तीव्रसंवेगानामासन्नः (योगसूत्रम्)
सूत्रसारः
[सम्पादयतु]तीव्रस्फूर्तियुक्ताः योगिनः (एतस्य समाधेः सिद्धिं, तस्य फलानां प्राप्तिं च) अतीव शीघ्रतया लभन्ते। २१ ॥
व्यासभाष्यम्
[सम्पादयतु]समाधिलाभः समाधिफलं च भवतीति ॥२१॥
(अधिमात्र-उपाय-तीव्र-संवेगसम्पन्नाः योगिनः) समाधिसिद्धेः, समाधिसिद्धेः च फलं ( अतीव शीघ्रं ) प्राप्नुवन्ति।२१।।
विशेषार्थः
[सम्पादयतु]'संवेग'-शब्दस्य अर्थः वाचस्पतिमिश्रस्य अनुसारं 'वैराग्यः', विज्ञानभिक्षोः अनुसारं 'शीघ्रता', भोजराजस्य अनुसारं 'क्रियायाः हेतुभूतसंस्कारः' च भवति। स्वामिनः विवेकानन्दस्य मते एतस्य अर्थः ( Energy - ऊर्जा ) इति अर्थः भवति। वस्तुतः एतस्य 'संवेग'-शब्दस्य प्रयोगः बौद्ध-ग्रन्थेषु अपि स्फूर्तिः उत शक्तिः इत्यर्थे प्रचलितः आसीत्।
तत्र - तेषु ।
अधिमात्रोपायानाम् - अधिमात्रः 'उत्तमः' ( अत्यन्तप्रबलः ) उपायः येषां, ते उत्तमोपायाः तेषाम्, उत्तमोपाययुक्तानां।
तीव्रसंवेगानाम् - तीव्रस्फूर्तियुक्तानां योगिनां समाधिलाभः, समाधिलभ्यफलं ( अर्थात् कैवल्यं ) च।
आसन्नः - अतीव निकटे अवस्थितिः। योगिनाम् 'उपायकृतम्' एतत् विभाजनं निम्नप्रकारेण प्रदर्शितम् अस्ति।
विशेषविमर्शः
[सम्पादयतु]अत्र सूत्रेण सह भाष्यस्य पदानां संयुक्ततया अर्थः करणीयः भवति। यथा - अधिमात्रोपायतीव्र-संवेगसम्पन्न-योगिनाम्। समाधिलाभः - समाधिसिद्धिः, समाधिफलं च — अर्थात् कैवल्य । आसन्नः - निकटस्थः अर्थात् निकटवर्ती भवति।
विष्णुपुराणे अपि उक्तम् अस्ति -
'विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि' - इत्यादि।।२१।।
अग्रिमसूत्रसम्बन्धः
[सम्पादयतु]प्रश्नः - यदि असम्प्रज्ञातसमाधेः एते 'श्रद्धादयः' एव उपायाः सन्ति, तर्हि एतेषाम् उपायानाम् आश्रयस्वीकर्तृषु योगिषु कः योगी शीघ्रतया, कियति काले, किमर्थं च सिद्धिं प्राप्नोति?
एतस्य स्पष्टीकरणं कर्तुम् अग्रिमं सूत्रं प्रवृत्तम् अस्ति।
मृदुमध्याधिमात्रोपायाः ते योगिनः - मृदु-उपाययुक्ताः, मध्य-उपाययुक्ताः, अधिमात्र-उपाययुक्ताः, ते योगिनः। खलु नव भवन्ति - निश्चयः एव 'नव'-प्रकारस्य भवन्ति। तद्यथा - सः (एवं प्रकारेण) यथा — ते मृदूपायः, मध्योपायः, अधिमात्रोपायः भवन्ति ।
१. तत्र मृदूपायोऽपि - मृदु-उपाययुक्ताः योगिनः अपि। त्रिविधः - त्रिप्रकारकाः भवन्ति -
(१) मृदुसंवेगः - मृदुः संवेगः गतिसंस्कारः स्फूर्तिः यस्य सः, मन्दगतिः उत मन्दस्फूर्तियुक्तः।
(२) मध्यसंवेगः - मध्यमस्फूर्तियुक्तः।
(३) तीव्रसंवेगः - तीव्रस्फूर्तियुक्तः।
२. तथा मध्योपायः - एवमेव प्रकारेण मध्यम-उपाययुक्ताः अपि त्रिधाविभक्ताः भवन्ति। यथा - मृदुस्फर्तिः, मध्यस्फूर्तिः, तीव्रस्फूर्तिः इति।
३. तथाधिमात्रोपायः - एवं प्रकारेण अधिमात्रोपाययुक्ताः योगिनः अपि मृदुस्फूर्तिः, मध्यस्फूर्तिः, तीव्रस्फूर्तिः च त्रिप्रकारकभेदयुक्ताः।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिस्रोतसि तीव्रसंवेगानामासन्नः (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine