वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः (योगसूत्रम्)
सूत्रसारः
[सम्पादयतु]व्यासभाष्यम्
[सम्पादयतु]क्लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः । ख्यातिविषया गुणाधिकारविरोधिन्योऽक्लिष्टाः । क्लिष्टप्रवाहपतिता अप्यक्लिष्टाः । क्लिष्टच्छद्रेष्वप्यक्लिष्टा भवन्ति । अक्लिष्टच्छिद्रेषु क्लिष्टा इति । तथाजातीयकाः संस्कारा वृत्तिभिरेव क्रियते, संस्कारैश्चैव वृत्तय इति । एवं वृत्तिसंस्कारचक्रमनिशमावर्तते । तदेवंभूतं चित्तमवसिताधिकारमात्मकल्पेन व्यवतिष्ठते प्रलयं वा गच्छतीति । ताः क्लिष्टाश्चाक्लिष्टाश्च पञ्चधा वृत्तयः ॥५॥
विशेषम्
[सम्पादयतु]1) पञ्चतयी - पञ्चावयवी - 5 limbs or parts
2) क्लिष्टा - रागादि-सहिता - With trouble
अविद्यादि-पञ्चक्लेशेभ्यः उत्पद्यमानाः, कर्मसंस्कारसमूहोत्पादिकाः च वृत्तयः क्लिष्टाः उच्यन्ते।
3) अक्लिष्टा - रागादि-रहिता - Without trouble
विवेकख्यातिविषयकानां गुणानां कार्यस्य विरोधिन्यः वृत्तयः अक्लिष्टाः उच्यन्ते। एताः वृत्तयः क्लिष्टप्रवृत्तिषु पतिताः अपि अक्लिष्टाः भवन्ति। अर्थात्, क्लिष्टवृत्तीनां विरोधिषु अवसरेषु अर्थात् अभ्यासवैराग्यदशायां स्थिता क्लिष्टाः अपि वृत्तयः अक्लिष्टाः उच्यन्ते। अपरशब्देषु - याः वृत्तयः स्वविरोधिनीषु वृत्तिषु सर्वदा आवृत्ताः भवन्ति चेदपि स्वस्य स्वभावात् च्यूताः न भवन्ति, ताः अक्लिष्टाः वृत्तयः भवन्ति।
क्लिष्टाक्लिष्टवृत्तिभिः क्लिष्टाक्लिष्टसंस्काराः उत्पाद्यन्ते, ते संस्काराश्च तादृशीः वृत्तीः एव आकर्षयन्ति। एवं प्रकारेण चित्ते समानसंस्काराणां, समानवृत्तीनां च चक्रं सर्वदा प्रचलति।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिस्रोतसि वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
- http://sanskritdocuments.org/doc_yoga/bhojavritti.html?lang=hi
- http://www.gitasupersite.iitk.ac.in/yogasutra_content?language=dv&field_chapter_value=1&field_nsutra_value=1&enable_sutra=1&enable_bhaysa=1&enable_vritti=1
- https://www.youtube.com/watch?v=uUmg-2Y6KcM
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine