उपनिषत्सु योगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उपनिषत्सु योगः पतञ्जलियोगसूत्रात् किञ्चित् भिन्नतया वर्णितः अस्ति। मनुष्यस्य जीवनं जडस्य चैतन्यस्य च सम्मिश्रणमेव अस्ति। जडतत्त्वेन सह चेतनतत्त्वस्य आबन्धनत्वात् चेतनः आत्मानं विस्मृत्य जडस्वरूपे एव समाहितः भवति। अथ मानवचैतन्यं इन्द्रियाणां मनसा च वशीकृत्य बाह्यलोके प्रत्यभिज्ञानं प्राप्तुं प्रयतते। तत् चैतन्यस्य बहिर्मुखं रूपम् अस्ति। तत् चैतन्यं जीवनपर्यन्तं भोगान्वेषणे सक्रियं तिष्ठति, परन्तु कदाऽपि न तृप्तं भवति। तत् अस्थायि सुखं प्राप्नुयात् किन्तु तस्य कृते स्थायि सुखं दुर्लभं भवति। अस्मिन् मार्गे अग्रे गच्छन् सः अवगच्छति यत् अस्मिन् मार्गे सुखं नास्ति । तदा सः स्वातन्त्र्यस्य आवश्यकताम् अनुभवति। एषा स्वातन्त्र्यकामना तस्य अन्तर्मुखि-अवस्थायै साहाय्यं करोति । अनेन सुविचारेण तत् चैतन्यं शुद्धरूपेण सततं परिणमति। अन्ते तत् यदा पूर्णतया जागृतं, बोधितं च भवति, तदा तत् इन्द्रियाणां, मनसः च वशीकरणात् आत्मानं मुक्तं कर्तुम् इच्छति, तदर्थं च प्रयत्नान् कर्तुं आरभते। अस्मिन् मार्गे यदा सः जीवात्मा स्वस्य यथार्थं स्वरूपं जानाति, तदा सर्वे भेदाः, सर्वे विघ्नाः, सर्वाः समस्याः, सर्वाः अपूर्णताः च विलुप्ताः भवन्ति। अविच्छिन्नजगदा सह एकीभूत्वा परमानन्दमयः भवति ।

उपनिषदां सारः अपि अस्ति यत्, मानवीयं चैतन्यं स्वस्य शुद्धं रूपं स्वस्य ब्रह्मरूपं प्राप्नुयात्। उपनिषदश्च वेदान्त इति वेदान्तभाग इत्यर्थः । उपनिषदः अर्थः उप समीपं निषीदति प्राप्नोति - इति उपनिषद् अर्थात् येन परमसमीपभूतं ब्रह्म ज्ञायते, अथवा आत्मनः सामीप्यप्रदातृ ज्ञानम् उत दर्शनम्। उपनिषदः ऋषयः यदा आत्मानं पश्यन्ति, तदा अहं ब्रह्मास्मि इति अनुभवन्ति। यदा ते एव ऋषयः अन्यान् मनुष्यान् पश्यन्ति, तदा तेषु अपि ब्रह्म दृष्ट्वा वदन्ति – तत्त्वमसि - अर्थात् सः (ईश्वरः), त्वं (जीवः), असि। ईश्वरस्य भागः जीवे एव अस्ति इत्यर्थः । यदा चितिशक्तिः कषायमुक्ता भवति, तदा तस्याः आत्मा परमशक्तौ विलीयते। यावद् आत्मा बन्धे तिष्ठति, तावत् जीवात्मत्वेन तिष्ठति, बन्धनविमुक्तौ परमात्मा भवति। अतः यदा आत्मा शुद्धः प्रबुद्धः मुक्तश्च भवति, तदा परमेण सह विलीयते। अत एव उक्तमस्ति यत्, तत् तत्त्वम् उत एषा परमा सत्ता एव अस्माकम् आत्मा अस्ति इति। उपनिषद्भिः मनुष्येषु ब्रह्मचैतन्यं प्रबोधयितुं प्रयत्नः कृतः। यदि एवं भवति तर्हि मनुष्याणां भेदः नाशयितुं शक्यते ।

यदा सर्वे समानब्रह्मरूपाः सन्ति, तर्हि भेदः न भवितुमर्हति। अथ न कश्चित् उच्चः न कश्चित् नीचः, न जातिभेदः, न वर्णभेदः अन्यः प्रकारः वा। आत्मनः स्तरे यदा सर्वे एकाः भवन्ति तदा बाह्यभेदस्य मूल्यं न भवति इति भावः । अज्ञानिने सर्वे भेदाः सन्ति, परन्तु सर्वमपि अविच्छिन्नं ज्ञानिने भवति। इदमपि सत्यमस्ति यत् सत्य-ज्ञान-प्राप्तिः, तस्य सत्यज्ञानस्य अनुभवकरणं, सर्वेभ्यः सरलं न भवति। आम्‌! यः अभेदं प्राप्तवान्, स तत्त्वतः ज्ञानी, स एव पूर्णः अस्ति। उपनिषदां मुख्यविषयः ब्रह्म अर्थात् परमात्मा अस्ति।

श्वेताश्वरोपनिषदि सः अनादिः, महान् च मतः। बृहदारण्यकोपनिषदि विभुः सर्वान्तर्यमी, स्वयंज्योतिः च उक्तः। कथोपनिषदि ध्रुवः अर्थात् अमरः इति मन्यते । अस्मात् स्पष्टं भवति यत्, तत् ब्रह्म सर्वेभ्यः बहुलक्षणेभ्यः भिन्नः अस्ति। उपनिषदां लक्ष्यम् आत्मनं विद्धिः इति अस्ति। ईशावास्योपनिषदि आत्मज्ञानम् एव विद्या उक्ता, शेषं सर्वमपि अविद्या इति मतम् । अज्ञानात् लौकिकसुखानि प्राप्यन्ते चेदपि अलौकिकं वास्तविकं च सुखं केवलं ज्ञानद्वारा एव लभ्यते। एतादृशः पुरुषः सर्वकल्याणेन सह परकल्याणमपि कर्तुं शक्नोति। कथोपनिषदि उक्तं यत् एतत् नित्यं ज्ञानम् अस्ति यत्, आत्मा न जायते न म्रियते, न स्वयम् कस्मात् अपि सृज्यते न कश्चित् तस्मात् सृज्यते। न कस्यचित् कार्यं न कारणम् इत्यर्थः। अजातं नित्यं शाश्वतं प्राचीनं च अर्थात् क्षयवृद्धिरहितम् अस्ति तत् तत्त्वम्। शरीरस्य विनाशेऽपि न नश्यति । न केनचित् हतः अर्थात् अमरः। अपि च अशरीरः स आत्मा। अत एव नित्यः अचलः च । शरीरम् आत्मनः गतेः साधनम् अस्ति, एतस्य उपयोगकर्ता एतस्मात् भिन्नः अस्ति।

तस्मादात्मतत्त्वं प्राप्तुं तस्य अस्तित्वस्य दृढनिश्चयः आवश्यकः, ततश्च तद्भावेन सः प्राप्तव्यः। प्रश्नोपनिषदि तस्य ईश्वरस्य द्वितीयं रूपं ऊ स्वीकृतम् अस्ति।  अत एव परब्रह्म इति। तस्य प्रत्यक्षं विराट्-स्वरूपम् अपरब्रह्म अस्ति। ॐ कारस्य जपः, स्मरणं, चिन्तनं कृत्वा तस्य माध्यमेन स्वस्य इष्टस्य अनुष्ठानस्य विज्ञानसम्पन्नः पुरुषः तं प्राप्नोति। अतः तत् आत्मातत्त्वं, तत् ब्रह्म ज्ञातुं च अनेकाः पद्धतयः भवितुम् अर्हन्ति, परन्तु ॐ माध्यमेन तत् ज्ञातुं सुलभं दृश्यते। =विभिन्नोपनिषत्सु योगः उपनिषत्सु योगविषये विकीर्णविमर्शाः सन्ति, यस्य परमं लक्ष्यं परमब्रह्मस्य साक्षात्कारः, मोक्षप्राप्तिः च वर्तते। अतः विभिन्नोपनिषदः न्यूनाधिकसादृश्यं गृहीत्वा स्वदृष्टिकोणात् योगस्य व्याख्यां कुर्वन्ति। समुद्रात् मौतिक-प्रापणं सुलभं कार्यं न भवति, तथापि कासुचित् प्रमुखासु उपनिषत्सु योगसम्बद्धानां चर्चानां सारांशं दातुं प्रयत्नः कृतः अस्ति। बृहदारण्यकपनिषदि उक्तं यत् आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः – आत्मा द्रष्टव्यः श्रोतव्यः ध्यातव्यः निदिध्यासितव्यः च। योगतत्त्वोपनिषदि ज्ञानं योगः च मोक्षप्राप्त्यर्थं आवश्यकं मन्यते । योगशिक्षोपनिषदि उक्तमस्ति यत् –

योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः ।

योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि ॥ १३॥ [१]  

योगं विना ज्ञानं ध्रुव-मोक्षदं न भवितुम् अर्हति, तथैव केवलं ज्ञानं विना योगः अपि मोक्षं दातुं असमर्थः भवति। योगस्य चत्वारः प्रकाराः निर्दिष्टाः सन्ति।  मन्त्रयोगः, लययोगः, हठयोगः, राजयोगः च। एतदतिरिक्तम् अष्टाङ्गयोगस्य विस्तृतं वर्णनं वर्तते । योगशिखोपनिषदि उक्तं यत् मन्त्रः, लयः, हठः, राजयोगः च यथाक्रमेण चतस्रः भूमिकाः सन्ति इति। चतुर्णां योगः एव चतुर्विधयोगः उच्यते, यः महायोगः इति कथ्यते। राज-वालुकायोः संयोगः राजयोगः इति कथ्यते। प्राणापनयोः समत्वं योगचतुष्टयम् इति कथ्यते। अमृतबिन्दोपनिषदि योगस्य षट्भागानां वर्णनं भवति – प्रत्याहारः, ध्यानं, प्राणायामः, धारणा, तर्कः, समाधियोगः च । एषा उपनिषद् कथयति यत्, विषयासक्तं मनः बन्धनहेतु, निर्विषयं मनः च मुक्तिहेतु भवति इति। आसनं, प्राणायामः, प्रत्याहारः, धरणा, ध्यानं, समाधिः च इत्यादीनां क्षुरिकोपनिषदि वर्णनं प्राप्यते। तेजोबिन्दूपनिषदि यमस्य, नियमस्य, त्यागस्य, मौनस्य, देशस्य, कालस्य, आसनस्य, मूलबन्धस्य, देहसाम्यस्य, दृक्स्थितेः, प्राणसंयमस्य, प्रत्याहारस्य, धारणायाः, आत्मध्यानस्य, समाधेः च वर्णनं कृतम् अस्ति । यमविषये उक्तमस्ति यत्, सर्वं ब्रह्म एव अस्ति, अनेन ज्ञानेन एव इन्द्रियाणां निरोधः एव समः अस्ति। अतः एतस्यैव अभ्यासः कर्तव्यः। कठोपनिषद् कथयति –

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्‌।

अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥[२]

इन्द्रियाणां स्थिरप्रतीतिः योग इत्यर्थः।  

अनेन साधनेन मुमुक्षुः अमत्तः भवति, तस्य च योगः इष्टोत्पादकः, अनिष्टनिवारकः च भवति। त्रिशिखब्राह्मणोपनिषदि कर्मयोगस्य ज्ञानयोगस्य च वर्णनम् अस्ति। विहितकर्मसु एतस्याः बुद्ध्याः विद्यता एव कर्तव्यकर्म अस्ति। मनसः एतादृशं नित्यबन्धनं योगः अस्ति, श्रेयसि चित्तस्य सर्वदा बन्धनं ज्ञानयोगः अस्ति, यः सर्वसिद्धिं, मङ्गलं च प्रयच्छति। अष्टाङ्गयोगोऽपि अस्मिन् उपनिषदि वर्णितः अस्ति। जाबालदर्शनोपनिषद् अष्टांगयोगस्य किञ्चित् भिन्नं वर्णनं करोति। अतः एतयोः उपनिषदोः योगाङ्गाष्टौ उल्लिखितौ, तयोः संक्षेपेण वर्णनं कृतमस्ति।

यमः[सम्पादयतु]

उपनिषत्सु यमानां सङ्ख्या नव इति उल्लिखिता अस्ति – अहिंसा, अस्तेयः, ब्रह्मचर्यं, दया, आर्जवः (सरलता), क्षमा, धृतिः, परिमित-आहारः, शौचः च। [३] [४]  

अहिंसा[सम्पादयतु]

शरीरेण, मनसा, वाक्भिः च कस्यचित् किमपि प्रकारस्य पीडनं, तस्य जीवनस्य विच्छेदनं, वास्तविकहिंसा मन्यते। एतस्मात् परं हिंसा न विद्यते । अतः आत्मा सर्वत्र व्याप्तः। तस्य शस्त्रादिना छेदनं, हस्तेन ग्रहणञ्च न भवितुम् अर्हति। एतत्प्रकारा बुद्धिः श्रेष्ठा अहिंसायुक्ता इति मन्यते ।

सत्यम्[सम्पादयतु]

नेत्रादिभिः इन्द्रियैः दृष्ट-श्रुत-घ्राण-अवगतानां विषयाणां तद्रूपेण वाचा उत चिह्नद्वारा प्रकटनं सत्यं भवति। अस्मात् परं सत्यप्रकारं नास्ति । सर्वमपि सत्यरूपः परमेश्वरः एव अस्ति। अतः ईश्वरं विना अन्यत् सत्यं नास्ति, एवं चिन्तनं श्रेष्ठं सत्यं मन्यते।

अस्तेयः[सम्पादयतु]

अपरस्य रत्नसुवर्णादिकं प्रति मनसः अलोभ एव अस्तेयः। मनसि सर्वदा लोभस्य अनाश्रयत्वम् अस्तेयत्वम्। एतदतिरिक्तं जगतः सर्वेभ्यः व्यवहारेभ्यः अनात्म-बुद्धिं धारयित्वा तेभ्यः आत्मानः दूरे स्थापनस्य भावः अपि अस्तेयः कथ्यते।

ब्रह्मचर्यम्[सम्पादयतु]

मनोवाच्छरीरेभ्यः कामवासनायाः त्यागः अथवा कामक्रोधादि-सन्तापस्य जनकस्य मनसः सर्वदा पमत्मात्नः चिन्तने लयः हि सर्वोत्तमं ब्रह्मचर्यम् उच्यते।

दया[सम्पादयतु]

सर्वान् जीवान् स्वात्मत्वेन मत्वा मनसा, वाचा, कर्मणा च तेषां प्रति आत्मीयभावं कृत्वा तेषां दुःखानि दूरीकर्तुं प्रयत्नः करणीयः।

आर्जवः[सम्पादयतु]

सरलता एव आर्जवः उच्यते। अत एव सर्वेषां समानरूपेण दर्शनम् एव सरलता उच्यते।

धृति[सम्पादयतु]

धृतिः अर्थात् धैर्यम्। अतः आत्मतत्त्वं सर्वदा स्वीकरणं, न तत् तत्त्वं स्वस्मात् भिन्नं स्वीकरणम्, अस्मात् भावात् अविचलता ही धृतिः भवति।

परिमित-आहारः[सम्पादयतु]

योगमार्गानुसारम् आहारग्रहणम् एव परिमित-आहारः उच्यते।

शौचम्[सम्पादयतु]

मृदादिभ्यः शरीरस्य मलस्य निष्कासनं,  सद्भावेन मनसश्च शुद्धिः शौचः उच्यते। एतदतिरिक्तम् अहं विशुद्धः आत्मा अस्मि – इति विशुद्धः शौचः भवति। एतेषां यमानाम् अनुसरणं साधनामार्गं सुलभं करोति। उपनिषदः कथयन्ति यत्, ज्ञानरूपामृतेन तृप्ताय, कृतार्थाय च योगिने किमपि कर्तव्यं न विद्यते। अत एव साधकः सर्वविधप्रयत्नान् कृत्वा अहिंसादि-साधनैः अनुभवात्मक-ज्ञानं प्राप्य आत्मानम् अविनाशिनं ब्रह्मरूपं स्वीकुर्यात्। अस्मात् स्पष्टं भवति यत् वास्तविकं सत्यं व्यवहारे गृहीत्वा एव साधयितुं शक्यते इति।

नियमः[सम्पादयतु]

उपनिषदः तान् नियमान् विधीयन्ते येषु तपः, सन्तोषः, आस्तिकता, दानम्, ईश्वरपूजा, सिद्धान्तश्रवणम्, लज्जा, मतिः, (वैदिकशिक्षां प्रति निरपेक्षभक्तिः) जपः च सन्ति।

तपः[सम्पादयतु]

तपः इत्यर्थः तपनम् । उपवासद्वारा शरीरस्य दुग्धविच्छेदनं, मोक्ष-आत्म-बन्धन-आदि-ध्यानं तपः ।

सन्तोषः[सम्पादयतु]

कर्मानुगुणं देवेच्छया वा यत्किमपि लभते तेषु सर्वदा प्रसन्नता भवेत् इत्येव सतोषः उच्यते। एतदतिरिक्तं सर्वत्र अनासक्तिः, ब्रह्मादिदेवलोकसुखेभ्यः वैराग्यं च तस्मिन् स्वाभाविकप्रसन्नता एव उत्तमसन्तोषः मन्यते।

आस्तिकता[सम्पादयतु]

वेदानुसारं धर्मे दृढविश्वासः आसिक्ता उच्यते।

दानम्[सम्पादयतु]

दुःखे, सन्तापे, क्लेशे च पतिताय वेदज्ञाय आवश्यकतानुसारं साहाय्यम् एव दानम् उच्यते।

ईश्वरपूजना[सम्पादयतु]

रागादिभ्यः शुद्धं हृदयम्, असत्यादिभ्यः अदूषिता वाणी, हिंसा-रहितं कर्म च ईश्वर-पूजनम् उच्यते।

सिद्धान्तश्रवणम्[सम्पादयतु]

आनन्दरूपः परमेश्वरस्वरूपः एव आत्मा अस्ति इति सिद्धान्तस्य पौनःपुन्येन श्रवणमेव सिद्धान्तश्रवणम् अस्ति।

लज्जा[सम्पादयतु]

आत्मनः गुणान् पुनः पुनः श्रुत्वा वैदिक-लौकिक-मार्गयोः कृते उक्तानां निन्दितमार्गाणां क्रियान्वये सङ्कोचः एव लज्जा उच्यते। मतिः – सम्पूर्ण-वैदिक-उपदेशेषु श्रद्धा एव मतिः उच्यते। जपः – वेदोक्तरीत्या पौनःपुन्येन मन्त्रपाठः एव जपः उच्यते। एतदतिरिक्तं अन्येषु धर्मग्रन्थेषु मनसः प्रवृत्तीनां निरन्तरता अपि जपस्य सूचकं भवति। एतदतिरिक्तं मनसः धर्मग्रन्थेषु पुनः पुनः चिन्तनम् अपि जपः उच्यते। वाचिकजपात् मानसिकजपः श्रेष्ठतरः इति मन्यते ।

व्रतम्[सम्पादयतु]

विशेषपर्वणि उपवासः अथवा कस्याऽपि नियमस्य पालनं व्रतं भवति। समाधि-प्राप्त्यर्थं नियमानाम् अनुसरणम् अपि महत्त्वपूर्णां भूमिकां निर्वहति इति स्पष्टम् ।

आसन[सम्पादयतु]

उपनिषत्सु नव आसनानि वर्णितानि सन्ति - स्वस्तिकासनम्, गोमुखासनम्, पद्मासनम्, वीरासनम्, सिंहासनम्, भद्रासनम्, मुक्तासनम्, मयूरासनम्, सुखासनम् एतेषाम् आसनानां विधिः, लाभः च उपनिषत्सु निर्दिष्टः अस्ति। त्रिशिखिबाह्मणोपनिषदि एतेषाम् आसनानाम् अतिरिक्तानाम् आसनानाम् अपि वर्णनं प्राप्यते। यथा - योगासनम् बद्धपद्मासनम्, कुक्कुटासनम्, उत्तानकुर्मकम्, धनुरासनम् सिद्धासनम्, मत्स्यासनम् पश्चिमोत्तनासनम्

प्राणायामः[सम्पादयतु]

प्रणवमयाय प्राणायामाय अकारे पुरकस्य, उकारे कुम्भकस्य, मकरे च रेचकस्य प्रावधानं वर्णितम् अस्ति। प्राणायामस्य विधेः वर्णनकाले उक्तम् अस्ति यत्, इडानाड्याः प्राणवायोः शनैः शनैः पूरकेण उदरपूर्णतां यावत् पूरयित्वा षोडशमात्राभ्यः विशिष्टस्य अकारस्य चिन्तनं करणीयं भवति। तदनन्तरं किञ्चित्कालं उदरे पूरितं वायुं धारयित्वा चतुःषष्टिमात्राः यावत् विशिष्टरूपस्य उकारस्य चिन्तनं करणीयम् । अथ द्वात्रिंशत्मात्राः यावत् विशिष्टस्य मकारस्य चिन्तनं कृत्वा पिङ्गलानाडीद्वारा शनैः शनैः रेचकं कर्तव्यं भवति। ततः स एव क्रमः पिङ्गलानाडीतः पुनः पुनः कर्तव्यः। षड्मासान् यावत् एतेषाम् अभ्यासेन नरः बुद्धिमान् भवति। एकवर्षपर्यन्तं नित्यम् अभ्यासेन ब्रह्मणः साक्षात्कारः भवति। यः जनः योगाभ्यासं कुर्वन् सदा धर्मानुसरणं कर्तुं सज्जः भवति, सः प्राणायामद्वारा एव मुक्तः भवति। त्रिशिखिब्राह्मणोपनिषदि कुम्भकस्य नाडीशोधनस्य च चर्चा कृता अस्ति। प्राणायामस्य तिस्रः श्रेण्यः वर्णिताः । प्रस्वेद-जनकः प्राणायामः अधमः प्राणायामः उक्तः अस्ति। यदि प्राणायामकाले शरीरे स्पन्दनं भवति, तर्हि मध्यमश्रेणीप्राणायामः भवति। यदि प्राणायामं कुर्वन् शरीरम् उत्तिष्ठति इव दृश्यते, तर्हि उच्चश्रेण्याः प्राणायामः कथ्यते। अतः प्राणायामस्य अभ्यासकाले यावत् एनाम् अवस्थां न प्राप्नोति, तावत् अनुवर्तनीयः भवति। उक्तदशायाः प्राप्तौ विद्वान् सुखी भवति। प्राणायामः चित्तं शुद्धं करोति, ततः शुद्धे चित्ते शुद्धात्मतत्त्वस्य साक्षात्कारः भवति। प्राणायामेन रोगचिकित्सा अपि सम्भवते। उभयोः सन्ध्ययोः अथवा प्रातः, मध्याह्ने च वायुना उदरं पूरयतु, नासिकयाः अग्रभागे, ऩाभ्याः मध्यभागे, पादयोः अङ्गुष्ठे च तं वायुं धारयित्वा सर्वेभ्यः रोगेभ्यः मुक्तिः लभते। पादयोः अङ्गुष्ठे वायुं धारयित्वा शरीरे लाघवः अनुभूयते। जिह्वातः वायुम् आकृष्य श्रान्ततायाः, ज्लवनाच्च मुक्तिः लभते। तदतिरिक्तं जिह्वामूलभागे, अज्ञाचक्रे, नेत्रयोः, कर्णयोः, नाभौ, शिरादिषु च वायोः धारणेन तत्स्थानसम्बद्धाः रोगाः नश्यन्ते। तथैव वयोः मूलाधारे धारणेन कुण्डलिनीजागरणं भवति। अनेन अभ्यासेन वायौ आधिपत्यं स्थापयितुं शक्यते। अतः प्राणायामस्य अभ्यासेन सर्वव्याधिभ्यः मुक्तिः भवति । लक्ष्युपनिषदि उक्तं यत् पुरकद्वारा प्रणवस्य विषये विविधप्रकारेण लीनाः योगिनः जीवरूपेण आत्मानं साक्षात्कारं कुर्वन्ति। एतदतिरिक्तं प्राणायामस्य अन्तर्गतं सुषुम्णानाडीषु प्रणवस्य विशुद्धः अनाहतनादः श्रोतुं शक्यते। अस्मात् स्पष्टं भवति यत्, प्राणायामः न केवलं रोगमुक्तिं ददाति, अपि तु शुद्धचेतनात्मनः अपि साक्षात्कारं कारयितुं शक्यते। कुम्भकस्य, नाडीशोधन-प्राणायामस्य च चर्चा त्रिशिखिब्राह्मणोपनिषदि कृता अस्ति।

प्रत्याहारः  [सम्पादयतु]

प्रत्यहारः अर्थात् प्रति + आहारः अर्थात् विपरीत आहारः। इन्द्रियाणां स्वविषयेभ्यः विमुखीकरणं प्रत्याहारः उच्यते। प्रत्याहारस्य अनेकाः प्रकाराः सन्ति । उपनिषदः कथयन्ति यत्, विषयेषु विचर्यमाणानाम् इन्द्रियाणां बलात् निवृत्तेः प्रयत्नः प्रत्याहारः उच्यते। ब्रह्मणि चित्तस्य एकाग्रता प्रत्याहारः उच्यते। स्वस्य सर्वकर्माणां परमेश्वराय समर्पणम् एव प्रत्याहारः उच्यते। निर्द्वन्द्वे, निर्विकल्पे च आत्मनि स्वस्य स्थापनम् एव प्रत्याहारः उच्यते। सारत्वेन वक्तुं शक्यते यत्, इन्द्रियाणां बहिस्तात् अन्तः प्रत्यावर्तनं कृत्वा मोक्षदायिषु आश्रयेषु केन्द्रीकरणम् एव प्रत्याहारः उच्यते। प्रत्याहारं कुर्वतः साधकस्य किमपि दुर्लभं नास्ति अर्थात् सर्वं सुलभं भवति इति प्रत्याहारस्य परिणामाः उक्ताः।  त्रिशिखिब्राह्मणोपनिषदि प्रत्याहारस्य अष्टादश मर्मस्थानानि उक्तानि सन्ति – पादाङ्गुष्ठः, गुल्फः, जङ्घामध्यः, ऊरुमध्यः, ऊरुमूलं, पायुः, हृदयं, लिंगं, देहमध्यः, नाभिः, गल्ककर्पूरः, तालुमूलं, घ्राणमूलं, नेत्रमण्डलं, भ्रूमध्यः, ललाटम्, ऊर्ध्वमूलम्, जानुद्वयं, करमूलं च।

धारणा[सम्पादयतु]

धारणाकरणम्। धारणायाः विधिः निरूपिता अस्ति यत्, पञ्चत्त्तवेन निर्मिते शरीरे क्रमशः बाह्यानां तत्त्वानां धारणा करणीया भवति। यथा – आकाशः, वायुः, अग्निः, जलं, पृथ्वी। ततः हं, पं, रं, वं, लं बीजमन्त्राणाम् उच्चारणं करणीयं भवति। एषा धारणा श्रेष्ठा, सर्वपापेभ्यः मुक्तिप्रदायिनी च उक्ता अस्ति। शरीरे पादात् जानुपर्यन्तं पृथिवीतत्त्वस्य, जानुतः गुदापर्यन्तं जलतत्त्वस्य, गुदायाः हृदयपर्यन्तं अग्नितत्त्वस्य, हृदयात् भ्रूमध्यं यावत् वायोः, भ्रूमध्यात् मस्तिष्कं यावत् आशकस्य च स्थानम् उक्तम् अस्ति। मस्तिष्कस्य भागः आकाशतत्त्वस्य भवति। एतेषु क्रमशः ब्रह्मणः, विष्णोः, शिवस्य च धारणा करणीया भवति। तदतिरिक्तं बोधमयस्य, आनन्दमयस्य, कल्याणस्वरूपस्य च परमात्मनः प्रतिदिनं धारणा करणीया भवति। अनेन सर्वपापेभ्यः मुक्तिः प्राप्यते। त्रिशिखब्राह्मणोपनिषदि पञ्चभौतिकशरीरस्य पञ्चभूतेषु उत पञ्चभूतयुक्तस्य मनसः धारणा एव उक्ता अस्ति, या संसारतारिणी उक्ता अस्ति।

ध्यानम् ­[सम्पादयतु]

एकालम्बने चित्तस्य सघना एकाग्रता एव ध्यानम् उच्यते। ध्यानं लौकिकबन्धननाशकं प्रकीर्तितम् । अहं परब्रह्म परमात्मा इति बुद्धौ निर्णयं कृत्वा निर्विशेषस्य ध्यानं मोक्षप्राप्त्यर्थं सहायकं भवति। ध्यानाभ्यासी ब्रह्मणः विशेषं ज्ञानं लभते इति न संशयः। श्वेताश्वतरोपनिषद् वदति यत्, ॐ कारस्य जपः, तस्य अर्थस्वरूपस्य परमात्मनः ध्यानं करणीयं भवति इति।  परमात्मनः निरन्तरं ध्यानं कुर्वन् यदा साधकः तं जानाति, तदा सर्वे बन्धाः, सर्वे क्लेशाः च विलुप्ताः भवन्ति। शरीरनाशे सति सः स्वर्गलोकस्य सर्वान् ऐश्वर्यात् त्यक्त्वा सर्वथा आप्तकामः अर्थात् पूर्णकामः भवति। यथा –  

ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लैशैर्जन्ममृत्युप्रहाणिः।

तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः॥ [५]

एवं ईश्वरस्य ध्यानेन साधकः पूर्णकामः भवति। त्रिशिखब्राह्मणोपनिषदि परमपरमात्मनः वासुदेवस्य चिन्तनं ध्यानम् उक्तमस्ति। ध्यानस्य रूपद्वयं कथितम् अस्ति। यथा - सगुणं निर्गुणं च।

समाधिः[सम्पादयतु]

उपनिषदः कथयन्ति यत्, परमात्मनः, जीवात्मनः च एकतायाः विषये निश्चियात्मिकाः बुद्ध्याः उदयः एव समाधिः अस्ति। यदा परमात्मा स्वस्य आत्मरूपेण अनुभवः प्राप्यते, तदा सः परमात्मभावं प्राप्नोति। यदा साधकः स्वात्मानं परमात्मरूपं दृष्ट्वा सर्वं जगत् मायायाः विलास-मात्रं मन्यते, तदा परमानन्दं लभते सः। तात्पर्यम् अस्ति यत्, चेतना स्वस्य शुद्धं स्वरूपं प्राप्नोति चेत् सा मायायाः सर्वेभ्यः भ्रमेभ्यः विच्छन्ना भवति। तदा चेतना सर्वभ्यः बन्धेभ्यः मुक्ता भूत्वा स्वतन्त्रा भवति। स्वस्य स्वातन्त्र्य-स्वरूपे सा चेतना शुद्धा, बुद्धा, मुक्ता च भवति। सा अवस्था एव समाधिः अस्ति।  

त्रिशिखब्राह्मणोपनिषदि उक्तमस्ति यत्, अहमेव परब्रह्म अस्मि, अहमे ब्रह्म अस्मि इति सम्यक् स्थितिं विद्धि, यस्यां वृत्तयः न भवन्ति। अनेन स्पष्टं भवति यत्, उपनिषत्सु आत्मत्त्वं, परमात्मतत्त्वम् उत ब्रह्मतत्त्वं सर्वोपरि स्वीकृतम् अस्ति। तस्य प्राप्तिः साधकस्य लक्ष्यं स्वीकृतम् अस्ति। एतस्य लक्ष्यस्य प्राप्त्यर्थं योगस्य विविधानि अङ्गानि व्याख्यातानि, विहितानि च सन्ति। अतः साधकः यथा यथा योगस्य उच्चतरशिखरं प्राप्तुं योगाङ्गानां यावदधिकम् उपयोगं करोति, तावदधिकं सः स्वस्य रूपस्य समीपं प्राप्स्यति।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. योगशिक्षोपनिषद्, श्लो. १३
  2. कठोपनिषद्, अध्यायः २, वल्ली ३, श्लोकः ११
  3. https://www.yaasyc.in/2017/10/blog-post_16.html
  4. "संग्रह प्रतिलिपि". Archived from the original on 2022-12-13. आह्रियत 2022-12-13. 
  5. श्वेताश्वतरोपनिषद्, प्रथमोऽध्यायः, श्लो. ११
"https://sa.wikipedia.org/w/index.php?title=उपनिषत्सु_योगः&oldid=485232" इत्यस्माद् प्रतिप्राप्तम्