा वयुनानि विद्वान् पुँमान् पुमांसं परिपातु विश्वतः।।[१८]

महाभारतकालिककौरवाणां पाण्डवानाञ्च गुरुः द्रोणाचार्यः गङ्गद्वारनिवासिनो महर्षिभरद्वाजस्यैव पुत्रः आसीत्।[१९] भारद्वाजजीवनस्य वेदशास्त्रोक्ता एतावत्येव घटना वर्तते । किञ्च आध्यात्मिकव्याख्या अनुसारेण मन एव भारद्वाजोऽस्ति । शतपथब्राह्मणस्य आध्यात्मिकव्याख्या अनुसारेण भरद्वाजः मनसः प्रतिनिधिः आसीत्

'मनो वै भरद्वाजः ऋषिरन्नं वाजो यो वै मनो बिभर्त्ति ।

सोऽन्नं वाजं भरति । तस्मान्मनो भरद्वाज ऋषिः।।'

वैदिकगाथायाः विवरणम्[सम्पादयतु]

गाथा वैदिकसाहित्ये प्रयुक्तः कश्चन विशेषार्थसूचकः शब्दोऽस्ति । नायं शब्दः सीमितोऽस्ति वेदमभिव्याप्यैव, प्रत्युत जैन-बौद्ध-पारसीकादिवाङ्मयेष्वपि प्रयुक्तोऽस्ति ।

वैदिकसाहित्यस्य महत्त्वपूर्णोऽयं ‘गाथा'-शब्दः ऋग्वेदीयसंहितायां केवलं गीतार्थे मन्त्रार्थे वा प्रयुक्तोऽभवत्।[२०] ‘गै'-धातोः निष्पन्नत्वेन ‘गीत' एवास्य व्युत्पत्तिलभ्योऽर्थः भवति । सत्यपि ‘गाथ'-शब्दस्योपलब्धिः आकारान्त-‘गाथा'-शब्दस्यैव प्रयोगो लोकप्रियोऽस्ति।[२१] गाथाशब्देन निर्मितशब्दानां सत्ता अस्य बहुलप्रयोगस्य सूचिका वर्तते। 'गाथानी'-शब्दस्यापि प्रयोगः गायकत्वार्थे एवाऽस्ति,[२२] किञ्च ‘गाथिन्'-शब्दस्य प्रयोगः केवलं गायकार्थे भवति[२३]। यद्यप्यस्य पूर्वोक्तः सामान्यार्थ एव बहुशोऽभीष्टोऽस्ति, तथापि ऋग्वेदस्य मन्त्रे अस्मिन्नस्यापेक्षा कृतविशिष्टाशयो वर्तते, सः ‘नाराशंसी' तथा रैभ्या सहवर्गी कृतोऽस्ति[२४]

रैभ्यासीदनुष्ठेयी नाराशंसी न्योचनी।

सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम्।।

ऋग्वेदाद्भिन्ने अपि अन्यग्रन्थेषु अपि गाथायाः प्रयोगो बहुशः समुपलब्धो भवति। यथा - तैत्तिरीयसंहितायां[२५]; काठकसंहितायां[२६]; ऐतरेयब्राह्मणे[२७]; कौषीतकीब्राह्मणे[२८]; शतपथब्राह्मणे[२९] ( यत्र रैभी नास्ति ); गोपपथब्राह्मणे[३०]

ब्राह्मणसाहित्यस्यानुशीलनेन, लक्षणोपरि स्वरूपोपरि च पर्यासप्रकाशः पतति । अस्य तथ्यस्य सम्पुष्टिः शुनःशेषोपाख्यानाय ‘शतगाथम्'-शब्देन पर्याप्तरूपेण भवति । गाथायाः भाषा वैदिकमन्त्राणां भाषातो भिन्ना एवेति । यथा -

‘कतरत् त अहराणि दधिमन्थां परिश्रुतम्।

जाया पतिं विपृच्छति राष्ट्रे राज्ञः परीक्षितिः॥'

ऐतरेयब्राह्मणस्य राज्ञः दुष्यन्तस्य पुत्रेण भरतेन सम्बद्धा गाथा एवमस्ति -

'हिरण्येन परिवृतान् शुक्लदतो मृगान्।

मष्णारे भरतोऽददाच्छतं बद्धानि सप्त च।।

भरतस्यैष दौष्यन्तेरग्निः साचीगुणोचितः।

यस्मिन् सहस्रं ब्राह्मणा तद्वशो गा विभेजिरे॥'( ८४ )

गाथायाः पारसीकानाम् एवेस्ताग्रन्थेन सह घनिष्ठतमसम्बन्धोऽस्ति । अवेस्तागाथाया अर्थोऽपि स एव भवति यः वैदिकगाथायाः । यथा अवेस्तायाम् -

तेम्ने जस्ता ईस आर्मतो ईस् मिमध्जो।

ये आन्मेनी यज्दाओ स्रावि अहूरो।।[३१]

'नो इत् मोईवास्था क्षमत् अन्या।'[३२]

'मऊदाओ सखारे मइरीश्तो ।'[३३]

अवेस्तायां 'अहुरमज्द' इत्येतस्य कल्पना षड्गुणैः परिव्याप्ताऽस्ति । कल्पनेयं विष्णोः षाड्गुण्यविग्रहेण सह विशेषरूपेण मिलति। अवेस्ताया अन्यांशेषु ते देवता अथवा फरिस्ता 'आमेषास्पेन्ता' नाम्ना ख्याताः सन्ति । ‘अामेषास्पेन्ता' इत्येतस्य पदस्यार्थो भवति ‘पवित्रामरशक्तयः' । एतेषां नाम्नः रूपस्य चयः निम्नरूपेण प्राप्यते —

(१) अष ( वैदिकऋतम् ) संसृतेः नियामिकाशक्तिः।

(२) बोहुमनो (सुष्ठुमनः) प्रेम तथा पवित्रता।

(३) स्पेन्त आर्मि इति ( धार्मिकैकनिष्ठा )।

(४) क्षध्व इर्य (क्षत्रवीर्यः) प्रभुत्वसूचकः शब्दः।

(५) हऊं वर्त्तात् = सम्पूर्णतायाः सूचकः।

(६) अमृतात् = अमरता किंवा अमृतत्वम्।

जरथुश्त्रः अस्य षडगुणयुक्तस्य बहुरज्दस्य आरधाकरणाय समुपदेशितवान्। आसु गाथा, चित्रितादर्शः भारतीयाद्वैतवादात् भिन्नो नास्ति। अद्वैतवादस्य भारतीयान्दोलनात् पूर्वमेव जरथुश्त्रस्य तस्यां दिशि मनोरञ्जकमार्कर्षणम् अस्ति।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ७/१
  2. रघु० ४॥१६
  3. ऋक्० ८॥९१
  4. ( ऋग्० ५॥२; ताण्डघब्रा० १३॥६॥१२; ऋग्विधान, १२॥५२; बृहद्देवता ५॥ १४-२३)
  5. (ऋग्० ८१९, ८l८१; निरुक्तिः ४/१५; " भाग० ९६ )
  6. ( छान्दोग्यः, प्रथ० प्रपाठ० खण्ड० १०॥११ )
  7. (ऋग्० ५॥६१)
  8. ( ऋग्ंं० १॥११६॥१२; शतप० १४॥४॥५॥१३; बृहदारण्य० २॥५; भागव० ६॥१० )
  9. ( महाभा० १२॥२९१॥१७ )
  10. ( ५॥१०२ )
  11. (ऋग्वेदः ६/११/०३)
  12. बृहद्देव० ५॥१०२॥१०३; भाग० ९॥२०, विष्णुपुराणं ४।१९
  13. १५/३/७
  14. ३०/३०
  15. ( ३॥१०॥११॥३ )
  16. ( वनप० अ० १३५-१३८)
  17. महाभाष्यसूत्रम् ४॥२॥६०
  18. ( ऋ० ६॥७५॥१४ )
  19. महा० अादिप०, अ० १२१
  20. ( ऋग्वे० ८॥३२॥१; ८/७१/१४)
  21. ( ऋ०-९॥९९॥४ )
  22. (ऋ० ८॥९२॥|२ )
  23. (५॥४४॥५)
  24. ( ऋग्वे० १०॥८५॥६ )
  25. ( ७॥५॥११॥२ )
  26. ( ५॥|२ )
  27. ( ६।३२ )
  28. ( ३०/५ )
  29. (११।५॥६॥८)
  30. ( २॥६॥१२ )
  31. (गाथा ४५१० )
  32. (गाथा २९१ )
  33. (गाथा २९॥४)
"https://sa.wikipedia.org/w/index.php?title=आख्यानम्&oldid=426572" इत्यस्माद् पुनः प्राप्तिः