योगदर्शनस्य इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगदर्शनस्य इतिहासः विवधानां शास्त्राणां गवेषणाय प्रेरयति। योगशब्दस्य व्युत्पत्तिः अर्थश्च विविधग्रन्थेषु उपलभ्यते। योगस्य, परिभाषाः, तस्य प्रकाराः च विविधेषु पुस्तकेषु विभिन्नतया विद्यन्ते। योगस्य स्रोतः, योगस्य आदिप्रणेता च ज्ञातव्यः भवति। अतः वेदेषु योगस्य, उपनिषत्सु योगस्य, गीतायां योगस्य सन्दर्भा अवलोकनीयाः भवन्ति।

भारते प्राचीनकालात् एव योग-पद्धतयः प्रचलिताः सन्ति। तासां दार्शनिकाः, धार्मिक्यः च परम्पराः विभिन्नाः सन्ति। वर्तमानयुगे अनेकाभ्यः एताभ्यः परम्पराभ्यः अंशतः उत पूर्णतः सहमताः भवेयुः उत न भवेयुः, परन्तु तेषां व्यवहारिक-उपयोगितायाः निर्विवादरूपेण स्वीकारः भवति। उपयोगितायाः विद्धेः कारणेन वैज्ञानिकानां, जनसामान्यानां च एतस्मिन् विषये रुचिः वर्ध्यमाना अस्ति। अद्य एकत्र व्यक्तेः समग्र-व्यक्तित्वस्य विकासस्य अपेक्षा क्रियते, अपरत्र तु तस्मिन् सन्दर्भे कथ्यते यत्, योगस्य समग्र-अभ्यासात् व्यक्तेः शारीरिकस्य, मानसिकस्य, भावनात्मकस्य च विकासस्य कृते अत्यधिका सहायता लभ्यते। भारतवर्षे योगस्य उद्भवः सहस्रशः वर्षेभ्यः पूर्वम् अभवत्। अत्र आदिकालात् अद्यावता एतस्य न्यूनाधिकः अभ्यासः अनवरतः जायमानः अस्ति। पश्चिमे अमुकेभ्यः दशकेभ्यः पूर्वं यावत् एतस्य योग-विज्ञानस्य किमपि महत्त्वं नासीत्। भौतिकतायाः आधिक्यत्वात् तत्र अनेकाः शारीरिक्यः, मानसिक्यः, सामाजिक्यः च समस्याः उद्भूताः। तासां समाधानाय योगविज्ञानं प्रति जनसामान्यानां, वैज्ञानिकानां च अपि अभिरूचिः वर्धिता अस्ति। वैचारिक-मन्थनः प्रारब्धः यत्, जीवने शान्तिः कथं भवेत्? एतस्य प्रश्नस्य समाधानाय योगस्य उपयोगः आरब्धः। अनुसन्धानानि जातानि सार्थक-परिणामाः च प्राप्ताः, तेषु नवीनाः आशाः दरीदृश्यन्ते। अतः अनुभूयते यत्, जीवने शान्ति-पथः अस्ति - योगः। योगः जीवनविज्ञानम् अपि अस्ति, सः जीवनशैली अपि अस्ति, जीवनस्य च कला अपि। योगविद्या सम्पूर्णं जीवनदर्शनम् अस्ति। योगः एकत्र जीवनस्य आदि-मध्य-अवसानस्य विषये अथेतिज्ञानं प्रयच्छति, अपरत्र तस्य ज्ञानस्य प्राप्त्यै मार्गम् अपि प्रयच्छति। योगस्य उद्देश्यं सर्वाङ्गीणस्य व्यक्तित्वस्य विकासः, संयमिता, शान्तं संतुलितं च जीवनं, स्वस्थसमाजस्य निर्माणं, परमतत्त्वस्य अनुभूतिः च वर्तते।

योगस्य स्वरूपम्[सम्पादयतु]

1. संन्यासि-वेष-धारणमात्रं न, अपि तु समतायाः अभ्यासः एव योगः अस्ति - प्रायः दृश्यते यत्, योगिनः नाम श्रुत्वैव सामान्यतः नारङ्गवस्त्रधारी कश्चन सन्यासी परिकल्प्यते, यः जटाधारी, महात्मा उत धनत्यक्तः दृश्यते। वस्तुतः कस्यापि वेशस्य योगेन सह सम्बन्धः नास्ति। योगस्य अभ्यासाय निश्चित-वस्त्रस्य आवश्यकतना नास्ति। एषः वेषः जीवनस्य समत्वभावस्य अभ्यासं सङ्केतयति। समत्वं योग उच्यते। [१]

2. जीवनात् पलायनं न, अपि तु जीवन-पद्धतेः कला अस्ति – योगजीवनस्य वास्तविकताभ्यः पलायनं नास्ति। एतस्य जीवनस्य समग्रार्हतानां विकासद्वारा सन्तुलितस्य अथवा संयमित-जीवनस्य यापनस्य मार्गः अस्ति।

3. अकर्मण्यता नास्ति, परमपुरुषार्थः अस्ति – कर्त्तव्यानाम् उत दायित्वानां त्यागं कृत्वा केवलं भाग्यवादितायाः, अकर्मण्यतायाः उत पुरुषार्थहीनतायाः अनुसरणं योगः नास्ति। एतस्य अनासक्तस्य जीवनस्य यापनेन सह स्वयस्य परिचयः प्राप्तव्यः अस्ति। स्वस्य क्षमतानां विकासाय परमपुरुषार्थः योगः अस्ति।

4. तामसिकं तपः नास्ति, सात्त्विकी साधना अस्ति – शरीराय व्यर्थतया एव कष्टदानं योगः नास्ति। यथा – होराभ्यः एकपादेन अवस्थानं, श्वसनं निरुध्य भूमौ वायु-जलं विना निवासः, नाडीनाम् उत हृदयस्य स्पन्दस्य स्थगनादिकं न योगः। योगस्तु स्वस्य मनसः, श्वासस्य, शरीरस्य, भावानां च शुद्धतायाः अनन्तरं चेतनायाः अनुभवकरणम् एव।

5. प्रदर्शनं नास्ति, अन्तःकरणस्य पवित्रता अस्ति – योगः ऐन्द्रजालिकतायाः, चमत्कारस्य, प्रतियोगितायाः अथवा प्रदर्शनस्य विषयः नास्ति। काऽपि स्पर्धा उत क्रीडा अपि नास्ति। योगस्य मापदण्डः कस्याऽपि बाह्यवस्तौ न, अपि तु आन्तरिकपवित्रतायाः उत निर्मलकायाः उपरि आधारितः अस्ति।

6. आसनमेव न, अध्यात्मिकं प्रशिक्षणम् अस्ति – योगस्य सीमा शारीरिक-क्रियाः अथवा आसनानि यावत् सीमिता नास्ति। कठिन-आसनानि यः करोति, सः महान् योगी अस्ति इति धारणा भ्रमपूर्णा अस्ति। योगः शारीरिकं प्रशिक्षणम् एव नास्ति, अपि तु तेन सह मूलतः मानसिकतायाः, भावनात्मकतायाः उत आध्यात्मिकतायाः प्रशिक्षणम् अस्ति।

7. केवलं दर्शनं नास्ति, सम्यक् समन्वयः अस्ति – योगः बौद्धिकः व्यायामः नास्ति। तर्क-वितर्कः नास्ति। एषः परम-तत्त्वस्य बोध-हेतोः, विचारस्य, अभ्यासस्य च सम्यक् समन्वयः अस्ति।

8. साम्प्रदायिकः नास्ति, असाम्प्रदयिकः अस्ति - योगः कस्याऽपि व्यक्तेः, वर्गस्य उत वंशस्य विशेष-वस्तु नास्ति। योगः मानवमात्रस्य उत्थानस्य आत्मिकः प्रयासः अस्ति। सहस्रवर्षेभ्यः अभ्यासात् उत अनुभवात् अनुप्राणितः अस्ति।

9. रहस्यवादः नास्ति, परीक्षिता पद्धतिः अस्ति - योगः काचित् जटिला, अकल्पनीया उत रहस्यपूर्णा प्रक्रिया नास्ति। परन्तु सरला, स्पष्टा उत परीक्षिता पद्धतिः अस्ति। एषः सुषुप्तानां शक्तीनां जागरणस्य विज्ञानम् अस्ति। योग्यस्य मार्गदर्शकस्य निर्देशने कोऽपि जनः अध्ययनं कृत्वा अभ्यासं कर्तुं शक्नोति।

स्पष्टतया ज्ञातुं शक्यते यत्, योगस्य सम्बन्धः मनुष्यस्य आन्तिरक-स्तरेण सह अस्ति। आन्तरिक्याः पवित्रतायाः परिणतिः सदैव सत्कर्मरूपेण, समाधिरूपेण, परमतत्त्वप्राप्तिरूपेण च भवति। योगः अध्यात्मस्य, विज्ञानस्य च समन्वयः उच्यते। अध्यात्मस्य अर्थः अस्ति - अधि + आत्म अर्थात् आत्मनः समीपे निवासः। विज्ञानस्य अर्थः अस्ति - वि + ज्ञानम् अर्थात् विशेषं ज्ञानम्। ज्ञानस्य जीवने क्रियान्वयमेव विज्ञानम् अस्ति। अध्यात्मम् एकत्र आदर्शवादि, सिद्धान्तिकञ्च अस्ति, अपरत्र तु विज्ञानं प्रौद्योगिक्याः, प्रयोगस्य च उपरि आधारितम् अस्ति। सिद्धांतस्य आत्मसात्करणाय प्रयोगस्य आवश्यकता भवति। एतावदेव न प्रयोगाणाम् अभ्यासः अपि करणीयः भवति। तत एव परिणमः प्राप्यते। उदाहरणार्थं स्वास्थ्यस्य लाभाय, चित्तस्य समाधये च योगे विभिन्नानां प्रयोगाणां निरूपणं प्राप्यते, तेषां निरूपितानां मार्गाणाम् अभ्यासे कृते सत्येव सफलता प्राप्यते। अतः अध्यात्मं, विज्ञानं च परस्परं पूरकत्वेन तिष्ठतः। तयोः पृथक्त्वं न शक्यते।

योगस्य व्युत्पत्तिः, अर्थश्च[सम्पादयतु]

पाणिनीयगणपाठस्य अनुसारं दिवादि-गणीयः 'युज्' धातुः घञ्-प्रत्ययेन सह संयुक्तः भूत्वा योगशब्दः व्युत्पन्नः भवति। सः धातुः समाधि-अर्थकः अस्ति। रुधादि-गणीयः 'युज्' धातुः घञ्-प्रत्ययेन सह युक्तः भूत्वा योग-शब्दस्य निर्माण भवति, तस्य अर्थः संयमनम् इति भवति। एवमेव गणभेदत्वात् योग-शब्दस्य विविधार्थाः भवन्ति, परन्तु प्रमुखार्थाः समाधिः, संयोगः, संयमनं च।

एतस्मात् अतिरिक्तः युजिर् योगे इति धातु अपि विद्यते, तत्र कर्तुः अर्थे घञ्-प्रत्यये संयोजिते सति योग-शब्दः निष्पद्यते, यस्यार्थः 'संयोगः' इति भवति। तस्मिन्नेव धातौ करणार्थे घञ्-प्रत्यये संयोजिते सति योग-शब्दस्य निष्पत्तिः भवति,  'संयोग करण' होता है। आचार्य हेमचन्द्र के व्याकरण के अनुसार भी युज् धातु दो अर्थों में प्रयुक्त है जिनमें एक का अर्थ है जोड़ना या संयोजित करना है तथा दूसरे का समाधि है। आचार्यस्य हेमचन्द्रस्यापि व्याकरणानुसारेण 'युज्' इति धातोः द्विधा प्रयोगः भवति, यस्मिन् एकः संयोगः वा मेलनम्, एवञ्च अपरः समाधिः इति अर्थः । योग-शब्दस्य सम्बन्धः 'युज'-शब्देन सह अपि अस्ति, यस्य अर्थः संयोजनम् इति भवति। बहुषु स्थानेषु समानार्थे वैदिकसाहित्ये प्रयुक्तः अस्ति। एवं व्याकरणानुसारेण योगशब्दस्य साधनं साध्यः इत्येतयोः शब्दयोः कृते प्रयोगः दृश्यते। अतः योग-शब्दस्य अर्थः संयोजनं, मेलनम्, संयमनम्, कार्य-प्राविण्यं, संयोगः, समाधिः च भवति।

योगस्य परिभाषाः[सम्पादयतु]

विभिन्न-भारतीय-परम्परासु योगस्य परिभाषाः विविधरूपेण प्राप्यन्ते, याः शास्त्रानुसारं, मतानुसारं च भिन्नाः स्युः।

1. योगश्चित्तवृत्तिनिरोधः । (पातञ्जलयोगदर्शनम्) अभ्यासस्य, वैराग्यस्य च माध्यमेन चित्तस्य वृत्तीनां बाह्येभ्यः समस्तेभ्यः विषयेभ्यः निरोधे सति मूलस्वरूपे शाश्वततया असम्प्रज्ञात-समाधेः स्थितौ अवस्थितिः योगः अस्ति।

2 पुं प्रकृत्योर्वियोगेऽपि योग इत्यभिधीयते। (सांख्यदर्शनम्) पुरुषस्य, प्रकृतेश्च पार्थक्ये स्थापिते सति पुरुषस्य स्वरूपे अवस्थितिः एव योगः अस्ति।

3. योगः संयोगः इत्युक्तः जीवात्मपरमात्मनोः। (विष्णुपुराणम्)

जीवात्मनः, परमात्मनः च पूर्णतया मेलनम् एव योगः भवति।

4. सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते। (भगवद्गीता 2/48)

दुःख–सुखयोः, लाभ-अलाभयोः, शत्रु-मित्रयोः, शीतोष्णयोः इत्येतेषु द्वन्द्वेषु सर्वत्र समभावः एव योगः उच्यते।

5. तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ (भगवद्गीता 2/50)

कर्त्तव्य-कर्म बन्धकं न भवेत्, अतः निष्काम-भावनया अनुप्रेरितो भूत्वा कर्त्तव्यस्य कौशलयोगः अस्ति।

6. तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । (भगवद्गीता 6/23)

समस्तानां दुःखानाम् आत्यन्तिकतया निवृत्तिः, तस्याः साधनानि चाऽपि योग उच्यते।

7. मोक्षेण जोयणाओ सन्चो वि ववहारो जोगो। (योग विंशिका)

आचार्यहरिभद्रस्य मते ये सर्वे अभ्यासाः मोक्षं प्रति गच्छन्ति, ते योगः एव । आचार्य हेमचन्द्रेण मोक्षविधिः ज्ञानं, श्रद्धानं, चरित्रात्मकं च इति उक्तः।

8. कुशल चित्तैकग्गता योग। बौद्धानां मते योगः कुशलचित्तस्य एकाग्रता वर्तते।

9. डॉ. राधाकृष्णन-महोदयस्य मते योगस्य अर्थः अस्ति - एकस्मिन् स्थाने स्वस्य आध्यात्मिकशक्तीनाम् एकत्रीकरणं, संतुलनं, वर्धनं च। (भगवद्गीता, राधाकृष्णन्, पृष्ठ ५५)।

10. प्रो.रामहर्षसिंह-महोदयस्य मतेन योगस्य अर्थः मानवव्यक्तित्वस्य शारीरिक-मानसिक-बौद्धिक-आध्यात्मिक-पक्षाणाम् एकीकरणस्य, तस्य माध्यमेन मनुष्यस्य समन्वयः च।  

योगप्रकाराः[सम्पादयतु]

योगः परमतत्त्वस्य प्राप्तिः अस्ति। अस्य कृते अनेकानि साधनानि उपयुज्यन्ते । तानि साधनानि योग इत्यपि कथ्यन्ते। तेषां साधनानां सर्वसम्मत्या वर्गीकरणं न प्राप्यते। तानि सर्वाणि साधनानि परस्परं सम्बद्धानि भवन्ति । सर्वासु पारम्परिक-योग-व्यवस्थासु बहवः योगविधयः प्रत्यक्षतया परोक्षतया वा प्रयुक्ताः भवन्ति । व्यक्तिस्य, कालस्य, क्षेत्रस्य च आवश्यकतानुसारं कदाचित् कस्यापि एकस्य अनुशासनस्य उपरि बलं दातव्यं भवति । यद्यपि योगस्य अनेकाः प्रकाराः सन्ति तथापि केचन प्रकाराः भवितुम् अर्हन्ति। यथा –

1. ज्ञानयोगः – ज्ञानेन परमतत्त्वस्य सुयोगः उत प्राप्तिः।

2. भक्तियोगः – भक्त्या परमतत्तवस्य सुयोगः उत प्राप्तिः।

3. कर्मयोगः – निष्कामकर्मणा उत सेवया परमतत्त्वस्य सुयोगः उत प्राप्तिः।

4. मन्त्रयोगः – मन्त्राणां ध्वनिभिः परमतत्त्वस्य सुयोगः उत प्राप्तिः।

ज्ञानयोगः[सम्पादयतु]

एषः आध्यात्मिकज्ञानस्य उत प्रज्ञायाः मार्गः अस्ति। प्रबुद्धाः जनाः अविद्यायाः, मिथ्यात्वस्य, अज्ञानस्य च अन्धकारं भेदयित्वा 'आत्मानः' शुद्ध-चैतन्यस्य उत परमतत्त्वस्य साक्षात्कारं कुर्वन्ति। ज्ञानयोगस्य अभ्यासः स्वाध्यायस्य, ध्यानस्य च मार्गेण सिद्ध्यति। "ऋरो ज्ञानन्नमुक्तिः" तत्त्वज्ञानं विना मुक्तिः न सम्भवतीति च उक्तम् अस्ति। तत्त्वज्ञानस्य प्राप्तिः मानसिक-भावनात्मक-विकासेन, तयोः शुद्धीकरणेन च भवति । श्रावणं, मननं, निदिध्यासनं च अस्य मुख्यसाधनम् । सामान्यतः केवलं ते जनाः ज्ञानयोगं स्वीकुर्वन्ति, येषां बुद्धिः तीक्ष्णा भवति। ज्ञानयोगे अविद्या सर्वदुःखानां कारणं मन्यते। शोकनिमित्तस्य ध्यानं, परमसत्यस्य प्राप्तिः, पारमार्थिकतत्त्वस्य ज्ञानं चैव वास्तविकं ज्ञानं भवति। ज्ञानयोगः आत्मसाक्षात्कारः आत्मनः ज्ञानं वा।

सीमाः[सम्पादयतु]

ज्ञानयोगस्य अपि स्वकीयाः सीमाः सन्ति –

(१) ज्ञानयोगे जनाः सर्वदा ज्ञाने निमग्नाः भवन्ति, येन ते समाजात् विच्छिन्नाः भवन्ति।

(२) सामान्यजनस्य तादृशः बौद्धिकस्तरः नास्ति, येन सर्वे तस्य अभ्यासं कर्तुं न शक्नुयुः।

(३) भावशुद्धिं विना बौद्धिक-व्यायाममात्रेण वादविवादः, तर्कः, आग्रहः च जायते।

(४) अति-बौद्धिकक्रिया पाचनतन्त्रं प्रतिकूलरूपेण प्रभावितं करोति, शारीरिकदुर्बलतां च वर्धयति।

ज्ञानयोगस्य सीमां विस्तारयितुं तत्सहितं सत्यं प्रति समर्पणस्य अनेकान्तस्य च अभ्यासः उपयोगी भवति। सामान्य-जनस्य कृते भक्तिः योगरूपिणी भवति। शारीरिक स्वास्थ्याय कर्मयोगस्य (सेवायाः) अथवा हठयोगस्य समन्वयः आवश्यकः भवति।  

भक्तियोगः[सम्पादयतु]

एषः योगः भक्ति-श्रद्धा-समर्पणेषु आधारितः अस्ति । अस्मिन् परमतत्त्वेन सह एकत्वस्य भावः प्रबलः भवति । भक्तः स्वस्य प्रियं कमपि इष्टम् उत गुरुं प्रति समर्पणं कृत्वा तं पूजयति  अर्चयति वा। भक्त्या सिक्तः सः एकतां अनुभवति। ईश्वराय सर्वस्यापि समर्पणम् एव भक्तिमार्गद्वारम् इत्यर्थः। अधिकांशाः भारतीयाः, सामान्यजनाः च अस्य मार्गस्य अनुसरणं कुर्वन्तः दृश्यन्ते। एतत् भावप्रधानं ध्यानं भवति। भक्तियोगे भक्तः यत् किमपि करोति, तत् तेन न अपि तु ईश्वरेण क्रियते इति विश्वासः भवति।

सीमा[सम्पादयतु]

तस्य सीमा अस्ति यत्, बहुवारं भक्तेः वास्तविकं प्रयोजनम्, अर्थः च न अवगत्य भक्तः स्वस्य दैनन्दिन-जीवनस्य कार्याय अपि ईश्वरस्य सम्मुखे हस्तौ प्रसारयति, स्वस्य प्रयासं गौणं करोति च। तर्कस्य अवहेलनां कृत्वा विश्वासस्य अन्धविश्वासे परिणयनम् आरभते। यदि श्रमस्य, सरलतायाः, आत्मसंयमस्य च विषयः गौणो भवति, तर्हि आलस्यस्य, अकर्ण्यतायाः, अप्रयत्नस्य च सम्भावना वर्धते। एतत् कस्यचित् समाजस्य कृते आरोग्यकरं नास्ति। भक्तियोगः ज्ञानयोगस्य कर्मयोगस्य च समन्विततया अभ्यासेन सन्तुलितः भवति।

कर्मयोगः[सम्पादयतु]

अद्य यस्मिन् अर्थे कर्मयोगः प्रचलितः अस्ति, सः निःस्वार्थकार्यस्य, सेवायाः च मार्गः अस्ति। साधकः निःस्वार्थः भूत्वा आत्मना सह सर्वेषां जनानां हिताय कार्यं करोति। अस्मिन् युगे महात्मा गान्धी, आचार्यः तुलसी, विनोबा भावे च अस्य अनुपम-उदाहरणत्वेन राराजन्ते। एषः पुरुषार्थस्य, स्वातन्त्र्यस्य, आत्मनिर्भरतायाः च मार्गः अस्ति। कर्मफले जनः स्वाधिकारं न प्रस्थापयेत् इति गीतामतम्। स्वस्य फलस्य अधिकारं न इच्छन् कार्यं कर्तुं सज्जः भूत्वा निःस्वार्थतया कर्माचरणं भवेत् इति कर्मयोगः। एषः भक्तियोगात् विपरीतः योगः वर्तते। एतस्यापि सीमाः सन्ति । यदि कश्चन जनः कर्मयोगे रतः भवति, तर्हि तस्मिन् अहङ्कार-भावस्य उद्भवः सम्भवते। अस्मिन् जनस्य पुरुषार्थः प्रबलः अस्ति, परन्तु अहङ्कारस्य समस्या तस्मिन् एव मूलभूता भवति। तस्य निवारणाय अनासक्तभावेन कर्म करणीयं भवति। न सर्वे एतत् योगं कर्तुं शक्नुवन्ति यतो हि यदि फलं न प्राप्यते, तर्हि जनः निराशः भविष्यति।

सीमा[सम्पादयतु]

अस्य काचित् सीमा अस्ति यत्, अस्मिन् सामान्यः साधकः पदं, नाम, यशः, कीर्तिः, उपलब्धिः इत्यादिकेन तेषां सर्वेषां फलस्य कामनाम् आरभते। एषा प्रवृत्तिः परस्परं द्वन्द्वं जनयति । समाजस्य संस्थानां च स्वस्थ-सञ्चालनार्थं सः घातकः भवति । निःस्वार्थभावः, कर्तव्यभावः, ऋणमुक्तिभावः, उत्तरदायित्वभावः, सेवाभावः इत्यादीनाम् उच्चभावनानां कार्येण सह संसर्गेण कर्मयोगस्य सीमाः विस्तारिताः भवन्ति।

मन्त्रयोगः[सम्पादयतु]

मन्त्राभ्यासेन चैतन्यं परिष्कृतं भवति। अत्र कस्यापि बीजाक्षरस्य, मन्त्रस्य, वाक्यस्य वा पौनःपुन्येन पुनरावर्तनं क्रियते। विधिना लयात्मकतया पुनरावृत्तिः जपः उच्यते । अस्मिन् ध्वन्युच्चारणे विशेषं ध्यानं दीयते। चित्तस्य सूक्ष्मतमाः तरङ्गाः ध्वनेः तरङ्गाः भवन्ति। मन्त्रस्य साधनायाः पूर्वम् अन्तःकरणस्य स्वच्छता भवति। अन्ते च जनः तस्मिन् एकाग्रतां प्राप्य तस्य मनः स्थितौ (समतायां) प्रतिष्ठते।  वैदिक-साधना-व्यवस्थायां, बौद्धेषु, जैनेषु च महामन्त्राणां महत्त्वं प्रदर्शितम् अस्ति। क्रमशः यथा – ॐ, मणि पद्मऽहं, नमस्कारमहामन्त्रः, अर्हम् इत्यादयः। तेषां ध्वनीनाम् उपयोगः करणीयः, येभ्यः मनः परमात्मनि लयं प्राप्यते। दीर्घकालं यावत् एकस्य शब्दस्य प्रयोगः परामर्शितः अस्ति - तस्य वाचकः प्रणवः । तज्जपस्तदर्थमावनम्।  

पातञ्जलयोगसूत्रानुसारम् ईश्वरस्य वाचकः प्रणवः एव । ॐ कारः अस्ति । तस्य जपं कुर्वन् अन्ते तस्य अर्थे परमात्म-स्वरूपस्य प्राप्तिः एव मन्त्रस्य उद्देश्यम् अस्ति। मन्त्रस्य जपेन सह तस्य अर्थः, छन्दः, ऋषिः, देवता इत्येतेषाम् अधिकाधिकरूपेण ध्यानं करणीयम् (यदि विद्यते)। तदा सः शीघ्रं हि सिद्धः भवति। साधकः मन्त्रसिद्धिद्वारा मनसः, मन्त्रस्य, आराध्य-ईश्वरस्य च पार्थक्यस्य बोधं त्यजति। त्रयः अपि परस्परं लीनाः भवन्ति। ध्याता, ध्यानं, ध्येयः इत्येतेषां त्रयाणां लयः भवति। फलतः साधकः सफलतां प्राप्नोति।

सीमा[सम्पादयतु]

अस्य सीमा अस्ति यत् अस्य उपयोगः अधिकतया शक्तिकृषौ भवति । चित्तशुद्ध्याभावे शक्तिपूजा अहङ्कारस्य, दुरुपयोगस्य, लौकिककामनानां च साधनं भवति। तत्र साधकस्य साधन-मार्गात् भ्रमणायाः सम्भावना भवति। मन्त्रयोगे एतस्याः स्थितेः परिरक्षणाय योग्ययोगरोः अनुशासने उत गोपनीयतया साधनायाः रक्षणस्य विधानं प्राप्यते।

योगस्य स्रोतः[सम्पादयतु]

योगस्य मूलस्रोतं ज्ञातुं द्वे साधने स्तः – सिन्धु-उपत्यकायाः ​​सभ्यतायाः प्राप्तपुरातत्वस्य अवशेषाणां प्राचीन-पुरातत्वस्य, साहित्यस्य च अवशेषाः तस्य कालस्य भारते योगस्य अभ्यासस्य पुष्टिं कुर्वन्ति। तथैव योगस्य स्वरूपं, तस्य विस्तारः, गभीरता च उभयप्रकारस्य साहित्ये - प्राचीनसूत्रसाहित्ये, लोकप्रियशिक्षणात्मकपौराणिकसाहित्ये च प्राप्यते। विंशति-शतकस्य आरम्भे प्रागैतिहासिकयुगस्य अत्यल्पाः अवशेषाः प्राप्ताः, परन्तु मोहनजोदरो-हडप्पा-नगरयोः अन्वेषणेन ५००० वर्षपुराणायाः, अतीव उन्नतायाः, समृद्धायाः, सम्पन्नायाः च सभ्यतायाः ज्ञानं जातम् । सिन्धुनद्याः उपत्यकायां प्रफुल्लितत्वात् तस्याः नाम सिन्धु-उपत्यकायाः सभ्यता इति अपि अभवत्। मोहनजोदरो-हडप्पा-भग्नावशेषेषु कानिचन वस्तूनि प्राप्तानि, येषाम् आधारेण सिन्धुसभ्यतायाः जनानां मध्ये योगः अतीव उपयोगि-विषयत्वेन ज्ञातः भवति। एतानि वस्तूनि, मुद्राः च धातोः, पाषाणस्य, मृत्तियाकायः वा निर्मिताः मूर्तयः सन्ति। पाषाणेन निर्मितासु मूर्तिषु सर्वाधिका महत्त्वपूर्णा सा मूर्तिः वर्तते, या कट्याः अधः भग्ना अस्ति। एतस्यां मूर्त्यां मनुष्यः कश्चन वस्त्रं धृत्वा पदर्शितः वर्तते। मूर्त्याः नेत्रे निमिलिते स्तः उत ध्यानमग्ना सा मूर्तिः प्रदर्शिता। योगसम्बद्धाः अनेके विषयाः अपि उपलभ्यमानानाम् मुद्राणां प्रचुरसंख्यातः ज्ञायन्ते। जॉन् मार्शल-महोदयस्य मते ताः प्राचीनयोगिनां मुद्राः सन्ति । तेषु अभिलेखितानां आकृतीनां विषये भिन्नानि मतानि सन्ति । केषाञ्चन विदुषां मते सा पशुपतिशिवस्य आकृतिः अस्ति। एवञ्च केषाञ्चन मते सः जैनपरम्परायाः प्रथमः तीर्थंकरः आदिनाथ-ऋषभः अस्ति ।  

मुद्रायां नग्नः त्रिवक्त्रः पद्मासने उपविष्टः जनः दृश्यते। तं परितः गजाः वृषभाः च सन्ति । स्तम्भस्य अधः मृगः अस्ति। तस्य शिरस्य सिंहः, विचित्र-शिरोभूषा च अस्ति। तस्य हस्तेषु कङ्कणं, कण्ठे हारं च धारयति। एषा मूर्तिः शिवस्य पाशपतिरूपा मन्यते। पद्मासने ध्यानावस्थातायां मुद्रायाम् एतस्य नासाग्रदृष्टिः शिवस्य योगीश्वरम् उत महायोगीश्वरं रूपं सूचयति। अन्याः तिस्रः मुद्राः पशुपतेः एतस्य रूपस्य उपरि प्रकाशं क्षिपन्ति। यदि एतासु मुद्रासु अभिलेखिता प्रतिमा शिवस्य स्वीक्रियते, तर्हि शैवधर्मः तन्त्रयोगः वा जगति प्राचीनतमः धर्मः योगः वा इति स्वीकारणीयम्।

मुद्राङ्किते एकस्मिन् चित्रे त्रिशूलः, मुकुटविन्यासः, नग्नता, कायोत्सर्गमुद्रा, नासिकादृष्टिः, ध्यानप्रवृत्ताः मूर्तयः इत्येतेषां दर्शनेन ज्ञायते यत्, एताः मूर्तयः ध्याने निमग्नस्य ऋषिणः योगिनः वा सन्ति इति। रामप्रसाद चान्दा-महोदयस्य कथनम् अस्ति यत् – सिन्धु-उपत्यकायाः ​​अनेकमुद्रासु उपविष्टदेवताः योगमुद्रायां सन्ति, एतेन च सुदूरपूर्वकाले सिन्धु-उपत्यकायां योगमार्गस्य प्रसारः सिद्धः भवति, परन्तु खड्गासनस्य देवतामूर्तयः अपि योगस्य कयोत्सर्गमुद्रायां सन्ति, सा च कयोत्सर्गध्यानमुद्रा विशिष्टा अस्ति। अनेके विद्वांसः सिन्धु-उपत्यकायाः ​​सभ्यतां द्रविड-विद्याधर-जाति-सम्बद्धां स्वीकुर्वन्ति स्म, एनञ्च वृषभं देवत्वेन स्वीकुर्वन्ति स्म। वृषभः भगवतः ऋषभदेवस्य हिरण्यगर्भस्य तीर्थंकरस्य प्रतीकः आसीत्। लोहानीपुरात्, हडप्पा-नगराच्च प्राप्तासु कायोत्सर्ग-मुद्रासु स्थितां मूर्तिं रामचन्द्रन्-महोदयः, डॉ. काशीप्रसाद जायसवाल-महोदय-सदृशाः पुरातत्त्वशास्त्रवेत्तारः जैनतीर्थङ्करस्य मूर्तिं स्वीकुर्वन्ति। प्राध्यापकस्य दामोदर शास्त्री-महोदयस्य मते अस्याः सभ्यतायाः निर्मातारः वितरागधर्मस्य अनुयायिनः, जैनधर्मस्य आदि-तीर्थंकरऋषभदेवस्य उपासकाः, योगध्यानप्रथानाम् उपासकाः च आसन् । एवं प्रकारेण पुरातत्त्वस्य अवशेषस्य प्राप्त-पुरातन-मूर्तिषु, मुद्रासु च अङ्कित-आकृति-आदिभ्यः योगस्य प्राचीनतायाः विषये अतीव-महत्त्वपूर्णा सूचना प्राप्यते।

योगस्य आदिप्रणेता[सम्पादयतु]

प्राचीनसाहित्यात् योगस्य मूलसंस्थापकस्य ज्ञानं भवति । विभिन्न-प्राचीनयोग-परम्परासु योगस्य प्रवर्तकस्य विषये उल्लेखः अस्ति, तत्सम्बद्धञ्च प्राचीनसूत्रसाहित्यं लोकप्रिय-साहित्य-पुराणादिषु चापि उल्लेखः वर्तते। सूत्रसाहित्यं तत् साहित्यम् अस्ति, यस्मिन् विस्तृतविचाराः अतीव संक्षिप्ततया, व्यवस्थिततया, तर्कसंगततया, सूत्रात्मकशैल्या च लिखिताः सन्ति। केवलं विद्वज्जनाः एव तस्य उपयोगं कर्तुं शक्नुवन्ति।

द्वितीयस्य प्रकारस्य साहित्यम् अस्ति, यस्मिन् मूलविचाराः विस्तरेण, रोचकतया, सरलतया च आख्यानात्मकेन अथवा उपदेशात्मकशैल्या लिखिताः सन्ति। वस्तुतः योगस्य मूलप्रवर्तकस्य विषये सूचना अन्यप्रकारसाहित्येभ्यः एव प्राप्यते । उपर्युक्तसाहित्ये महाभारतं, रामायणं, पुराणं च अन्तर्भूतम् अस्ति । अस्मिन् समये उपलभ्यमानेषु ग्रन्थेषु महर्षिपतञ्जलेः योगसूत्रमेव प्रामाणिकं पुस्तकम् इति विद्वांसः मन्यन्ते, यस्मिन् शुद्धविचारे योगविद्यायाः वर्णनं प्राप्यते। प्रायः योगसूत्रस्य सर्वेषां भाष्यकाराणां, वृत्तिकाराणां च मतस्ति यत् पातञ्जलयोगशास्त्रं हिरण्यगर्भशास्त्रस्य आधारेण रचितम् अस्ति। महाभारते, याज्ञवल्क्यस्मृतौ च एकं वचनं प्राप्यते यत् –

"हिरण्यगर्भः योगस्य वक्ता,  नान्यः पुरातनः।" [२]

हिरण्यगर्भः एव योगवक्ता इत्यर्थः । अस्मात् प्राचीनतरः अन्यः कोऽपि वक्ता नास्ति । महाभारते हिरण्यगर्भविषये अन्यः श्लोकः अस्ति। यथा -

हिरण्यगर्भो द्युतिमान् य एषच्छन्दसि स्तुतः।

योगः सम्पूज्यते नित्यं स च लोके विभुः ॥ [३]

अयं द्युतिमान् हिरण्यगर्भः वेदेषु स्तुतः इत्यर्थः। एतस्य हिरण्यगर्भस्य योगिनः नित्यपूजां कुर्वन्ति, संसारे च एषः विभुः इत्युक्तः। प्राचीन-घटनानां, जनानाम्, ऐतिहासिक-तथ्यानां च वर्णनं पुराणसाहित्ये प्राप्यते । तत्र प्राचीनपरम्पराः लिखिताः सन्ति। श्रीदेवीभागवतपुराणे (उत्तरार्द्धः, स्कन्ध-एकादशः अध्यायः) केवलं भगवान् ऋषभदेवः हीरण्यगर्भः योगेश्वरः, योगनिपुणः इत्यादिरूपेण स्तुतः अस्ति। श्रीमद्भागवते (5/4/9) उक्तम् अस्ति यत् - "भगवान ऋषभो योगेश्वरः" तत्रैव (5/5/25) "इति नानायोगचर्याचरणः भगवान् कैवल्यपतिः ऋषभः" इति ऋषभदेवस्य मान्यता प्राचीनकालात् अद्यावधौ प्रचलति। एषः हठयोगस्य उपदेशः अपि उच्यते – श्रीआदिनाथाय नमोस्तु तस्मै येनोपदिष्टा हठयोगविद्या इति अपि। जैन-आदिपुराणे (सर्गः २४) भगवतः आदिनाथस्य चक्रवर्तिनः सम्राट्-भरतस्य एवं प्रकारेण वर्णनं प्राप्यते -

हिरण्यगर्भो भगवान वृषभो वृषभध्वजः।

परमेष्ठी परमतत्त्वं परमात्ममूरसि ॥३३ ॥

अहो भगवन्! भवान् हिरण्यगर्भः, भगवान्, वृषभः (श्रेष्ठः) – वृषभ-नामकः, वृषभचिह्नेन विभूषितः, परमेष्ठी, परमतत्त्वः, स्वस्य स्वरूपे स्वयंभूतया भवान् प्रकटितः। तन्त्रसाहित्यस्य अनुसारं शिवः तन्त्रशास्त्रस्य आदिप्रणेता अस्ति। शिवपुराणे (शिवपुराणं - 4/47-48) ऋषभदेवः शिवस्य अवतारः, आदिशिवश्च स्वीकृतः अस्ति। आदिनाथः ऋषभः योगस्य प्रवर्तकः, हिरण्यगर्भः च अस्ति, यः योगस्य दीक्षां कृतवान्, ध्यानमार्गं प्रारब्धवान् च। ऋग्वेदे अथर्ववेदे च ऋषभविषये संकेताः सन्ति । जैनागमेषु, हिन्दुपुराणेषु च परम्परागत-वृत्तान्तं प्राप्यते, ततः अपि संकलितेषु श्रीमद्भागवतादिमहापुराणेषु विस्तृतं काव्यात्मकं च वर्णनं प्राप्यते।

वेदेषु योगः[सम्पादयतु]

भारतीयपरम्परा ऋषिप्रधाना विद्यते। प्राचीनकालात् एव श्रेष्ठाः ऋषयः स्वज्ञानशक्त्या अविद्यां दूरीकर्तुम् अविरतं कठिनं च प्रयासान् कृतवन्तः, येन मनुष्याः अज्ञानस्य अन्धकारात् दूरं गत्वा ज्ञानप्रकाशं प्राप्तुं शक्नुयुः, एवं ते स्वजीवनं सार्थकं कर्तुं शक्नुयुः। अत एव ज्ञानिनः ऋषयः परमसत्तायाः स्वीकारं कृत्वा तस्याः प्राप्तेः, तस्याः आज्ञापालनस्य, सदमार्गानुसरणस्य, शान्तेः, सौहार्दपूर्णतायाः, अन्ते मोक्षस्य च प्राप्तेः आह्वाहनं कुर्वन्ति। अत एव चिरकालोत्तरम् अपि एषा अमरवाणी, अमरज्ञानं च विभिन्नेषु ग्रन्थेषु मानवयाय स्वमहत्त्वपूर्णां भूमितां वहति। तेषु ग्रन्थेषु एव अन्यतमः वेदः, यः स्वस्य अक्षय-ज्ञानेन इहलौकिक-अतीन्द्रिय-जीवने सुख-शान्ति-समृद्धि-मोक्षाणां मार्गं प्रशस्तं कुर्वन् अस्ति। वेद इत्यस्य शब्दस्य व्यत्पत्तिः विद् धातोः मन्यते। वेदस्य अर्थः ज्ञानं भवति। प्राचीनतमग्रन्थत्वस्य श्रेयः वेदेभ्यः एव गच्छति। तेन सह अपौरुषेय इत्यपि ते मन्यन्ते ।

अर्थात् वेदाः ब्रह्मवाणी अस्ति, या ऋषिभिः अभिव्यक्ता जाता। यः परब्रह्मणः साक्षात्कारं कृतवान्, स एव तस्य वाण्याः अभिव्यक्तिं कर्तुं प्रभवति। अतः ऋषयः एव वेदाभिव्यक्तिमाध्यमाः अभवन्, अधिकारिणश्च अभवन्। चत्वारः वेदाः सन्ति – ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च । वेदाः सर्वेषां ज्ञानानां मूलं मन्यन्ते । अतः वेदेषु सर्वप्रकारस्य ज्ञान-विज्ञानम्, अस्त्र-विज्ञानम्, साहित्य-कला, शिल्प-उद्योगः, सभ्यता-संस्कृतिः, ब्रह्माण्ड-अतीन्द्रियज्ञानं च विद्यते। अत एव मीमांसकाः वेदान् कालातीत-अक्षयज्ञानस्य भण्डारं स्वीकुवन्ति। वेदानां प्रस्ताविताः विषयाः मनुष्यान् जीवनपर्यन्तं सम्यक् आचरणं व्यवहारं च उपदिशन्ति । चत्वारः पुरुषार्थाः धर्मः, अर्थः, कामः, मोक्षः च जीवनपद्धतिं व्यवस्थितां कुर्वन्ति। मोक्ष इति वेदानां परमं लक्ष्यम् अस्ति। अत एव उपासना, धर्मसंस्कारः, ज्ञानप्राप्तिः, ब्रह्मचर्यपालनं, सत्संगः, योगाभ्यासः इत्यादयः अपि उपस्थापिताः सन्ति। अर्थात् लौकिकजीवनात् पारलौकिकजीवनपर्यन्तं यात्रायाः महत्त्वपूर्णानि सूत्राणि वेदेषु समाहितानि सन्ति, तेषां माध्यमेन मानवजीवनस्य विभिन्नासु अवस्थासु क्रमशः स्वस्य कर्तव्यानां पालनं कुर्वन् अन्ते सर्वेभ्यः बन्धनेभ्यः मुक्तः भवितुं शक्नुयात्।

यतः वैदिकसाधनायां मुख्यं लक्ष्यं आत्मनः परमात्मनः च संयोगात् तयोः ऐक्यम् अस्ति। अतः वेदेषु भोगेन (लौकिकज्ञानेन) सह अपवर्गस्य (अलौकिकज्ञानस्य) अपि चर्चा कृता वर्तते। अतः अपवर्गं प्राप्तुम् आध्यात्मिकसुखं प्राप्तुं, पारमार्थिकसुखं प्राप्तुं च वेदेषु योगसम्बद्धाः बहवः विचाराः यत्र तत्र उपस्थापिताः सन्ति। अस्मिन् देवानाम् आह्वानं कृत्वा आन्तरिकशुद्धेः, ईश्वरप्राप्तेः च कामना कृता वर्तते। एकस्य साधकस्य आकांक्षा वेदेषु नानारूपेण वर्ण्यते। ऋग्वेदे उक्तम् अस्ति यत्, अग्निदेव!, यदि अहं त्वां भवेयं, त्वं वा अहं भवेयम्, तर्हि तव लोके सर्वे आशीर्वादाः सिद्धाः भविष्यन्ति। यदा आत्मा परमात्मा इव भवति, परमात्मा वा आत्मा इव भवति, तदा भवतः मम च आत्मनः परमात्मनः च भेदः लुप्तः भवति इति यावत् । भेदात् एव सर्वे क्लेशाः, हानयः, कष्टाः इत्यादयः सन्ति। यदा भेदः लुप्तः भवति, तदा तस्मात् उत्पन्नाः सर्वाः समस्याः स्वयमेव नष्टाः भवन्ति । अतः योगस्य पराकाष्ठा एकत्वप्राप्तिः अस्ति।

योगविधेः उपस्थापनकाले, योगहेतोः आलम्बने उक्तम् अस्ति यत्, यान् देवान् विना प्रकाशपूर्णस्य ज्ञानिनः जीवनयज्ञं सफलं भवितुं नार्हति, तेषु एव ज्ञानिनः स्वबुद्धेः, कर्मणां च योगं कुर्युः। अर्थात् जीवनस्य उच्चतम-सिद्ध्यर्थं तत्तद्देवतासु बुद्धिं कर्म च समायोजयन् ध्यानं कर्तव्यम् । योगमार्गस्य साधकः प्रकाशम् इच्छति न तमः, ज्ञानं इच्छति न अज्ञानम्। साधकः कामयते यत् हे मरुतदेवाः! त्वं हृदयगुहायां तमः निष्कासय। अस्माकम् अभीष्टं प्रकटय। यदा अन्धकारः विच्छन्नः भविष्यति, तदा प्रकाशः स्वयमेव प्रकाशयिष्यति यतः तमः एव प्रकाशम् आच्छादयति। अतः साधकः तत् अपसारयितुम् इच्छति, इष्टं च साधयितुम् इच्छति। यदि इन्द्रियसंयमेन एव तस्य सत्यस्य उद्घाटनं सरलतया भवितुं शक्नोति। यजुर्वेदे उक्तमस्ति यत्, परमात्मा अस्माकं मनसः बुद्धेः च वृत्तीनां तत्त्वस्य प्राप्त्यै स्वस्य दिव्यरूपेण नियोजयेत्। अस्माकम् इन्द्रियाणां प्रकाशः बहिः न गत्वा अस्माकं बुद्धेः, मनसः च स्थिरतायां सहायकः भवेत्। सर्वविधद्वेषात् मम मनः दूरं कुरु।

साधकस्य एषा कामना अन्ते सर्वदोषान् विहाय स्वस्य दिव्यरूपज्ञानं सिद्धयति। यावद् क्रोध-अभिमान-मोह-लोभ-आदि-क्लेशाः अन्तःकरणे तिष्ठन्ति, तावत्पर्यन्तं परतत्त्व-प्राप्तिः सम्भवितुं न शक्नोति, किन्तु तेषां लोपमात्रेण इन्द्रिय-नियन्त्रणं स्वयमेव प्रारभ्यते । तदनन्तरं सम्यक् दिशि इन्द्रियाणां योजनं कृत्वा दिव्यत्वप्राप्तिः सुलभा भवति । साधकस्य एषा अपि कामना अस्ति यत्, हे वरुण! बन्धनेभ्यः, दुःखेभ्यः च मां मोचय । अस्माकम् उत्तमाङ्गेषु स्थापितात् पाशात् अस्मान् पृथक् कुरु। तदनन्तरं वयं पापविनिर्मुक्ताः भवतः कार्येषु प्रवृत्ताः भवेम । पाशः अर्थात् बन्ध एव मानवम् अनुचितमार्गं प्रति नयति। एतेषां कारणात् मानवाः अनेकविधान् अपराधान् कुर्वन्ति। अतः एतेभ्यः पाशेभ्यः मुक्तिं प्राप्तुं इच्छा कृता अस्ति । साधकः वदति यत्, मम मुखं सम्पन्नं भवतु, मम मुखं यशस्वि भवतु... मम जिह्वा कल्याणमयी भवतु, मम वाक् महिमामयः भवतु, मम मनसि क्रोधः न भवेच्चेदपि अहं क्रोधं प्राप्नुयाम्... मम मांसं सर्वेषां भूतानाम् नमनं कुर्यात्। ये अपाराधाः अस्माभिः कृताः, तेभ्यः अपराधेभ्यः अस्मान् मुक्तान् कुर्वन्तु। ग्रामे वने वृक्षोच्छेदनपशुवधेषु मिथ्यावाक्येन इन्द्रियाणां पापैः जातिविशेषकृतपापेभ्यः अस्मान् विमोचयतु।

एतदतिरिक्तं एतदपि उक्तम् अस्ति यत्, वयं सदैव कल्याणकारी-शब्दान् एव कर्णैः शृण्मः, कल्याणकारीदृश्यमेव नेत्राभ्यां पश्यामः, शरीरेण तानि कर्माणि एव कुर्मः, यानि विद्वज्जनानां हिते स्यात्। अस्मिन् साधकः स्वस्य इन्द्रियाणां सम्यक् उपयोगं इच्छति। अत्र आत्मा विशेषं स्थानं प्राप्तवान् अस्ति।

सामवेदे आत्मा, चेतना उत ब्रह्म विशिष्टप्रकारेण प्रकटितः, अनन्तः सदकामनां कुर्वन् कथयति, यः भूतभविष्ययोः, सर्वेषु च व्यापकः अस्ति, यः दिव्यलोकस्य अधिष्ठाता अस्ति, तस्मै ब्रह्मणे मे नमस्काराः इति। अयम् आत्मा रोमापेक्षया सूक्ष्मतरत्वात् प्रमुखोऽपि न दृश्यते । भो! आत्मा त्वं कुमारी त्वं स्त्री त्वं च पुरुषः। पिता पुत्रो ज्येष्ठो कनिष्ठोऽसि च । धैर्यवान् स्वाभिलाषहीनः स्वयम् रसेन स्वतर्पितः न कस्मिंश्चित् विषये असमर्थः। स शाश्वतः युवा आत्मा ज्ञाता मृत्योः न बिभेति। भो! भगवन् त्वं कल्याणार्थं अस्माकं मनः प्रेरय। अत एव साधकः कल्याणं कामयति। मनुष्यशरीरं न केवलं मांसास्थिप्रतिमा, अपि तु ईश्वरीयतां अपि वहति इति वेदाः व्याख्यायन्ते।

अथर्ववेदे उक्तं यत् अस्माकं अष्टचक्रनवद्वारयुक्तं शरीरम् अपराजेया देवनगरी अस्ति। अस्मिन् तेजस्वी कोशः अस्ति यः प्रकाशेन आनन्देन च परिपूर्णः अस्ति। अतो आत्मानं वा चैतन्यं वा अन्यरूपं वा मन्यमानोऽपि परमानन्दकोशः अस्माकं अन्तः अस्ति इति सिद्धम् । अत एव परमानन्दप्राप्तिः बहिः न अपितु अन्तः वर्तते। यदि सर्वेषाम् अन्तः एकमेव तत्त्वं भवति, तर्हि कश्चित् कस्मैचित् तापं पीडां वा दातुं न शक्नोति । अत एव वेदः अपि वदति यत् मनुष्यः पशूनां प्रति मनसा, वचनेन, कर्मणा च अहिंसां कुर्यात्, तेषां क्षतिं न कुर्यात्। भ्राता, भगिनी, परिवारे वा कोऽपि परस्परं वैरं न धारयेत्। सर्वे परस्परं शान्तिपूर्वकं मधुरतया विनयपूर्वकम् एकीभूय एकव्रतेन च वार्तालापं कुर्वन्तु। एतदतिरिक्तं मम जिह्वातः मधुरवचनं निर्गच्छेत्, भजनकीर्तनयोः मूले माधुर्यं भवेत्, मम कर्मसु माधुर्यं नियतं भवेत्, मम मनसि माधुर्यं तिष्ठेत् इति अपि उक्तम्। एतत् माधुर्यं तदा एव स्थातुं शक्नोति यदा हृदयं वास्तवतः शुद्धं भवति।

उपर्युक्तवर्णनात् स्पष्टं भवति यत् योगसम्बद्धा विचारधारा वेदेषु भिन्नरूपेण दृश्यन्ते । योगस्य साधकः स्वस्य अन्तःकरणस्य शुद्धिं कामयति, येन सः परमतत्त्वं प्राप्नुयात्। एतादृशी विचारधारा, एतादृशम् आचरणम्, एतादृशः व्यवहारः च न केवलं योगमार्गाय अनिवार्यः अपि तु अपरिहार्यः अपि अस्ति । संक्षेपेण उच्यते चेत् योगः विचार-आचरण-व्यवहार-शुद्धिः अस्ति, तस्मिंश्च मार्गे यः साधकः चरति सः योगी भवति।

उपनिषत्सु योगः[सम्पादयतु]

मुख्यलेखः : उपनिषत्सु योगः

उपनिषत्सु योगः पतञ्जलियोगसूत्रात् किञ्चित् भिन्नतया वर्णितः अस्ति। मनुष्यस्य जीवनं जडस्य चैतन्यस्य च सम्मिश्रणमेव अस्ति। जडतत्त्वेन सह चेतनतत्त्वस्य आबन्धनत्वात् चेतनः आत्मानं विस्मृत्य जडस्वरूपे एव समाहितः भवति। अथ मानवचैतन्यं इन्द्रियाणां मनसा च वशीकृत्य बाह्यलोके प्रत्यभिज्ञानं प्राप्तुं प्रयतते। तत् चैतन्यस्य बहिर्मुखं रूपम् अस्ति। तत् चैतन्यं जीवनपर्यन्तं भोगान्वेषणे सक्रियं तिष्ठति, परन्तु कदाऽपि न तृप्तं भवति। तत् अस्थायि सुखं प्राप्नुयात् किन्तु तस्य कृते स्थायि सुखं दुर्लभं भवति। अस्मिन् मार्गे अग्रे गच्छन् सः अवगच्छति यत् अस्मिन् मार्गे सुखं नास्ति । तदा सः स्वातन्त्र्यस्य आवश्यकताम् अनुभवति। एषा स्वातन्त्र्यकामना तस्य अन्तर्मुखि-अवस्थायै साहाय्यं करोति । अनेन सुविचारेण तत् चैतन्यं शुद्धरूपेण सततं परिणमति। अन्ते तत् यदा पूर्णतया जागृतं, बोधितं च भवति, तदा तत् इन्द्रियाणां, मनसः च वशीकरणात् आत्मानं मुक्तं कर्तुम् इच्छति, तदर्थं च प्रयत्नान् कर्तुं आरभते। अस्मिन् मार्गे यदा सः जीवात्मा स्वस्य यथार्थं स्वरूपं जानाति, तदा सर्वे भेदाः, सर्वे विघ्नाः, सर्वाः समस्याः, सर्वाः अपूर्णताः च विलुप्ताः भवन्ति। अविच्छिन्नजगदा सह एकीभूत्वा परमानन्दमयः भवति ।


सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, अध्यायः – २, श्लो. ४८
  2. (महाभारत ०/२/३४९-६५)
  3. (महाभारत १२/३४२/९६)
"https://sa.wikipedia.org/w/index.php?title=योगदर्शनस्य_इतिहासः&oldid=472976" इत्यस्माद् प्रतिप्राप्तम्