आख्यानसाहित्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

आख्यानसाहित्यं संस्कृतजगति शाखान्तरवद्विकसितं समृद्धञ्च दृश्यते । आसमन्तात् ख्यायतेऽसाविति आख्यानं, तेन यद्धि लोके सर्वतः कथ्यते तदेवाख्यानं कथा वी । आख्यानस्य हि बृहत्तमो भागः, काल्पनिको भवति तत्र हि कुत्रचित्तु कुतूहलं, क्वचित्तु घटनावैचित्र्यं, क्वचित्तु हास्यविनोदः, क्वचिदुपदेशोऽथ क्वचितु रसवत्काव्यस्य छटाऽपि दृश्यते । समुदितदृष्ट्याऽऽख्यानसाहित्यं हि मानवचिन्तनस्य नितान्तविकसित रूपम् ।।

तच्चख्यिानसाहित्यं द्विविधं नीतिकथा लोककथा चेति । यदेव सदुपदेशेन सति प्रवृत्त्यर्थमसतो निवृत्यर्थचे कथ्यते तन्नीतिकथायी रूपम् । रोचकाख्यानमाध्यमेन पुरुषार्थ साधनोपयकथनमेवास्योद्देश्यम् । अत्र हि प्राधान्येन सदाचाराः राजनीतिव्यवहारिकज्ञानञ्च निरूपणीयविषयाः । तद्विपरीतं लोककथायाः प्रयोजनं तु मनोरञ्जनमेव । मनुष्यसम्पादितकृत्यस्यातिरञ्जनरूपेण कथनमैव लोककथायी लक्षणम् ।।

अख्यिानसाहित्यस्य प्राचीनत्वमियतया तु नैव वक्तुं शक्यते, किन्त्वेतावत्तु निश्चितमेव यदिदं सर्वेष्वपि काव्यभेदेषु प्राचीनतमम् । ऋग्देदादावपि नीति कथायीः स्वरूपं यत्र कुत्र लभ्यते । ऋग्वेदस्य देशमण्डलस्य १०८ मितसूक्ते सरमायाः पणिनीच संवादों लभ्यते, यत्र सरमा पणिनो अनदानाय उपदिशति । नीतिकथायाः स्वरूपमिदं ब्राह्मणग्रन्थेषुपनिषत्सु च लभ्यते । छान्दोग्योपनिषदि[१] पशूनामन्नार्थं सङ्गठनं श्रूयते । तत्रैव वृषभो हँसो मैश्च जीबीले सत्यकामै ब्रह्मविद्यमुपदिशन्ति । महाभारते तु एतादृश्यः कथा यत्र तत्र लेभ्यन्तै । कैवले शान्तिपर्वण्येव द्वादश नीतिकथा लभ्यन्ते । पातञ्जलेऽपि महाभाष्ये कथानकानामुल्लेखो दृश्यते अहिनकुलं काकोलूकीयमित्यादि । जातककथास्वपि कथायस्तिथैव रूप लभ्यते ।

नीतिकथा[सम्पादयतु]

सामान्यतो नीतिकथा द्वयोर्भागयोविभक्ता दृश्यते, पशुपक्ष्याश्रिता मनुष्याश्रिता च । प्रथमायां हि पशुपक्षिमाध्यमेन सदाचार-राजनीति-व्यवहारादीनां ज्ञानमुपदिश्यते, द्वितीयायां मानवमाध्यमेनैव । पञ्चतन्त्रं हितोपदेशश्च प्रथमभेदस्य निदर्शनानि, पुरुषपरीक्षा च द्वितीयभेदस्य । अथैतेषां संक्षिप्तः। परिचयोऽत्रोवस्थाप्यते ।

पञ्चतन्त्रम्[सम्पादयतु]

पञ्चतन्त्रं हि विष्णुशर्मसङ्गृहीतं नीतिकाव्यम् । किन्तु कोऽसौ विष्णुशर्मा कश्चास्य कालः, इति सम्प्रत्यपि, नैव ज्ञातं सम्यक् । पञ्चतन्त्रे हि कथामुखं, मित्रभेदम्, मित्रप्राप्तिकं, लब्धप्रणाशं, काकोलूकीयम्, अपरीक्षितकारकञ्चेति षट् प्रकरणानि सन्ति । तेषु हि मित्रभेदादिकं तु विष्णुशर्मसङ्गृहीतं सम्भवति किन्तु कथामुखं तु न तथा प्रतिभाति । कथामुखे कथितं यद् दक्षिणदिशास्थमहिलारोप्यनगरस्य राज्ञोऽमरशक्तेः पुत्रान् श्रीनध्यापयितुं विष्णुशर्मणा ग्रन्थोऽयं प्रणीत इति । किन्तु हितोपदेशस्य प्रस्ताविकाभागे तु कथितमस्ति यद्भागीरथीतीरस्थस्य पाटलिपुत्रनगरस्य राज्ञः सुदर्शनाख्यस्य त्रीनेव पुत्रानध्यापयितुं विष्णु शर्मा ग्रन्थमिमं प्रणीतवानिति । अनेन कथनभेदेन तथैव‘तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं काव्यम्' इति कथने लिट्लकारप्रयोगेण च सिध्यति यदयं भागः केनाऽपि विष्णुशर्मपश्चातना प्रणीय संयोजितमिति । तेन हि प्रस्तावनाभागतस्त्वेतावदेव सिध्यति यदसौ ग्रन्थो विष्णुशर्माख्येन विदुषा संग्रहीत इति । न ततोऽधिकम् ।

विष्णुशर्मणो देशविषये द्वैमत्यं दृश्यते । पञ्चतन्त्रकथासुखकारस्तं दाक्षिणात्यमरशक्त्याख्यस्य महिलारोप्यराज्ञः सभाकवि मन्यते किन्तु हितोपदेशस्य प्रणेता नारायणस्तु तं पाटलिपुत्रवासिनः राज्ञः सुदर्शनस्य सभासदं मन्यते । विवादेऽस्मिन् नारायणस्य पक्ष एवं सत्यस्य निकटं स्पृशन्निव दृश्यते । यतो हि ग्रन्थस्यास्यावस्थिति तत्र प्रमाणयति फ्तञ्जलिरपि काकोलूकीयशब्दग्रहणेन । कथ्यते गुणाढ्योऽपि पञ्चतन्त्रमनुवदतीति । असौ हि विष्णुशर्मा विष्णुगुप्त एव चाणक्यापराभिधः इति बहूनां मतम् । सम्भवति बिन्दुसाराध्यापनाय चाणक्येनैव ग्रन्थोऽयै. प्रथमं : सङ्कलितः स्यात् तदेव पश्चात्परिर्वाधतः संस्कृतश्च । यच्च 'चाणक्याय च विदुष नमोऽस्तु' इत्युक्तं तस्य पश्चात्प्रक्षिप्तत्वं तु स्पष्टमेव कथामुखभागवतत्वात् । न हि स्वयमेव कविरात्मानं लिटा निर्दिशति । स्यादपि नैव वा, पन्नतन्त्रस्य अस्तित्वं विक्रमपूर्वमप्यासीदिति सर्वथा सत्यमेव ।

पञ्चतन्त्रस्य हि सन्ति सप्ताधिकानि संस्करणानि येषु हि परस्परं स्वल्पं वा बह्वप्यन्तुरमस्ति । तानि च यथा -

१. तन्त्राख्यायिका - संस्करणमिदं काश्मीरेषु शारदालिप्यामुपलब्धम् । अत्र हिपञ्चतन्त्रस्य मूलरूपं सुरक्षितमस्त्यधिकमितरसंस्करणापेक्षया । अस्य प्रणयनं वैक्रमप्रथमशतके मतं समालोचकैः । अत्रापि काश्चित्कथाः संवद्धता दृश्यन्ते ।।

२. सरलपञ्चतन्त्रम् - संस्करणमिदं केनचिज्जैनसाधुना ११६० मितवैक्रमाब्दमभितः सङ्ग्रहीतम् । संस्करणमिदं सर्वाधिकत्वेन प्रचलितम् । व्यूलरकीलहार्नमहोदयाभ्यां प्रकाशितमिदम् ।।... : *

३. पञ्चाख्यानकम् - पूर्णभद्रसम्पादितमिदं १२२६ मितवैक्रमाब्दमभितः प्रस्तुतम् । अत्र हि एकविंशतिः कथा नवीना अपि सङ्कलिताः ।

४. दाक्षिणात्यसंस्करणम् - इदं हि स्वयमपि पञ्चसु संस्करणेषु समुपलभ्यम् । अत्र पञ्चतन्त्रीयाः कथाः संक्षिप्य प्रस्तुताः ।

५. नेपालसंस्करणम् - इदं हि केवलं पद्यात्मकमेकं गद्यभागसहितञ्चापरमपि लभ्यते । इदं हि नेवारीभाषायां रूपान्तरितमपि दृश्यते ।

६. हितोपदेशः – नारायणाख्येन विदुषा किञ्चित्परिवर्तितं हि पञ्चतन्त्रमेवदेम् ।

७: पाश्चात्यसंस्करणम् - सम्भवतः संस्करणमेवेदं गुणाढ्येन प्रयुक्तं यस्य रूपं सम्प्रति कथासरित्सागरादौ लभ्यते।

८. पहलविसंस्करणम् - अनोशेरवानाख्यशासकस्ये शासनकाले (५८८६३६ वै०) 'बुर्जाई' इत्याख्येन पहलवीभाषायां पञ्चतन्त्रस्य उत्तरपश्चिमसंस्करणस्य रूपान्तरं कृतम् । ततोऽपि पश्चात् सीरियाभाषायां ‘कलिलग दमनग’ नाम्ना बूदमहाशयप्रयासेन, ततोऽपि अरबीभाषायां ‘अब्दुल-इब्नुलमोकप्फा' नाम्ना विचक्षणेन ‘कबील-व-दिम्न' इति नाम्ना ग्रन्थस्यास्य रूपान्तरं कृतम् । अरबीसंस्करणतोऽस्य यवनभाषायां ततश्च इटली-जर्मनीलैटिनप्रभृतिभाषासु रूपान्तराणि संञ्जातानि। अनेन ग्रन्थस्यास्य करकटदमनकनाम्नाऽपि प्रसिद्धिदृश्यते ।

अस्य भाषा नितान्तप्राञ्जली विद्यते वाक्यविन्यासस्य सरसः सरलश्च । कथामुंखेनात्र संदाचार-राजनीति-लोकव्यवहाराणामुपदेशः कृतोऽस्ति । कथच्छिलेन बालीनामुपकाराय प्रणीतोऽयं ग्रन्थः स्वकीयप्रयत्ने सफलो दृश्यते । अत्र व्यवहारोपयोगी निखिलको विषयः सुनिबद्धो दृश्यते ।

अत्रापि कथामनु उपकथा प्रवर्तते । पञ्चसु तन्त्रेषु सन्त्येतादृशा ६९ मिता उपकथाः । अत्र कथा प्रायो गद्य नीतिवाक्यानि तु पद्ये सन्ति निबद्धानिं । ग्रन्थोऽयं यथा बालानामुपकारकस्तथैव वृद्धानामपि। विश्वस्यैव प्रमुखभाषासु रूपान्तरितो ग्रन्थोऽयं संस्कृतसाहित्यभण्डारस्यामूल्यं हीरकमेव ।

हितोपदेशः[सम्पादयतु]

हितोपदेशोऽपि पञ्चतन्त्रस्यैव-नवीनं संस्करणम् । ग्रन्थोऽयं नारायणाख्येन विदुषा सङ्कलित इति कथ्यते । यथोक्तं ग्रन्थावसानवाक्ये--

‘प्रालेयादेः सुतायाः प्रणयनिवसतिश्चन्द्रमौलिः स यांव|

यावलक्ष्मीर्मुरार्जलद इव तडिन्मानसेः विस्फुरन्ती।

यावत्स्वर्णाचलोऽयं दवदहनसमो यस्य सूर्यः स्फुलिङ्ग-

स्तावन्नारायणेन प्रचरतु. रचितः सङ्ग्रहोऽयं कथानाम् ॥[२]

तथैव-

श्रीमान् धवलचन्द्रोऽसौ जीयान्माण्डुलिको रिपूनः।

येनार्य सङ्ग्रहो यत्नाल्लेखयित्वा प्रचारितः ।।[३]

अनेन हि ग्रन्थोऽयं नारायणविदुषा धवलचन्द्रशासनकाले प्रणीत इत्यवगम्यते, किन्तु कोऽसौ धवलचन्द्र इति नाधुनापि सम्यग्ज्ञायते । केचिद्धि धवलचन्द्रं कञ्चिद् बङ्गनृपं मन्यन्ते । अस्य च स्थितिकालः वैक्रमद्वादशशतकमभितोऽनुमितः ।।

हितोपदेशे सन्ति चत्वारि . प्रकरुणानि मित्रलाभ-मित्रभेद-विग्रह-सन्धि नामकानि। तेषु हि त्रीणि प्रकरणानि तु पञ्चतन्त्रस्यैव परिवधितरूपाणि किन्तु चतुर्थं तु प्रकरणं नारायणकवेः स्वकृतिरेव । सन्त्यत्र त्रिचत्वारिंशत्कथाः संगृहीताः, यासु पञ्चविंशतिस्तु पञ्चतन्त्रमेवानुजीवन्ति शेषाः ग्रन्थान्तरेभ्यः ।

कविः स्वयमेवं कथयति : मित्रलाभः सुहृद्भेदो विग्रहः सन्धिरेवं च ।

पञ्चतन्त्रात्तथान्यस्माद् ग्रन्थादाकृष्य लिख्यते ।[४] इति ।

अत्र हि पञ्चतन्त्रापेक्षया पंद्यानां बाहुल्यं दृश्यते । ग्रन्थोऽयं शुकसप्तति वेतालपञ्चविंशति कामन्दकीयं नीतिशास्त्रञ्चोपजीवति । ग्रन्थस्यास्यैका हस्तलिपिः १४३० मिंतवैक्रमाब्दे लिखितो लब्धेति ततः पूर्वमेवास्य प्रणयनकालोऽवगम्यते।

पुरुषपरीक्षा[सम्पादयतु]

विद्यापतिनाम्ना मैथिलपण्डितेन मनुष्यपत्रमालम्ब्यु पञ्चतन्त्रशैल्यां पुरुषपरीक्षानामको ग्रन्थः प्रणीतोऽस्ति । पण्डितोऽयं १४६५ मितवैक्रमाब्दमभितः स्थितिमतो राज्ञः शिवसिंहस्य सभापण्डित आसीत् । यथोक्तं ग्रन्थस्यावसानपद्ये -

तस्य श्रीशिवसिंहदेवनृपतेविज्ञप्रियस्याज्ञया ।।

ग्रन्थं ग्रन्थिलदण्डनीतिविषये विद्यापतितनोत् ॥ इति ।

ग्रन्थेऽस्मिन् सन्ति चत्वारिंशत्कथाः सङ्गृहीताः । पुरुषपात्रप्रयोग एवास्य वैशिष्टयम् । अस्य भाषा क्लिष्टाऽपि सरसा दृश्यते ।

भोजप्रबन्धः[सम्पादयतु]

बल्लालकवेजप्रबन्धोऽपि प्रसङ्गेऽस्मिन् स्मर्तव्यः । कोऽसौ बल्लालकविरित्यपेक्षायां केचित्तं बङ्गराजं बल्लालसेनं मन्यन्ते किन्तु कथनमिदं न युक्तियुक्तं प्रतिभाति । सति तथा आनन्दकविना बल्लालचरितेऽस्योल्लेखः कृतो भवेत् । अपरञ्च, बल्लालसेनप्रणीतेऽद्भुतसागरेऽप्यस्योल्लेखो भवेत् । किन्तु न तथा । केचिदमुं द्वारसमुद्रस्य राजानं तृतीयबल्लालं मन्यन्ते, तदपि न युक्तं प्रतिभाति, यतो हि भोजनंबन्धे ।

‘कलकण्ठं यथा शौभा सहकारे भवेगिरः ।।

खदिरे वा पलाशे वा कि तथा स्याद्विचारय ।।'[५] इति । तथैव-

‘कौपः सत्पुरुषाणां तुल्यः स्नेहेन नींचानाम्' ।[६]

इति च तथा सति नैव कथितं सम्भवति । तत्र हि भोजावमानितस्य . कालिदासस्य बल्लालदेश गमनं तत्र कालिदासस्य किञ्चत्कालनिवासश्च

णतोऽस्ति । किन्तु तत्रापि लिटः प्रयोगेण तस्य सम्भावनां निराक्रियते-- 'ततस्तस्मै प्रत्यक्षरं लक्षं ददौ'[७] इति । तेन बल्लालाख्यः कश्चित्कविरेव भवेत्, यो हि भोजकीतिमाकर्णयित्वा ग्रन्थमेतं प्रणैषीत् । स हि मल्लिनाथं स्मरति न च तदनन्तरर्वातनं, तेन मल्लिनाथपश्चात्कालवतना भाव्यमिति प्रबलस्तर्कः । स हि तानेकान् कवीन स्मरति किन्तु नैव श्रीहर्षम् । सन्त्यत्र सप्तसप्ततिमिताः प्रबन्धाः । यद्यपि ग्रन्थोऽयं वातभवनायते कालिदास मल्लिनाथञ्च एकदैव समुदाय्य तथापि कवेरस्य प्रतिभा तु तदतिरकिण्येव । अस्य हि प्रासादिकी भाषा प्रवाहशीला शैली च नितान्तमैवै प्रभावोत्पादिका । सामान्यतोऽस्य प्रणयनकाली वैक्रमषोडशशतकोत्तरार्द्धमभितौ मंतः ।

एवमेव ४००-४८० मितवैक्रमब्दान्तरीलेवतित्वैनानुमितस्य आर्यशूरस्य जातकमाला तथैव जैनकवेः सिद्धर्षेः ( ९६३ वै० ) उपमितिभावप्रपञ्चकथा च प्रसङगेऽस्मिनु स्मर्तव्या ।। । एवमेव 'नारायण बालकृष्ण गोदबोले' इत्यनेन संस्कृते रूपान्तरिता ईसवनीतिकथाश्चात्रोल्लेख्या दृश्यते । सन्त्यत्र १३५ मिताः, कथाः सङ्क्षेपेण सङ्गृहीतास्तात्पर्योत्लेखपुरस्सरम् ।।

लोककथा[सम्पादयतु]

लोक कथायाः कस्मिन्नपि. साहित्ये प्राचीनतमत्वं निर्विवादमेव । लोककथास्तु लेखनी वा पत्रनपेक्ष्यैव कर्णपरम्परया अनादिकालादेव लोके विचरन्ति । तामु कश्चिदादाय केचिनु पण्डिताः कवयितुं प्रभवन्ति । आसां हि लोकरञ्जनमेद चरमं लक्ष्यं स्रोतस्तु वीरगाथादि । वस्तुती हि लोककथायां कस्यापि वीरस्य चरितं वा कस्यचिद्युगलस्य प्रेमलीला वणिता भवति ।

समुपलभ्येषु वा ज्ञातेषु कथाग्रन्थेषु प्रथमौ गुणाढ्यस्थ बृहत्कथैव । सम्भवति ततः पूर्वमपि एतादृशानां प्रबन्धानां सम्भवः किन्तु है नास्माकं ज्ञानविषयाः । एबमेवावदानशलक, जातकमाला, सुश्रीलङ्कारः, बेतालपञ्चः विशतिका, सिंहासनद्वात्रिंशिका, शुकशप्ततिः, भोजप्रबन्धः, कथार्णवः, कथाकौतुकम, माधवानलकथा, पुरुषपरीक्षा च केचित्प्रसिद्धाः कथाग्रन्थाः । अथैतेषां संक्षिप्तः परिचयोऽत्रोपस्थाप्यते ।

बृहत्कथा[सम्पादयतु]

गुणाढयस्य बृहत्कथा अलरूपेण पैशाचीभाषायामासीदिति विश्वस्यते । सम्भवति लोककथायाः प्राचीनं स्वरूपं प्राकृतभाषयैब संरक्षितं भवेत् । तेन हि गुणाढचेन यथा श्रुतं तथैव प्रणिवद्धम् ।

गुणाढयस्य विषये कथासरित्सागरे उक्तमस्ति यत्स प्रतिष्ठाननुराधीशस्य सातवाहनस्य शालिवाहनापराभिधस्य सभापण्डित आसीत् । शालिवाहनस्य समयः १३५ भितवैक्रमाब्दमभितो मतः । तेन हि अवततः शकयुगः १३५ मितवैक्रमादात् प्रारब्धो दृश्यले । कथ्यते हि सालवाहनः संस्कृतानभिज्ञ आसीत् । एकदा जलक्रीडायां राज्या 'मोदकैस्ताडय' इत्युक्तः स भीढकानानाय्य तैः प्रहर्तमारभत । तदा राड्या अपरिहास 'मा उदकैः' इति विज्ञप्ती लज्जयाऽवतः म संस्कृतं जिज्ञासुस्तदर्थं पण्डितानप्रार्थयत् । गुणाढ्येन हि षभिर्वर्षेः प्रलिज्ञातं सर्ववर्मणा षड्भिर्मासैरेष्ठ कृत्वा अर्दाशतम् । ततश्च गुणाढवाः पूर्वप्रतिज्ञानुसारं राजद्वारे संस्कृतं प्राकृतश्च भाषामुत्सृज्य मीमीं विन्ध्याटवीं प्रविवेश । तत्र स काणभूतेः कथां श्रुत्वा तां पिशाचभाषायां जग्रन्थेति ।

गुणाढ्यस्य बृहत्कथां हि काश्मीराः पद्यमयीं मन्यन्ते दाक्षिणात्यास्तु गद्यमयीम् । वस्तुत एषा गद्यपद्योभयमयी आसीदिति प्रतीयते । ग्रन्थोऽयं बहुभिर्बहुधा प्रशस्तः । ग्रन्थस्यास्य त्रीणि संस्करणानि लभ्यन्ते-बृहत्कथाश्लोकसङ्ग्रहः, बृहत्कथामञ्जरी, कथासरित्सागरश्च ।

बृहत्कथाश्लोकसङ्ग्रहः[सम्पादयतु]

नेपालदेशीयेन बुधस्वामिना वैक्रमाष्टमशतकमभितः बृहत्कथाया बृहत्कथाश्लोकसङ्ग्रहनाम्ना सारसंक्षेपः कृतः । ग्रन्थेऽस्मिन् २८ सर्गाः ४५३९ श्लोकाश्च सन्ति । ग्रन्थोऽयमपूर्ण एव दृश्यते । समुपलब्धेनांशेनानुमीयते यदत्र न्यूनतममपि पञ्चविंशतिसहस्रश्लोका आसन्निति । ग्रन्थोंऽयं ग्रन्थान्तरापेक्षया मूलस्यं नैकटचं भजते । अत्र हि बृहत्कथाया सारः पद्ये समुद्धृतः ।।

बृहत्कथामञ्जरी[सम्पादयतु]

काश्मीरेण हि महाकविना क्षेमेन्द्रेण १०९४ मितवैक्रमाब्दे बृहत्कथायाः सारमादाय बृहत्कथामञ्जरी प्रणीता । अत्र हि १९ अध्यायाः ७५०० सङ्ख्याकश्लोकाः सन्ति । बृहत्कथांश्लोकसङ्ग्रहापेक्षयाऽत्र काश्चिन्नवीना अपि कथाः संयोजित दश्यन्ते। ग्रेन्थोऽयं नितान्तं संक्षिप्तत्वेन दुर्बोधो लक्ष्यते । मूलग्रन्थे प्रधानपात्रत्वेन गृहीतो नरवाहनोऽत्र गौणत्वं भाजिनोऽस्ति ।

कथासरित्सागरः[सम्पादयतु]

काश्मीरेणैव रामाख्यस्य पुत्रेण सोनदेवेन ११३० मितवैकमास्टभ्यणे बृहत्कथाया एव साररूपेण कथासरित्सागराख्यों ग्रन्थः प्रणीतोऽस्ति । अत्र हि अष्टादश लम्बकाः १२४ तरङ्गा द्वाविंशतिसहस्रश्लोकाश्च सन्ति । नान्थोऽयं बृहत्कथामञ्जर्यपेक्षया सफलो दृश्यते स्वप्रयासे ।

अवदानशतकम्[सम्पादयतु]

बौद्धसम्प्रदायानुसारिणि ग्रन्थेऽस्मिन् सन्ति शतमिता प्राचीनकथाः समुपस्थापिताः। ग्रन्थोऽयं वीरगाथासङ्कलनमेवे । वैक्रमतृतीयशतकोत्तराद्ध आसां कथानां चीनीभाषायां रूपान्तरणं कृतमित्यस्य वैक्रम मंभितोऽस्थः प्रणयनमनुमीयते । ग्रन्थस्यास्य प्रणेता नाद्यापि परिचितः।

वक्रमद्वितीयशतक ग्रेन्थमेवामुमनुसृत्य दिव्यावदानं' नाम ग्रन्थो वैक्रमंतृतीय दश्यते यस्य हि वैक्रमचतुर्थशतकपूर्वाद्धं चीनीभाषायां कृतं रूप दृतीयशतके प्रणीत एते उभेऽप्यनुसृत्य क्षेमेन्द्रेण ११०७ मितवैक्रमाब्दे अध दै अवदानकल्पलता प्रणीता । अत्र हि १०७ सङ्ख्यककथाः सन्ति ।

जातकमाला[सम्पादयतु]

विक्रमानन्तर ४०० मिताब्दमभित आर्यशुराख्येन विदुषो जातकमाला प्रणीताऽस्ति यत्र हि बोधिसत्त्वसम्बद्धाः षट्त्रिंशत्कथाः सङ्ग्रहिताः सन्ति । अस्यापि ४९१ मितवैक्रमाब्दे चीनीभाषायां रूपान्तरण सञ्जातं दृश्यते । ग्रन्थोऽयं गद्यपद्योभयात्मकः काव्यमयश्च ।

सूत्रालङ्कारः[सम्पादयतु]

जातकानामवदानानाञ्च सङ्ग्रहरूपेण, गद्यपद्योभयात्मकः सूत्रीलङ्कारसंज्ञको ग्रन्थः प्रणीतो दृश्यते । अयमेव कल्पनामण्डितमित्यप्युच्यते । अस्य हि । प्रणेता कुमारलातो मतः ।।

वेतालपञ्चविंशतिका[सम्पादयतु]

वेतालपञ्चविंशतिकाया द्वे संस्करणे लभ्यते, एक वैक्रमद्वादशशतकोत्तरार्द्धभवेन शिवदासेन सगृहीतं गद्यपद्योभयात्मक, द्वितीयं तु ज़म्भलदत्ताख्येन सङ्गृहीतं केवलं. गद्यात्मकम् । एतदतिरिक्तं वल्लभदेवाख्येनास्य संक्षिप्तं संस्करणमपि अथितम् । कस्याप्यज्ञातस्य गद्यमयं संस्करणमष्यस्यं लभ्यते । अत्र हि सन्ति २५ संख्यकाः कथाः । इमाश्च कथाः प्रतिष्ठाननरेशं विक्रमसेनस्य पुत्रं त्रिविक्रमसेनं कश्चिद्वेतांतीः श्रावयति । एता एवं कथा बृहत्कथामञ्जरीकथासरित्सागरादावपि लभ्यन्ते।

सिंहासनद्वात्रशिका[सम्पादयतु]

ग्रन्थोऽयमपि विक्रमादित्यसम्बद्ध एव। अत्र हि द्वात्रिंशकंथाः सन्ति । विक्रमादित्यस्य सिंहासनमारोढुकामं भोजं तत्रस्था द्वात्रिंशत्पुत्तलिंका एकैकं कथाः कथयन्ति। कथाश्चैता विक्रमादित्यसम्बद्धाः सन्ति । अयमेव ग्रन्थः द्वात्रिंशत्पुत्तलिका वा विक्रमार्कचरितमिति नाम्नाऽपि प्रसिद्धोऽस्ति। वैक्रमचतुर्दशशतकोत्तरार्द्ध क्षेमङ्करनाम्नां केनाऽपि जैनलेखकेनास्य गद्यरूपान्तरं प्रस्तुतम् । बङ्गेषु हि वररुचिप्रणीतत्वेन ख्यातमस्यान्यरूपेमपि लभ्यते । अस्य हि सर्वास्वेव भारतीयभाषासु रूपान्तरं लभ्यत इत्यस्य लोकप्रियत्वे प्रमाणम् ।

एतदतिरिक्तं हि अनन्तप्रणीणं वीरचरितं, अज्ञातकर्तृको विक्रमोदयः, पञ्चदण्डच्छत्रप्रबन्धः, शिवदासस्य शालिवाहनकथा, आनन्दस्य माधवानलकथा च विक्रमविक्रमगायनपंराः कथग्रन्थः । .

शुकसप्ततिः[सम्पादयतु]

अज्ञातकर्तृकप्रणयनकाले शुकसप्ततिग्रन्थे संन्ति सप्ततिसङ्ख्यकाः कथाः प्राचीनाः । दुष्कर्मपरायण स्वामिनीं ततो निरोद्धुकामः शुकः प्रतिरात्रमेकैकां कथां श्रावयति सप्ततिनिशापर्यन्तमेव । ग्रन्थमिमं हेमचन्द्रोऽपि (११४५-१२२९ वै०) जानाति । तेन ह्यस्य प्रणयनं न्यूनतममपि वैक्रमदशमशतके सम्पन्नं दृश्यते । अस्य वैक्रमचतुर्दशशतकोत्तरार्द्ध फारसीभाषायां सम्पन्नं रूपान्तरं लभ्यते । तथैव बल्लालकवेः भोजप्रबन्धोऽपि प्रसङ्गेऽस्मिन्नपि स्मरणीयः । अत्र हि भोजस्योत्कर्ष वणतमस्ति । शिवदासस्य कथार्णवे पञ्चत्रिशस्मिताः कथाः सन्ति । वीरकवेः ( १५०८ वै० ) कथाकौतुकं पद्यात्मकं पञ्चदशाध्यायेषु विभक्तमस्ति । विद्यापतिंकृता पुरुषपरीक्षा च प्रकरणेऽस्मिन्नेकोऽपरः प्रयासः । इत्थं हि भारतीयमाख्यानसाहित्यं सुनिबद्धं सुसङ्गठितञ्च दृश्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. १॥२२॥१,२
  2. १४०
  3. १४१
  4. २८७
  5. २८५
  6. २७६
"https://sa.wikipedia.org/w/index.php?title=आख्यानसाहित्यम्&oldid=456016" इत्यस्माद् प्रतिप्राप्तम्