योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

योगश्चित्तवृत्तिनिरोधः इत्येतत् पातञ्जलयोगसूत्रस्य प्रथमपादस्य द्वितीयं सूत्रम् अस्ति। एतत् सूत्रं योगस्य लक्षणं/स्वरूपम् (Characteristics of Yoga) वर्णतयति।

योगश्चित्तवृत्तिनिरोधः


समाधिपादस्य प्रप्रथमं सूत्रम्
सूत्रसङ्ख्या १/२
सूत्रप्रकारः अधिकारसूत्रम्
पूर्वसूत्रम् अथ योगानुसाशनम्
अग्रिमं सूत्रम् तदा द्रष्टुः स्वरूपेऽवस्थानम्

सूत्रान्वयः[सम्पादयतु]

चित्तवृत्तिनिरोधः - चित्तस्य (consciousness) वृत्तीनां (circular patterns) निरोधः (blocking), योगः = योगः (समाधिः) (उच्यते)।

सूत्रार्थः[सम्पादयतु]

चित्तस्य वृत्तीनां निरोधः योगः (समाधिः) उच्यते।

To block the patterns of consciousness is yoga.

व्यासभाष्यम्[सम्पादयतु]

सर्वशब्दाग्रहणात्सम्प्रज्ञातोऽपि योग इत्याख्यायते । चित्तं हि प्रख्याप्रवृत्तिस्थितिशीलत्वात्त्रिगुणम् । प्रख्यारूपं हि चित्तसत्त्वं रजस्तमोभ्यां संसृष्टमैश्वर्यविषयप्रियं भवति । तदेव तमसानुविद्धमधर्माज्ञानावैराग्यानैश्वर्योपगं भवति । तदेव प्रक्षीणमोहावरणं सर्वतः प्रद्योतमानमनुविद्धं रजोमात्रया धर्मज्ञानवैराग्यैश्वर्योपगं भवति । तदेव रजोलेशमालेपनं स्वरूपप्रतिष्ठं सत्त्वपुरुषान्यताख्यातिमात्रं धर्ममेधध्यानोपगं भवति । तत्परं प्रसङ्ख्यानमित्याचक्षते ध्यायिनः । चितिशक्तिरपरिणामिन्यपरतिसङ्क्रमा दर्शितविषया शुद्धा चानन्ता च । सत्त्वगुणात्मिका चेयम्, अतो विपरीता विवेकख्यातिरिति । अतस्तस्यां विरक्तं चित्तं तामपि ख्यातिं निरुणद्धि । तदवस्थं चित्तं संस्कारोपगं भवति । स निर्बीजः समाधिः । न तत्र किञ्चित्सम्प्रज्ञायत इत्यसम्प्रज्ञातः । द्विविधः स योगश्चित्तवृत्तिनिरोध इति ॥२॥

भाष्यार्थः[सम्पादयतु]

तत्त्ववैशारदीभाष्यम्[सम्पादयतु]

राजमार्तण्डवृत्तिः[सम्पादयतु]

विशेषम्[सम्पादयतु]

सूत्रेऽस्मिन् चत्वारः शब्दाः सन्ति। योगः, चित्तः, वृत्तिः, निरोधः च।

चित्तम् - सर्वप्रथमं चित्तशब्दस्य अर्थः अवगन्तव्यः भवति। चित्तशब्दस्य मूलशब्दः अस्ति चित् इति। चित्-शब्दस्य अर्थः भवति, ज्ञानं, चेतना च। [१] चित्त-शब्दस्य व्यत्पत्तिः अस्ति - चेतत्यनेन चित् + करणे क्तः इति। चित्तं वेदान्ते अनुसन्धानात्मिक-अन्तःकरण-वृत्तिः मन्यते। अन्तर्मध्यवर्ति-करणम् इति अन्तःकरणम् - ज्ञानसाधनम् इत्यर्थः। अन्तरिन्द्रियम्, धीन्द्रियम्। मन, बुद्धिः, अहङ्कारः, चित्तं = अन्तःकरणम्। परन्तु अत्र चित्तं तु मनसः जागरुकावस्था (consciousness) भवति। एतस्यायां जागरूकावस्थायां मनसः अर्धजागरूकावस्था (Subconsciousness), अजागरूकावस्था (unconsciousness) च अन्तर्भवति।

वृत्तिः - वृत्ति-शब्दस्य अर्थः वृत्तनम् (Style in general or circular patterns)। चित्तवृत्तिः इत्युक्ते

निरोधः - नि+रुध+घञ् - इत्यनेन निरोध-शब्दः समुपद्यते। राजमार्तण्डवृत्तौ निरोधशब्दस्य सन्दर्भे उक्तम् अस्ति यत् -

तासां निरोधो बहिर्मुखतया परिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्याख्यायते।[२]

वृत्तिसंस्कारस्य अशेषावस्था एव वृत्तिनिरोधश्च।

योगस्वरूपं वर्णयति यत्, निर्मल-सत्त्वप्रधानस्य चित्तस्य (चित्तसत्त्वस्य), याः अङ्गाङ्गिभावेन परिणताः वृत्तयः सन्ति, तासां निरोधः अर्थात् याः वृत्तयः बहिर्गामिन्यः सन्ति, ताः बहिर्मुखीः वृत्तीः सांसारिकविषयेभ्यः अपाकृत्य विपरीतदिशायाम् अर्थात् अन्तर्मुखतया चित्ते एव लीनाः करणीयाः, एवं चित्ते वृत्तीनां लयः एव योगः अस्ति इति। सर्वासु चित्तभूमिषु एतादृशः निरोधः (चित्तस्य वृत्तीनां निरोधः) सर्वेषां प्राणिनां धर्मः अस्ति, यः कदाचित् कस्मिँश्चित् चित्ते प्रकटितः भवति, प्रायश्च सः धर्मः चित्तेषु गुहितः भवति।

सूत्रे केवलं 'चित्तवृत्तिनिरोध' शब्दः अस्ति, न तु 'सर्वचित्तवृत्तिनिरोधः' प्रयुक्तः। अनेन सूत्रकारः सम्प्रज्ञातस्य, असम्प्रज्ञातस्य च समाधेः योगे अन्तर्भावं करोति। अर्थात् असम्प्राज्ञात-समाधिः, यत्र सर्वासां वृत्तीनां निरोधः भवति, तत्र निरुद्ध-अवस्था तु योगः अस्त्येव किन्तु सम्प्रज्ञात-समाधिः, यत्र सात्त्विक-एकाग्रवृत्तिः स्थिरा भवति, तत्र विद्यमाना एकाग्र-अवस्था अपि योगस्य लक्षणे अन्तर्भवति। अर्थात् चित्तेन तमस्-तत्त्वस्य मलरूपम् आवरणं, रजस-तत्त्वस्य विक्षेपरूप-चञ्चलता च निवृत्ता भवति, ततः सत्त्वस्य प्रकाशे, या एकाग्रवृत्तिः भवति, सा अपि योगत्वेन परिगणनीया भवति।

सम्पूर्णा सृष्टिः सत्त्व-रजस्-तमस्-गुणैः एव निर्मिता अस्ति, अर्थात् सृष्टिः त्रिगुणानाम् एव परिणामः वर्तते। एकस्य धर्मस्य, आकारस्य अथवा रूपस्य त्यागं कृत्वा धर्मान्तरस्य ग्रहणम् अर्थात् अन्यस्य धर्मस्य, आकारस्य अथवा रूपस्य धारणम् एव परिणामः उच्यते। चित्तम् एतेषां गुणानां सर्वप्रथमस्य सत्त्वगुणस्य आधिक्येन निर्मितत्त्वात् सत्त्वप्रधानः परिणामः अस्ति। अत एव एतत् चित्तसत्त्वम् इत्यपि उच्यते। चित्तसत्त्वं चित्तस्य निजं व्यापकं स्वरूपम् अस्ति।

एतत् सम्पूर्णं स्थूलजगत्, यत्र सामान्यः व्यवहारः प्रचलति, तत्र रजोगुणस्य, तमोगुणस्य च प्राधान्यत्वात् तत् तयोः गुणयोः परिणाममात्रम् अस्ति। एतयोः गुणयोः बाह्यतया उत आभ्यान्तरतया संसर्गे सति चित्तसत्त्वे प्रतिक्षणं गुणानां यः परिणामः भवति, सः चित्तवृत्तिः इति संज्ञां प्राप्नोति।

उदाहरणत्वेन चित्तम् अगाधस्य परिपूर्णस्य सागरस्य जलम् अस्ति। यथा पृथ्व्याः सम्बन्धेन कूप-सर-तडागादिषु आन्तरिकं तदाकारं प्राप्य तत्परिणामं प्राप्नोति, तथैव चित्तं राग-द्वेष-काम-क्रोध-लोभ-मोह-भयादिरूपस्य आन्तर-आकारेण लघ्वाकारे परिणतं भवति। तत्र यथा वाय्वादीनां वेगेन जलरूपाः तरङ्गाः उत्पद्यन्ते, तथैव चित्तेन्द्रियैः बाह्यविषयेभ्यः आकर्षितं भूत्वा तेषां विकाराणाम् आकारे सततं परिणतं भवति। ताः सर्वाः बाह्यविषयनेतारः वृत्तयः एव चित्तवृत्तयः उच्यन्ते। यथा समुद्रस्य तरङ्गाः अनन्ताः सन्ति, तथैव चित्ते उत्पद्यमानाः वृत्तयः अनन्ताः सन्ति। ताः प्रतिक्षणम् उदयमानाः भवन्ति।

यथा समुद्रः वायोः, आघातस्य, दोलनस्य च अभावे तरङ्गाकारादि-परिणामान् त्यक्त्वा स्वभावे एव अवस्थितः भवति, तथैव यदा चित्तं बाह्यस्य, आभ्यन्तरस्य च विषयाकारस्य परिणामान् त्यक्त्वा स्वस्य स्वरूपे अवस्थितः भवति, तथैव यदा चित्तम् अन्य-लघ्वाकारे परिणतम् अभूत्वा स्वरूपे अवस्थितं भवति, तदा चित्तवृत्तिनिरोधः भवति।

उपर्युक्ताः परिणाम-रूपाः वृत्तयः चित्ते त्रयाणां गुणानां प्रभावेन एव सततम् उदिताः भवन्ति। चित्तसत्त्वं ज्ञानस्वभावयुक्तं भवति। परन्तु यदा तत्र रजोगुणस्य मिश्रणं भवति, तदा ऐश्वर्य-विषयाः प्रियाः भवन्ति। यदा तत्र तमोगुणस्य मिश्रणं भवति, तदा अधर्म-अज्ञान-अवैराग्य-अनैश्वर्यादयः उत्पद्यन्ते। यदा साधकः शनैः शनैः तेभ्यः गुणेभ्यः आत्मानं विच्छेदयति, तदा सः तमोगुणात् चित्तसत्त्वं दूरीकृत्य रजोगुणस्य अंशेन सह चित्तं योजयति। तस्मिन् रजोगुण-मिश्रिते चित्ते धर्मस्य, ज्ञानस्य, वैराग्यस्य, ऐश्वर्यस्य च भावाः उत्पद्यन्ते। ततः अधिके परिश्रमे कृते सति चित्तं यदा रजोगुणेन लेश-मात्रम् अपि प्रभावितं न भवति, तदा चित्तं स्वरूपे (सत्त्वे) प्रतिष्ठितं भवति। तस्मिन् समये चित्तसत्त्वस्य, पुरुषस्य च भिन्नतायाः ज्ञानं भवति, यत् विवेक-ख्यातिः अर्थात् भेदज्ञानम् इत्युच्यते।[३]। विवेक-ख्यातिः यदा परिपक्वा भवति, तदा धर्ममेघ-समाधेः सिद्धिः प्राप्यते।[४] सा स्थितिः एव परम-परसंख्यानम् अपि उच्यते।

चिति-शक्तिः (पुरुषः) अपरिणामिनी, अप्रतिसङ्क्रमा च अस्ति अर्थात् परिणाम-क्रियायाः, संयोगादिभ्यश्च रहिता भवति। सा च चित्तस्य सर्वेषां विषयाणां दृष्टा, शुद्धा, अनन्ता च अस्ति। सत्त्वगुणात्मकं चित्तम् एतस्मात् पुरुषात् विपरीतम् अस्ति अर्थात् चित्तं परिणामि, क्रियादियुक्तं, नाशयुक्तं च वर्तते। तत् विषयाणां स्वयं द्रष्टृ नास्ति, किन्तु पुरुषस्य दर्शनसाधनम् अस्ति। चित्तं जडत्वात् पुरुषस्य अपेक्षया अशुद्धम्, अन्तयुक्तं च अस्ति। एवं प्रकारेण चित्तात् पुरुषस्य भिन्नतादर्शनं विवेक-ख्यातिः उच्यते। यदा एतस्याः विवेक-ख्यातेः अपि वैराग्यं प्राप्यते[५], तदा विवेक-ख्यातेः अपि निरोधः भवति।[६] एषः निर्बीज-समाधिः उच्यते। एषः निर्बीजः समाधिः एव असम्प्रज्ञात-समाधिः उच्यते। यतः अत्र कोऽपि सांसारिकः (प्राकृतिकः) विषयः बोध्यः न भवति। एवं सम्प्रज्ञात-असम्प्रज्ञात-भेदेन चित्तवृत्ति-निरोधरूपः योगः द्विप्रकारकः वर्तते।

एषः सार्वभौमः सम्प्रज्ञातः, असम्प्रज्ञातः च समाधिः चित्तस्य धर्मः अस्ति। यथा उपरि वर्णितम् अस्ति, तथा केवलम् अन्तमयोः द्वयोः उच्च-अवस्थयोः समाधेः प्रादुर्भावः भवति। प्रथमासु त्रिसृषु निम्न-अवस्थासु रजोगुणस्य, तमोगुणस्य च प्रधानतात्वात् विक्षेपः, मलावरणं च समाधिं नाशयति।

चित्तस्य पञ्च अवस्थाः[सम्पादयतु]

चित्तस्य पञ्च अवस्थाः निम्नानुसारं वर्तन्ते -

  1. मूढावस्था () - मूढावस्थायां तमोगुणः प्रधानः भवति, परन्तु रजोगुणस्य, सत्त्वगुणस्य च गौणरूपेण उपस्थितिः भवति। एषा अवस्था कामस्य, क्रोधस्य, लोभस्य, मोहस्य च कारणभूता भवति। यदा चित्तस्य एतादृशी अवस्था भवति, तदा मनुष्यस्य प्रवृत्तिः अज्ञाने, अधर्मे, रागे, अनैश्वर्ये च भवति। एषा अवस्था घृणीतानां, पतितानां च जनानां भवति।
  2. क्षिप्तावस्था () - क्षिप्तावस्थायां रजोगुणस्य प्रधानता भवति, परन्तु तमोगणस्य, सत्त्वगुणस्य च गौणतया उपस्थितिः भवति। एषा अवस्था रागद्वेषादीनां कारणभूता भवति। एतस्याम् अवस्थायां धर्म-अधर्मयोः, राग-विरागयोः, ज्ञान-अज्ञानयोः, ऐश्वर्यानैश्वर्ययोः च सम्मिलततया प्रवृत्तिः भवति। अर्थात् यदा तमोगुणः सत्त्वगुणे प्रभावितः भवति, तदा अधर्मे, अज्ञानादिषु च प्रवृत्तिः भवति। यदा सत्त्वगुणः तमोगुणे प्रभावितः भवति, तदा धर्मे, ज्ञानादिषु च प्रवृत्तिः भवति। एषा अवस्था साधारण-सांसारिकमनुष्यानां भवति।
  3. विक्षिप्तावस्था () - विक्षिप्तावस्थायां सत्त्वगुणः प्रधानः भवति, परन्तु रजोगुणस्य, तमोगुणस्य च गौणरूपेण उपस्थितिः भवति। एषा स्थितिः निष्कामकर्मणा, राग-द्वेष-काम-क्रोध-लोभ-मोहादीनां त्योगेन च उत्पद्यते। एतस्यायाम् अवस्थायां सत्त्वगुणस्य प्रबलता भवति, अत एव मनुष्यस्य प्रवृत्तिः धर्मे, ज्ञाने, वैराग्ये, ऐश्वर्ये च भवति। परन्तु रजोगुणः चित्तं विक्षिप्तं करोति। एषा अवस्था श्रेष्ठमनुष्याणां, जिज्ञासूनां च भवति। एताः उक्ताः तिस्रः अवस्थाः चित्तस्य स्वाभाविक-अवस्थाः न सन्ति। अत एव एताः तिस्रः अवस्थाः योगसाधिकाः न सन्ति। यतः बाह्येभ्यः विषयेभ्यः गुणेभ्यः चित्तं सततं प्रभावितं भवति।
  4. एकाग्रावस्था () - एकाग्रावस्थायाम् एव एकस्मिन्नेव विषये समान-वृत्तीनां प्रवाहः चित्ते निरन्तरः प्रवहति, सा अवस्था एव एकाग्रावस्था उच्यते। एषा चित्तस्य स्वाभाविकी अवस्था भवति, अर्थात् यदा चित्ते रजोगुणयुक्तानां, तमोगुणयुक्तानां च बाह्यानां विषयाणां प्रभावः न भवति, तदा तत् चित्तमपि निर्मल-देदीप्यमान-स्फटिकवत् निर्मलं, स्वच्छं च भवति। तस्मिन् समये तस्मिन् परमाणुभ्यः आरभ्य महत्तत्त्वपर्यन्तानां (ग्राह्याणां, ग्रहणानां, गृहीतॄणां च - ग्राह्यनिष्ठः समाधिः, ग्रहणनिष्ठसमाधिः, गृहीतृनिष्ठः समाधिः इत्यपि प्रसिद्धम्) सर्वेषां विषयणां यथार्थतया साक्षात्कारः भवति। एतस्याः स्थितेः एव अन्तिमा स्थितिः विवेक-ख्यातिः उच्यते। एकाग्रावस्था एव सम्प्रज्ञात-समाधिः अपि उच्यते। तत्र प्रकृतेः सर्वाणि कार्याणि (गुणानां परिणामाः) पूर्णतया प्रत्यक्षाणि भवन्ति।
  5. निरुद्धावस्था () - निरुद्धावस्था तु एकाग्रावस्थायाः सिद्धेः अनन्तरं भवति। एकाग्रावस्थायां यदा विवेक-ख्यातिद्वारा चित्तस्य, पुरुषस्य च अभेदः साक्षात् भवति, तदा तस्याः विवेकख्यात्याः अपि वैराग्यः भवति। सः वैराग्य परवैराग्यः उच्यते। यतः विवेक-ख्यातिः अपि चित्तस्य एव काचित् वृत्तिः अस्ति। एतस्याः वृत्तेः अपि निरोधः भवति, ततः सर्ववृत्तीनां निरोधः भवति, सा चित्तस्य निरोधावस्था भवति। एतस्यायां निरोधावस्थायां यदा साधकः भवति, तदा संसारस्य सर्वेभ्यः संस्कारेभ्यः तिरोभावपूर्वकस्य पर-वैराग्यस्य संस्कारमात्रः शेषः भवति। निरोधावस्थायां वृत्तेः लेशमात्रम् अपि उपस्थितिः न भवति, अतः कस्याऽपि पदार्थस्य अपि ज्ञानं न भवति। ततोऽधिकम् अविद्यादयः पञ्च क्लेशाः, कर्माशय-रूपाणि जन्मादीनां बीजानि च न भवन्ति। अत एव एषा अवस्था असम्प्रज्ञात-समाधिः, निर्बीजसमाधिः च अपि उच्यते। अत्र कश्चन प्रश्नः समुत्पद्यते यत्, सर्ववृत्तीनां निरोधे सति किं पुरुषस्यापि निरोधः भवति किम्? अथवा किं सा शून्यावस्था अस्ति? अत एव अग्रे सूत्रे उक्तम् अस्ति यत्, सर्ववृत्तीनां निरोधे सति पुरुषः (शुद्धपरमात्मनि) स्वरूपे अवस्थितः भवति इति। अत्र विशेषतया ज्ञातव्यं यत्, द्वितीये सूत्रे योगस्य विषयं बोधयितुं चित्तस्वरूपस्य, सृष्टिक्रमस्य च ज्ञानम् अतीव आवश्यकं भवति, अत एव विस्तारेण वर्णनं योग्यतया कृतम् अस्ति।

चित्त-स्वरूपं, सृष्टिक्रमश्च[सम्पादयतु]

मूलप्रकृतिः तु जडा, अलिङ्गी, परिणामिनी, त्रिगुणमयी च अस्ति। त्रिगुणमयी इत्युक्ते प्रकाशयुक्ता, क्रियायुक्ता (प्रवृत्तियुक्ता), स्थितिशीला च। प्रकाशः सत्त्वगुणस्य, क्रिया रजोगुणस्य, स्थितिशीलता च (स्थगनं) तमोगुणस्य धर्मः भवति। गुणाः स्वरूपमात्रेण परिणाम-स्वभावयुक्ताः भवन्ति। अत एव तेषां सत्तामात्रं साम्य-परिणामः अर्थात् सत्त्वात् सत्त्वे, रजोगुणात् रजोगुणे, तमोगुणात् तमोगुणे च परिणामः भवति। तेषां गुणानां विषम-परिणामानां कारणेन प्रकृतिः अनुमानगम्या, आगमगम्या च भवति। गुणानां साम्य-परिणामयुक्ता अवस्था एव प्रधानप्रकृतिः अथवा मूल-प्रकृतिः भवति। एषा प्रकृतिः परोक्षतया भवति अर्थात् प्रत्यक्षतया न दर्शनीयानाम् अव्यक्तानां गुणानां परिणामः पुरुषाय निष्प्रयोजनः भवति। पुरुषस्य प्रयोजनं भोगः, अपवर्गः च अस्ति। भोगगुणानां परिणामानां यथार्थरूपेण साक्षात्कारः, अपवर्गश्च पुरुषस्य स्वरूपावस्थितिः अस्ति। गुणैः विना साक्षात्कारकृता स्वरूपावस्थितिः दुर्लभा भवति। चेतनतत्त्वस्य शुद्धस्वरूपं जड-तत्त्वात् सर्वथा विलक्षणं भवति। सा विलक्षणता निम्नायाः सारण्याः माध्यमेन ज्ञातुं शक्यते।

जड-तत्त्वस्य सम्बन्धेन चेतनतत्त्वस्य 'ईश्वरः' तथा 'जीवः' इति संज्ञा भवति। जड-तत्त्वं परिणामयुक्ततया नित्यम् अस्ति, परन्तु चेतन-तत्त्वं कूटस्थतया नित्यम् अस्ति। जड-तत्त्वं विकारयुक्तं, चेतन-तत्त्वञ्च निर्विकारम् अस्ति। जड-तत्त्वं सक्रियं,चेतन-तत्त्वं निष्क्रियं, केवलं ज्ञानस्वरूपम् अस्ति। जड-तत्त्वे ज्ञानं, नियमः, व्यवस्थापूर्वकक्रिया च केवलं चेतन-तत्त्वस्य सन्निधिमात्रेण अस्ति। अर्थात् चेतन-तत्त्वं क्रियायाः निमित्त-कारणं, जड-तत्त्वं च समवायि अथवा उपादान-कारणम् अस्ति। समष्टि-जड-तत्त्वस्य सम्बन्धत्वादेव चेतन-तत्त्वस्य संज्ञा पुरुष-विशेषः अथवा ईश्वरः अस्ति।

एषः पुरुषः सर्वज्ञः, सर्वव्यापकः, सर्वशक्तिमान् च अस्ति। स्वस्य स्वरूपस्य स्वाभाविकज्ञानद्वारा पुरुषाणां कल्याणार्थं गुणेषु विषमाः परिणामाः भवन्ति, येन सम्पूर्णायाः सृष्टेः रचना भवति। ते गुणानां विषम-परिणामाः पञ्च प्रकारकाः भवन्ति।

विषम-परिणामाः[सम्पादयतु]

1) प्रथम-विषमपरिणामः - महत्तत्त्वम्

2) द्वितीय-विषमपरिणामः - अहङ्कारः

3) ग्रहण-विषम-परिणामः - एकादशेन्द्रियाणि

4) ग्राह्य-विषम-परिणामः - पञ्चतन्मात्राः

5) ग्राह्य-स्थूल-विषम-परिणामः - पञ्चस्थूलभूतानि

1) प्रथम-विषम-परिणामः - महत्तत्त्वम् - सत्त्वगुणे रजोगुणस्य क्रियामात्रः, एवञ्च तमोगुणस्य स्थितिमात्रस्य विषमः परिणामः महत्तत्त्वं भवति। अर्थात् सत्त्वगुण-प्रधानः, रजोगुणस्य, तमोगुणस्य च लिङ्गमात्रम् उपस्थितिः प्रथम-विषम-परिणामः महत्तत्त्वम् उच्यते। एतदेव लिङ्गम् इति उच्यते, सृष्टेश्च नियमानां बीजरूपम् अस्ति। महत्तत्त्वादेव सम्पूर्णायाः सृष्टेः उत्पत्तिः भवति। तदेव योगदर्शनस्य अनुसारं समष्टिः व्यष्टिचित्तम् उच्यते। तदेव साङ्ख्यस्य अनुसारं समष्टिः व्यष्टिबुद्धिः उच्यते। वेदान्ते चेतन-तत्त्वस्य महत्तत्त्वस्य (समष्टिचित्तस्य) सम्बन्धात् 'हिरण्यगर्भः' इति संज्ञा अस्ति, व्यष्टि-चित्तस्य सम्बन्धाच्च 'तैजसः' संज्ञा अस्ति। एतच्चित्तं/एषा बुद्धिः व्यष्टिरूपेण पुरुषाय गुणानां साक्षात्कारस्य साधनम् अस्ति। कुत्रचित् मनः, बुद्धिः, अहङ्कारः, चित्तं च एकार्थकम् उक्तम् अस्ति, अपरत्र तु चतुःप्रकारस्य वृत्तिभेदेन तानि (मनोबुद्ध्यहङ्कारचित्तानि) अन्तःकरण-चतुष्टयत्वेन उल्लिखितानि सन्ति। अर्थात् सङ्कल्प-विकल्प-कृते सति मनः, अहंभाव-प्रकटिते सति अहङ्कारः, निर्णय-निश्चये कृते सति बुद्धिः, स्मृति-संस्कारैः चित्रणत्वात् चित्तम् इति सम्बोध्यते।

महत्तत्त्वाय साङ्ख्ये 'बुद्धिः' एवञ्च योगे 'चित्तम्' इति शब्दप्रयोगः प्राप्यते। साङ्ख्ये बुद्धौ चित्तम् अन्तर्भवति, योगे च चित्ते बुद्धिः सम्मिलिता भवति। भिन्नतया शब्दचयनस्य पृष्ठे शास्त्राणां स्वरूपम् उत्तरदायि अस्ति। यतः साङ्ख्यः सिद्धान्तात्मकः भवति, अतः सांख्ये बुद्धिद्वारा एव सर्वेषां पदार्थानां विवेकपूर्णतया निर्णयस्य वर्णनं कृतम् अस्ति। अपरत्र योगशास्त्रं तु क्रियात्मकं वर्तते, अतः योगे चित्तद्वारा अनुभवकरणम् अर्थात् साक्षात्कारकरणम् उल्लिखितम् अस्ति।

उदाहरणत्वेन - चित्रपटले यथा चित्रं भवति, तथैव ग्राह्य-ग्रहणयोः सम्बन्धेन सर्वप्रकारकान् विषयान् पुरुषाय प्रत्यक्षं कारयितुं चित्तं दर्पणरूपेण कार्यं करोति। चित्ते एव सुख-दुःख-मोहादिरूपेण सत्त्वगुणस्य, रजोगुणस्य, तमोगुणस्य च परिणामः भवति। चित्तस्य एव वृत्तिमात्रेण सूक्ष्मशरीरेण सह एकस्य स्थूलशरीरस्य त्यागं कृत्वा अपरं शरीरं प्रति गमनागमनं भवति। असङ्गः, निर्लेपः च पुरुषः केवलं तस्याः सम्पूर्णायाः प्रक्रियायाः दृष्टा एव भवति। एतस्मिन् चित्ते एव अहङ्कारः बीजरूपेण तिष्ठति।

2 द्वितीय-विषम-परिणामः - अहङ्कारः - अहम्भावेन एकत्व-बहुत्वं, व्यष्टि-समष्टिः इत्येतासां सर्वप्रकारकाणां भिन्नतानाम् उत्पादकः, महत्तत्त्वस्य च विषम-परिणामः अहंकारः भवति। अहङ्कारस्य एव ग्राह्य-ग्रहण-भेदयुक्तयोः द्वयोः प्रकारयोः विषम-परिणामौ उत्पद्येते।

3 ग्रहण-विषम-परिणामः - एकादशेन्द्रियाणि - परस्परं भेदयुक्तानि पञ्च ज्ञानेन्द्रियाणि शक्तिरूपाणि - श्रोत्रं, त्वक्, चक्षुः, रसना, घ्राणं; तथैव परस्परं भेदयुक्तानि कर्मेन्द्रियाणि शक्तिरूपाणि - वाक्, पाणि, पादः गुदा, उपस्थं च; तथैव एकदशं मनः। एतानि एकादशेन्द्रियाणि विभाजकस्य अहङ्कारस्य ग्रहण-विषम-परिणामाः सन्ति।

4 ग्राह्य-सूक्ष्म-विषम-परिणामः - पञ्च-तन्मात्राः (waves) - परस्परं भेदयुक्ता शब्द-तन्मात्रा, स्पर्श-तन्मात्रा, रूप-तन्मात्रा, रस-तन्मात्रा, गन्ध-तन्मात्रा — एताः तन्मात्राः भेदभावोत्पादकस्य विभाजकस्य अहङ्कारस्य ग्राह्य-विषम-परिणामाः भवन्ति।

5 ग्राह्य-स्थूल-विषम-परिणामःपञ्च स्थूलभूतानि - पृथिवी, जलम्, अग्निः, वायुः, आकाशः एत्येतानि स्थूलभूतानि तन्मात्राणां ग्राह्य-स्थूल-विषम-परिणामाः भवनन्ति।

एतेषु विषम-परिणामेषु सत्त्वगुणे रजोगुणस्य, तमोगुणस्य च प्रभावः क्रमशः वर्धते। अर्थात्, महत्तत्त्वस्य अपेक्षया अहङ्कारे, अहङ्कारस्य अपेक्षया पञ्च-तन्मात्रासु, एकादशेन्द्रियेषु च, पञ्च तन्मात्राणाम् अपेक्षया पञ्च स्थूल-भूतेषु रजोगुणस्य, तमोगुणस्य च मात्रा क्रमशः वर्धते। अन्ते पञ्च स्थूलभूतेषु रजोगुणस्य, तमोगुणस्य च मात्रा अत्यधिकतया वर्धते (तौ गुणौ प्रधानरूपौ भवतः), अन्ते तयोः गुणयोः कारणेन स्थूलभूतानि अस्मभ्यं दृष्टिगोचराणि भवन्ति।

प्रकृतेः, विकृतेः च भेदः[सम्पादयतु]

प्रकृतेर्महांस्ततोऽहंकारस्तस्माद् गणश्च षोडशकः ।

तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूतानि ॥ २२ ॥[७]

प्रकृत्याः महत्, महतः अहङ्कारः, अहङ्कारात् षोडशकः (पञ्च तन्मात्राः, एकादशेन्द्रियाणि च); तेषु षोडशकेषु याः पञ्च तन्मात्राः सन्ति, ताभ्यः (स्थूलानि) भूतानि उत्पन्नानि भवन्ति।

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।

षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥३॥[८]

मूल-प्रकृतिः विकृतिः नास्ति, (सा तु केवलं प्रकृतिः अस्ति), महत्-आदयः सप्त (महत्तत्त्वम्, अहङ्कारः, पञ्च तन्मात्राः) प्रकृति-विकृतयः सन्ति, षोडश (पञ्च स्थूलभूतानि, एकादश इन्द्रियाणि) केवलं विकृतयः एव सन्ति (ताः प्रकृतयः न सन्ति) । एवं प्रकृतेः 16 विकृतयः सन्ति। पुरुषः न प्रकृतिः अस्ति, न तु विकृतिः।

पुरुषः, तस्य प्रयोजने (भोगः, अपवर्गः च), गुणानां साम्यपरिणामः (मूलप्रकृतिः), गुणानां विषम-परिणामाः (सप्त प्रकृति-विकृतयः अर्थात् महत्तत्त्वम्, अहङ्कारः, पञ्च-तन्मात्राः) च अनादयः अर्थात् आरम्भरहिताः पदार्थाः उक्ताः सन्ति। अर्थात्, एकादश पदार्थाः आरम्भरहिताः उक्ताः सन्ति।

केवलं षोडश विकृतयः अर्थात् एकादश इन्द्रियाणि, पञ्च स्थूलभूतानि (पञ्चभूतेभ्यः निर्मितं समस्तं जगत्) आरम्भयुक्तं परिगणितम् अस्ति। परन्तु एताः स्वरूपेण एव आरम्भयुक्ताः स्वीकृताः सन्ति; यतः सृष्टेः आरम्भे स्वस्य कारणात् कार्यरूपे प्रकटिताः भवन्ति। प्रवाहात् तु एताः षोडश विकृतयः अपि आरम्भरहिताः सन्ति, यतः प्रलये स्वस्य कार्यस्वरूपं कारणे लीनं कृत्वा द्वितीय-सृष्टौ पुनः पूर्वानुसारम् उत्पन्नाः भवन्ति। एषः प्रवाहः प्रत्येकं सृष्टेः आरम्भे क्रमशः प्रचल्यमानः भवति। अत एव एताः विकृतयः प्रवाहानुसारम् अनादयः सन्ति। एतस्य सन्दर्भः ऋग्वेदे प्राप्यते। यथा -

सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्।[९]

अर्थात्, सः ईश्वरः एतस्य सूर्यस्य, चन्द्रस्य च पूर्वकल्पानुसारं निर्माणम् अकरोत्।

चित्ते ज्ञानसङ्ग्रहः कथम्?[सम्पादयतु]

अधुना शङ्का उत्पद्यते यत्, चित्तं तु जडम् अस्ति; तत्र वस्तोः ज्ञानं कथं भवितुम् अर्हति? पुरुषश्च असङ्गः, निर्लेपः, क्रियारहितश्च वर्तते; तस्मिन् अवबोधनस्य क्रिया कथं भवितुम् अर्हति? इति।

एतस्य समाधानम् अस्ति यत्, चित्तसत्त्वं जडं तु अस्त्येव परन्तु ज्ञानस्वरूपात् पुरुषात् प्रतिबिम्बितम् अर्थात् प्रकाशितम् अस्ति। अत एव चित्ते ज्ञानं प्रदर्शयितुं योग्यता अस्ति। पुरुषः तु चित्ते स्वस्य प्रतिबिम्बितात् अर्थात् प्रकाश-सदृशात् चेतना-तत्त्वात् चित्तस्य, तस्य सर्वेषां विषयाणां च स्वतः ज्ञानं प्राप्नोति। अत एव एतस्मिन् दर्शने चित्तं दृश्यम् अस्ति, पुरुषश्च दृष्टा उक्तः अस्ति।

स्थूलभूतेभ्यः महत्तत्त्वपर्यन्तं गुणानां सर्वेषां परिणामानां ग्राह्य-ग्रहणरूपेण पुरुषस्य सम्मुखं साक्षात्कारं कारयितुं चित्तम् एव एकं साधनम् अस्ति।

एवं प्रकारेण गुणानां परिणामानां यथार्थतया साक्षात्कारकरणं भोगः अस्ति। एषः भोगः एव पुरुषस्य प्रयोजयनयोः अन्ततमः। परुषस्य एषा स्थितिः सम्प्रज्ञात-समाधिः अथवा सम्प्रज्ञात-योगः उच्यते। गुण-परिणामस्य साक्षात्कारस्य पश्चात् स्वरूपावस्थितिः अपवर्गः अस्ति। एषः अपवर्गः एव पुरुषस्य प्रयोजनयोः अन्यतमः। पुरुषस्य एषा स्थितिः असम्प्रज्ञात-समाधिः अथवा असम्प्रज्ञात-योगः उच्यते। एषः (असम्प्रज्ञातः) समाधिः सर्वासु अवस्थासु चित्तस्य धर्मः अस्ति।

वृत्तेः स्वरूपम्[सम्पादयतु]

असम्प्रज्ञात-धर्मः अप्रकटितः अस्ति, तस्य कारणम् अस्ति यत्, अस्माकं सांसारिकः (स्थूलजगतः) सर्वः व्यवहारः केवलं षोडश विकृतिषु ग्राह्य-ग्रहणरूपेण प्रचलति। तासु विकृतिषु तमोगुणस्य, रजोगुणस्य च प्रधानता भवति, सत्त्वगुणश्च गौणरूपेण तिष्ठति। अत एव एतेषु व्यवहारेषु आसक्तित्वात् तमोगुणस्य, रजोगुणस्य च परिणामाः (राग-द्वेषादयः), अभिनिवेशस्य संस्काररूपम् आवरणम्, अहङ्कारे या रजोगुणस्य, तमोगुणस्य च मात्रा अस्ति; तया अस्मिताक्लेशस्य संस्काररूपम् आवरणं, चित्त-सत्त्वे यः सत्तामात्रेण तमोगुणस्य, रजोगुणस्य च परिणामः अस्ति; तस्मात् अविद्या, क्लेशः अर्थात् जडचित्ते, चेतनपुरुषे च अविवेकस्य संस्काराणाम् आवरणं, चित्तसत्त्वे आरूढं भवति। एवं प्रकारेण एतेषाम् आवरणानां कारणेन मलिने, विक्षिप्ते चित्त-सत्त्वे प्रतिक्षणम् एतेषां संस्काराणां विविधरूपेण आन्तरिकतया, बाह्यतया च परिणामाः सततम् उद्भवन्ति, ते परिणामाः एव वृत्तिः इति उच्यन्ते।

वृत्तेः परिणामः[सम्पादयतु]

मूढावस्थायां यदा तमोगुणः प्रधानः भवति, तदा निद्रा, आलस्यं, प्रमादादयः तमःप्रधानायाः वृत्तयः उदिताः भवन्ति। क्षिप्तावस्थायां यदा रजोगुणः प्रधानः भवति, तदा चञ्चलता, अस्थिरता, क्रियाशीलता इत्येतादृश्यः रजःप्रधानाः वृत्तियः उदिताः भवन्ति। क्षिप्तावस्थायां तु वस्तोः यथार्थस्वरूपस्य प्रकाशकः सात्त्विक-वृत्तीनाम् उदयं कारयति, परन्तु सात्त्विक-वृत्तयः राजसिक-वृत्तिभिः अस्थिराः, चलायमानाः च भवन्ति। एवं प्रकारेण सर्वार्थतायां (मनसः सर्वेषां विषयाणां प्रति गमनप्रवृत्तौ) यथार्थतत्त्वस्य प्रकाशकः, चित्तस्य एकाग्रता-धर्मः च आवृत्तः (गुहितः) भवति। अभ्यासद्वारा, वैराग्यद्वारा च यदा सर्वार्थतायाः निरोधः भवति, तदा तमोगुणस्य, रजोगुणस्य च दमनोत्तरं सत्त्वगुणस्य प्रकाशे वस्तोः यथार्थज्ञान-कारयित्री एकाग्रता (सम्प्रज्ञात-समाधिः) उदेति, तस्याः एकाग्रतायाः पराकाष्ठा गुण-परिणामस्य साक्षात्कारपर्यन्तं पुरुषे, चित्ते च विवेक-ज्ञानं भवति। एतस्याः वृत्तेः अपि परवैराग्यद्वारा आसक्तिः निवृत्ता भवति, ततः सर्वासां वृत्तीनां निरोधरूपः असम्प्रज्ञात-समाधिः अर्थात् दृष्टुः स्वरूपावस्थितिः भवति। तस्मिन् समये चित्ते केवलं निरोधस्य संस्कारः शेषः भवति, ते निरोधस्य संस्काराः स्वस्य दुर्बल-अवस्थायां निरोधात् पुनः व्युत्थानं प्रति कारणभूताः भवन्ति। निरन्तरम् अभ्यासस्य, वैराग्यस्य च अवलम्बनं कृत्वा निरोध-संस्काराणाम् अपि दृढभूमिः निर्मिता भवति। तस्याः निरोधसंस्काराणां दृढभूमि-निर्माणोत्तरं व्युत्थानस्य सर्वेभ्यः संस्कारेभ्यः पूर्णतया निवृत्तिं प्राप्य अवशिष्टाः एते शेषसंस्काराः अपि स्वयं निवृत्ताः भवन्ति, तस्मिन् समये पुनः व्युत्थान-अवस्थायां न प्रत्यागच्छन्ती स्वरूपावस्थितिः भवति, सा एव कैवल्यम् इति उच्यते।

प्रथमधर्मं (रूपं) त्यक्त्वा अपरस्य धर्मस्य धारणम् एव परिणामः उच्यते। सम्पूर्णः संसारः गुणानाम् एव सन्निवेशमात्रः अस्ति। अत एव प्रत्येकं वस्तौ प्रतिक्षणं परिणामः भवति। परिणामः द्विधा भवति; एकः तु साम्यः अथवा सरूप-परिणामः। यथा - दुग्धस्य अवस्थितिं (बने रहने तक) यावत्, या दूधात् दूधे परिणामः भवति; सः साम्यः अथवा सरूप-परिणामः उच्यते। अपरस्तु दुग्धात् दधि निर्माणसमये अथवा दुग्धे अन्यस्य विकारस्य उत्पन्नसमये, यः परिणामः भवति; सः दुग्धात् दधि-इत्यादिषु जायमानः परिणामः विषमः अथवा विरूप-परिणामः उच्यते। विषम-परिणामः एव प्रत्यक्षः भवति, तस्माद् प्रत्यक्षात् परिणामात् साम्य-परिणामस्य अनुमानं कर्तुं शक्यते। एतस्य विस्तारपूर्वकं व्याख्या विभूतिपादस्य ९ सूत्रस्य सङ्गतौ, १३ सूत्रात् षोडशसूत्रं यावत्, कैवल्यपादस्य चतुर्दशे सूत्रे च कृता अस्ति।

सृष्टि-उत्पत्ति-क्रमः[सम्पादयतु]

१ चेतन-तत्त्वं, निष्क्रियं, कूटस्थनित्यम् - आत्मा तथा परमात्मा (जड-तत्त्वस्य सम्बन्धात् व्यष्टिरूपे जीवः, समष्टिरूपे ईश्वरः)।

२ जडतत्त्व, सक्रिय, परिणामिनी, नित्य, अव्यक्त, अलिङ्ग, प्रधान, त्रिगुणात्मक मूल प्रकृति, अविकृति, गुणोंकी साम्यावस्था।

३ लिङ्गमात्र, गुणोंका प्रथम विषम परिणाम, प्रकृति-विकृति महत्तत्त्व (समष्टि-चित्त तथा व्यष्टि-चित्त)।

४ महत्तत्त्वका कार्य-अहंकार, प्रकृति-विकृति, गुणोंका द्वितीय विषम-परिणाम। संगति-सब वृत्तियोंके निरोध होनेपर पुरुषकी क्या अवस्था होती है ?

विशेषव्याख्याः[सम्पादयतु]

1) चितिशक्तिः - चिति-शक्तिः (पुरुषः) अपरिणामिनी, अप्रतिसङ्क्रमा च अस्ति अर्थात् परिणाम-क्रियायाः, संयोगादिभ्यश्च रहिता भवति। सा च चित्तस्य सर्वेषां विषयाणां दृष्टा, शुद्धा, अनन्ता च अस्ति। सत्त्वगुणात्मकं चित्तम् एतस्मात् पुरुषात् विपरीतम् अस्ति। चितिशक्तिः वास्तविकतया नित्या अस्ति, अतः स्वरूपात् कदाऽपि प्रच्युता न भवति।

2) वेवेकख्यातिः - यदा चित्ते रजोगुणयुक्तानां, तमोगुणयुक्तानां च बाह्यानां विषयाणां प्रभावः न भवति, तदा तत् चित्तमपि निर्मल-देदीप्यमान-स्फटिकवत् निर्मलं, स्वच्छं च भवति। तदा संसारस्य सर्वेषां विषयणां यथार्थतया साक्षात्कारः भवति। प्रकृतेः सर्वेषा कार्याणां बोधः भवति। एतस्याः स्थितेः एव अन्तिमा स्थितिः विवेक-ख्यातिः उच्यते। विवेक-ख्यातिः अन्तिमतमा सात्त्विकी वृत्तिः अस्ति, यस्यां चित्तद्वारा आत्मनः साक्षात्कारः भवति। विवेकख्यातिः अपि तु सत्त्वगुणस्य एव कार्यं भवति।

३) व्यष्टिः - 'व्यष्टिः अपरा प्रकृतिः' अस्ति। एतस्याः कारणम् अस्ति यत्, मनुष्यः व्यष्टिप्रकृतिना अर्थात् शरीरेण एव बन्धने पतति, समष्टि-प्रकृत्या सः बन्धने न पतति। कारणम् अस्ति यत्, मनुष्य व्यष्टिना अर्थात् शरीरेण सह ममत्वं करोति, तस्य कारणेन बन्धने पतति। व्यष्टिः किमपि भिन्नं तत्त्वं नास्ति, प्रत्युत समष्टेः एव कश्चन क्षुद्रः अंशः अस्ति। समष्टेः मानितः सम्बन्धः एव व्यष्टिः उच्यते अर्थात् समष्टेः अंशेन शरीरेण सह जीवः स्वस्य सम्बन्धं स्वीकरोति चेत्, सः समष्टेः अंशेन शरीरेण सह एव सम्बन्धं स्वीकरोति इति उच्यते। तत् समष्टेः अंशभूतं शरीरम् एव 'व्यष्टिः' इत्युच्यते। व्यष्टिना सह सम्बन्धस्थापनम् एव बन्धनम् अस्ति।

4) वृत्तिः - मनुष्यस्य चित्तं यासु स्थितिषु भ्रमति, ताः एव चित्तस्य वृत्तयः उच्यन्ते। वृत् धातोः क्तिन् प्रत्ययः। वर्ततेऽनया रीत्या इति करणे क्तिन्।


पातञ्जलयोगसूत्राणि
पूर्वतनः
अथ योगानुशासनम्
योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्) अग्रिमः
तदा द्रष्टुः स्वरूपेऽवस्थानम्
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः


सम्बद्धाः लेखाः[सम्पादयतु]

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. https://sa.wiktionary.org/s/hye
  2. राजमार्तण्डवृत्तिः, पृ.3
  3. योगसूत्रम् - (२। २६; ३ । ४९)
  4. योगसूत्रम् (४ । २९)
  5. योगसूत्रम् (१ । १६)
  6. योगसूत्रम् (१ । ७)
  7. (सां० का०)
  8. (सां० का०)
  9. (ऋग १०।१३०।३)

अधिकवाचनाय[सम्पादयतु]

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine