आनन्दतीर्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

अानन्दतीर्थ एव ‘मध्व' इत्येतेन नाम्ना ख्यातिं ययौ । अयं मध्वः स एव यो द्वैतवादं प्रवर्तयामास । एष बहून् ग्रन्थान् अजग्रन्थत्। कतिपयांश्च वैदिकान् मन्त्रानपि व्याचख्यौ । व्याख्येयं छन्दोबद्धाऽस्ति ।

कालः[सम्पादयतु]

आनन्दतीर्थस्य आविर्भावकालः विक्रमस्य पञ्चपञ्चाशदधिकद्वादशाब्दतः विक्रमस्य पञ्चत्रिंशदधिकत्रयोदशाब्दपर्यन्तं स्वीकर्तुं शक्यते । श्रूयते चानन्दतीर्थोऽयम् अशीतिवर्षपर्यन्तम् ऐहिकसुखं भुक्त्वा परलोकं ययौ ।

ऋग्वेदनस्य भाष्यम्[सम्पादयतु]

ऋग्वेदप्रथममण्डलस्य कतिपयानां मन्त्राणाम् उपर्येवेयं व्याख्याऽस्ति । अस्मिन् सन्दर्भे राघवेन्द्रयतेः कथनमिदं पर्याप्तरूपेण प्रमाणितोऽस्ति - “ऋक्शाखागतैकोत्तर-सहस्रसूक्त-मध्ये कानिचित् चत्वारिशत् सूक्तानि भगवत्पादैः ******** व्याख्यातानि । इति' श्रीमद्भगवद्गीतायाम् आत्मविषये श्रीकृष्णस्य कथनमिदमस्ति — ‘वेदैश्च सर्वेरहमेव वेद्यः' अर्थात् सर्वे वेदाः मदीयैव प्रतिपादनं कुर्वन्ति । स्वभाष्यारम्भे आनन्दतीर्थेन एवोक्तम्—

'स पूर्णत्वात् पुमान् नाम पौरुषे सूक्त ईरितः ।

स एवाखिलवेदार्थः सर्वशास्त्रार्थ एव च ॥'

अर्थात् नारायणः पूर्णपुरुषोऽस्ति । अतः पुरुषसूक्ते-‘सहस्रशीर्षा पुरुषः' इत्यादौ ऋचि ‘स एव' पुरुषपदेन अभिहितोऽस्ति । समस्तवेदानां शास्त्राणाश्चाभिप्रायः तस्यैव पूर्णपुरुषस्य प्रतिपादनमेवाऽस्ति । अनया दृष्ट्यैव वैष्णवाचार्येणानन्दतीर्थेन वैदिकऋचामर्थः कृतः । जयतीर्थस्य कथनानुसारेण भाष्येऽस्मिन् अधिभौतिकाधिदैविकयोः अर्थस्यातिरिक्तः अाध्यात्मिकार्थस्याऽपि प्रतिपादनमस्ति- ‘ऋगर्थश्च त्रिविधो भवति - एकस्तावत् प्रसिद्धाग्निरूपः, अपरस्तदनन्तर्गतेश्वरलक्षणः, अन्योऽध्यात्मरूपः, तत्त्रितयपरञ्चेदं भाष्यम् ॥'

विलक्षणमिदम् ऋग्वेदस्य माध्वभाष्यम् । द्वैतवादिषु प्रसिद्धम् अस्ति भाष्यमिदम् । अस्य मध्वभाष्यस्य रचनाकालात्त्रिंशद्वर्षाभ्यन्तरे एव प्रसिद्धमाध्वाचार्येण जयतीर्थेन अस्य टीका कृतेति । अस्याः टीकायाः विवृत्तिः १७१८ विक्रमाब्दे नरसिंहेन लिखितेति ।

नारायणेन उल्लेखः[सम्पादयतु]

नारायणेन अपि अपराविवृत्तिः 'भावरत्नप्रकाशिका'-नाम्ना लिखिताऽस्ति । नारायणस्तु वैदिकसाहित्यस्य विद्वान् प्रतीतो भवति ।

नारायणपण्डिताचार्यैः उच्यते,
यद्दिनं मध्वराजस्य कतासल्लापवर्जितम्।
तद्दिनं दुर्दिनं मन्ये मेघच्छन्नं न दुर्दिनम्॥ इति॥

 सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आनन्दतीर्थः&oldid=441047" इत्यस्माद् पुनः प्राप्तिः